________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
३२७
देकवाक्यम् , यथा- ' अग्निहोत्रं जुहोति' [ तैत्तरीयसंहिता १. ५. ९. ] इति, · अरुणयैकहायन्या'
__] इत्यादौ तु सत्यप्यारुण्यार्थभेदे विशिष्टार्थविधानाद् विशिष्टाथै कत्वेनैकवाक्यत्वम् , सत्यपि च विशिष्टविधानस्य गौरवप्रस्तत्वे अगत्या तदाश्रयणम् , क्रियायाः प्रकरणान्तरप्राप्तौ हि विशेषणमात्रविधानम् , यथा- " दध्ना जुहोति" [ ] इति गुणविधौ, तत्राप्येकमेव विशेषणं विधातुं शक्यते, नानेकम् , वाक्यभेदप्रसङ्गात् , अप्राप्ता हि क्रियाने कविशेषणान्युपसङ्ग्रहन्ती विशिष्टा
मेयादियागेषु षट्सु दर्श-पौर्णमासशब्दाभिधेयेषु यथा समुच्चयः, समुच्चितादेवाग्नेयादियागषदकात् स्वर्गफलं भवति, तथा विविदिषादिकामस्य यज्ञदानादिषु समुच्चयः, समुदितेभ्य एवं यज्ञदानादिभ्यो विविदिषादिफलनिष्पत्तिरित्यर्थः । यज्ञेन विविदिषन्ति दानेन विविदिषन्ति तपसा विविदिषन्तीत्येव भिन्नवाक्योपात्तत्वाद् यज्ञादिषु विकल्प इति पक्षो नात्रा. भिमतः किन्त्वेकवाक्योपात्तत्वाद् यज्ञादिषु समुच्चय एव, यथाऽऽग्नेयादिषु षट्सु यागेषु दर्शायेकवाक्योपात्तत्वात् समुच्चय इति समाधत्ते- अत्र त्विति । ननु यज्ञेन विविदिषन्ति दानेन विविदिषन्तीत्येवं भिन्नवाक्योपात्तत्वे स्पष्टं प्रतीयमाने कथमेकवाक्योपात्तत्वं यज्ञादिषु श्रद्धेयमित्याकालामुत्थाप्य तत्परिहारमुपदर्शयति-तत्रेति- यज्ञेनेत्यादिवाक्य इत्यर्थः । इति एवमाकाङ्क्षायां सत्याम् । विचार्यते तदाकाङ्कापरिहारो विचारविषयो भवति । विचारस्वरूपमुपदर्शयति- अर्थकत्वादित्यादि- विविदिषादिफललक्षणायकत्वाद् यज्ञेन विविदिषन्तीत्यादिवाक्यान्येकवाक्यं यज्ञदानादिसमुदितजन्यविविदिषादिफल. मेकमेवात्र विधीयत इत्येकवाक्यमिति यावत् । अन्यत्राप्यर्थैकत्वादेवैकवाक्यमित्यावेदयितुं दृष्टान्तमाह- यथेति- अग्निहोत्रमिति द्वितीयान्तमग्निहोत्रेणेति तृतीयान्तपर्यवसितम्, यतः फलसम्बद्धकर्मबोधकविधौ द्विविधा भावना- आर्थी भावना शाब्दी भावना चेति, द्विविधाऽपि भावना-कर्माकाक्षा, करणाकाङ्क्षा, इतिकर्तव्यताकाङ्क्षेत्येवं त्रिविधाकाक्षावती, तत्र कर्माकाङ्क्षया किं भावयेदित्येवंरूपया यस्य कर्मणो यत् फलं तदा भावनायामन्वेति, यथा- दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र किं भावयेदित्याकाक्षायां स्वर्ग भावयेदिति, करणाकाङ्क्षया तु केन भावयेदित्येवंरूपया यज्ञादिकर्मकरणतयाऽऽर्थीभावनायामन्वेति, यथा-तत्रैव केन भावयेदित्याकाक्षायां दर्श-पूर्णमासयागाभ्यां भावयेदिति, इतिकर्तव्यताकाङ्क्षया च कथं भावयेदित्येवंरूपया यज्ञादिकर्मस्वरूपं येन प्रकारेण सम्पद्यते तत्रान्वेति, यथा-दर्शादिस्थल एव कथं भावयेदित्याकाक्षायां समिदादिभिर्भावयेदिति, तथा च समिदादिभिः सम्पद्यमानाभ्यां दर्श-पूर्णमासयागाभ्यां स्वर्ग भावयेदित्येवं प्रतीयमाना पुरुषप्रयत्नरूपाऽऽर्थी भावना निराकाङ्क्षा भवतीति, शाब्दीभावनायां च कर्माकाक्षया पुरुषप्रयत्नरूपाऽऽर्थी भावनैवान्वेति, यथा स्वर्गकर्मक-यागकरणक-समिदादीतिकर्तव्यताकप्रयत्नं भावयेदिति, प्रयत्न प्रति च बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यताज्ञानं कारणम्, तच्च लिङ्गादिविधिज्ञानादेवेति केन प्रयत्नं भावयेदिति करणाकाक्षायां विधिजन्यज्ञानादिति विधिजन्यज्ञानं तत्र करणतयाऽन्वेति, स्वर्गादिकर्मकप्रयत्नः प्रशंसामित एव पुरुषेणाद्रियत इति कथमुक्तप्रयत्नं भावयेदितीतिकर्तव्यताकाक्षायां दर्शादिप्रशंसकार्थवाद इतिकर्तव्यतया तत्रान्वेतीति. एवं चाग्निहोत्रहोमस्य करणतयैवार्थीभावनायामन्वय इति तस्य करणत्वबोधिका तृतीयैव तद्वाचकपदोत्तरं भवितुमर्हतीति अग्निहोत्रमिति द्वितीया तृतीयास्थान एवेति । अन्यत्राप्यर्थैकत्वादेकवाक्यत्वे दृष्टान्तान्तरमाह- अरुणयकहायन्येति"रुण्यार्थभेदे" इत्यस्य स्थाने "रुण्याद्यर्थमेदे" इति पाठो युक्तः, अरुणयकहायन्या गवा सोमं क्रीणातीत्यत्र सोमयागे उपयुक्तायाः सोमलतायाः क्रयः कर्तव्यः, न तु स्वयमेव प्राप्तया सोमलतया सोमयागः क्रियते, तत्र सोमक्रय आरुण्यकरणक एकहायनकरणको गोकरणक इत्येवं विधाने आरुण्याद्यर्थस्य भेदेनार्थकत्वाभावादेकवाक्यत्वं न स्यादतस्तत्रारुण्यविशिष्टेकहायनत्वविशिष्टगोकरणकसोमक्रयविधानमिति तत्रापि विशिष्टार्थस्यैकत्वेनैकवाक्यत्वमित्यर्थः । ननु पृथक् पृथग आरुण्यकरणकसोमक्रयणादिविधानापेक्षया आरुण्यादिविशिष्टगोकरणकसोमक्रयणविधाने गौरवमित्यत आह- सत्यपीति । अगत्येति-पृथगेवारुण्यादिविधाने वाक्यभेदप्रसङ्गो दुष्परिहर इति तत्परिहारे गत्यन्तराभावेनेत्यर्थः। तदाश्रयणं गौरवग्रस्तस्यापि विशिष्टविधानस्याश्रयणम् । ननु तत्र यदि विशिष्टविधानं तर्हि यत्रापि विशेषणमात्रविधानं तत्रापि विशिष्टविधानमेवास्त्वित्यत आह-क्रियाया इति-विशिष्टविधाने विशेषण-विशेष्ययोरुभयोरपि विशिष्टस्वरूपसन्निविष्टतया विधानं प्राप्नोति, विधानं चाप्राप्तस्यैव भवति न तु प्राप्तस्येति विशेष्यीभूतायाः क्रियायाः प्रकरणान्तरप्राप्तौ सत्यां