SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३२८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । विधातुं शक्या, प्राप्तायां तु तस्यामनेकार्थविधाने विधिप्रत्ययावृत्तिलक्षणो वाक्यभेदः प्रसज्यते । न च " यदग्रमेव प्रजायत" "यवसायं जुहोति" "जातपुत्रः कृष्णकेशाग्री नादधीते"[ ] तत्र च कर्मानुवादेन गुणद्वयविधानेऽप्येकवाक्यवन्नानुपपत्तिः, पूर्वत्र " अग्निज्योतिर्योतेरग्निः स्वाहा" [तैत्तरीयारण्यक ४. १०. ] इति मन्त्रवर्णप्राप्तत्वादनेः प्रजापतिमात्रविधानम् , उत्तरत्र च जातपुत्रकृष्णकेशपदद्वयोपलक्षितावस्थाविशेषस्याधानानुवादेन विधानमित्येवं वाक्यभेदनिराकरणात्, तदिदमुक्तम्- " प्राप्ते कर्मणि नानेको, विधातुं शक्यते गुणः " [ ] इति, अत्र च कर्मणीत्युपलक्षणं प्राप्तमात्रमुद्दिश्यानेकविधानस्याशक्यत्वात् , अत एव " ग्रहसंमार्टि " [ ] इत्यत्र ग्रहोदेशेनैकत्व-संमार्गयोर्विधाने वाक्यभेदः, एकोदेशेनानेकविधानवदनेकोद्देशेनैकविधानमप्य विशेषणमात्रस्यैवान्यतोऽप्राप्तस्य विधानं युक्तमित्यर्थः । तत्र दृष्टान्तमाह- यथेति । गुणविधौ दधिद्रव्यरूपगुणविधाने, दध्ना जुहोतीत्यत्र होमक्रियाया अग्निहोत्रं जुहोतीत्यनेन प्राप्तत्वात् तत्र करणतया दधिगुणस्यैव विधानमित्यर्थः । तत्रापि प्रकरणान्तरप्राप्तक्रियायां गुणमात्रविधानस्थलेऽपि । नानेकमिति- अनेकं विशेषणं विधातुं न शक्यत इत्यर्थः। तत्र हेतुमाह-वाक्यभेदप्रसङ्गादिति । कथं वाक्यभेदप्रसङ्ग इत्यपेक्षायामाह- अप्राप्ता हीति-हि- यतः। अनेकविशेषणान्युपसंगृह्यन्ती विशिष्टस्वस्वरूपसन्निविष्टतयाऽनेकविशेषणानि सगृह्णन्ती सती । विशिष्टा अनेकविशेषणविशिष्टा, विधातुं शक्येति- तद्विधाने एकस्यैव विशिष्टस्य विधानमित्येकार्थत्वान्न वाक्यभेदप्रसङ्ग इति । प्राप्तायां तु प्रकरणान्तरप्राप्तायां पुनः। तस्यां क्रियायाम् । विधिप्रत्ययावृत्तिलक्षण: यावन्तो गुणा विधेयास्तावन्तो विधिप्रत्ययास्तस्मिन् वाक्ये न सन्ति, किन्त्वेक एव विधिप्रत्ययो विद्यते, स चैकत्रवोपक्षीण इति गुगान्तरविधानाय तस्यावृत्तिरभ्यासः पुनस्तत्पठनं तल्लक्षणस्तत्स्वरूपः, अतस्तद्भयात् प्राप्तायां क्रियायामेकस्यैव गुणस्य विधानमित्याशयः । तत्र शङ्कामुत्थाप्यापहस्तयति-न चेति । “यदग्रमेव प्रजायत" "यवसायं जुहोति" "जातपुत्रः कृष्णकेशाग्री नादधीते तत्र च" इत्यस्य स्थाने “ यदग्नये च प्रजापतये च सायं जुहोति" इत्यत्र " जातपुत्रः कृष्णकेशोऽग्नीनादधीत इत्यत्र च" इति पाठो युक्तः । कर्मानुवादेन सन्ध्याकालीनहवनकर्मानुवादन, अग्न्याधानकर्मानुवादेन च । गुणद्वयविधानेऽपि अग्नि-प्रजापतिदेवतारूपगुणद्वयविधाने, जातपुत्रत्व-कृष्णकेशाग्रत्वलक्षणगुणद्वयविधानेऽपि च । एकवाक्यवत् यथैकवाक्यं तथा। नानुपपत्तिः, अन्यत्रापि प्राप्तकर्मानुवादेनानेकगुणविधाने एकवाक्यं नानुपपन्नम्। निषेधे हेतुमाहपूर्वत्रेति-यदग्नये च प्रजापतये च जुहोतीत्यत्रत्यर्थः । “ज्योतेरग्निः" इत्यस्य स्थाने " ज्योतिरग्निः" इति पाठः सम्यक् । इति एवंस्वरूपेय॑थः । अग्निज्योतिरित्यादिमन्त्रस्याग्निरूपदेवताप्रकाशनसामर्थ्यात् तत एवाग्नेः प्राप्तत्वान्न तस्य किन्तु प्रजापतिरूपदेवतामात्रस्य विधानम् । उत्तरत्र च जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यत्र च । अवस्थाविशेषस्येतिजातपुत्रत्वं वृद्धावस्थायामपि सम्भवति न तु कृष्णकेशाग्रत्वमिति विशेषस्य युवावस्थालक्षणस्य विधानम् , तथा च युवावस्थः पुरुषोऽग्नीनादधीतत्येवं पर्यवसिते अग्न्याधानानुवादेनावस्थाविशेषस्य विधानमित्यर्थः । इत्येवम् उक्कप्रकारेणैकस्य विधानतः । उक्तार्थे मीमांसासम्मतिमुपदर्शयति- तदिदमुक्तमिति । प्राप्त कर्मणीति- “प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥१॥" इति सम्पूर्ण पद्यम् , अत्र 'प्राप्त कर्मण्यनेको गुणो विधातुं न शक्यः, अप्राप्ते तु बहवोऽप्येकयत्नतो विधीयन्ते' इत्यन्वयः, अर्थस्तु व्यक्त एव । अत्र चेति-प्राप्ते कर्मणीति पद्ये चैत्यर्थः । कर्मणीत्युपलक्षणं कर्मपदेन कर्म-तद्भिन्नयोरुभयोरपि ग्रहणम् । तत्र हेतुमाह-प्राप्तमात्रमितिप्राप्तमात्रं यत् किमपि कर्मस्वरूपं गुणादिस्वरूपं वा तदुद्देशेनानेकविधाने विध्यावृत्तिलक्षणो वाक्यभेदः प्रसज्यत एवेति तद्भयादनेकविधानस्याशक्यत्वादित्यर्थः । अत एव कर्मणीत्यस्योपलक्षणत्वेन प्राप्तमात्रमुद्दिश्यानेकविधानस्याशक्यत्वादेव । "ग्रहसंमाष्टि" इत्यस्य स्थाने "प्रहं संमार्टि' इति पाठः सम्यग, ग्रहो नाम यज्ञोपयोगी पात्रविशेषः, प्रहं समाधीत्यत्र प्रहपदोत्तरद्वितीयकवचनेन प्रहगतैकत्वस्य विवक्षितत्वे एकत्वविशिष्टस्य ग्रहस्यैव सम्माजनेऽपूर्वोत्पत्तिर्न तु सर्वस्य प्रहस्य, एवं च आहे प्राप्ते एकत्व-संमार्जनयोरुभयोरप्यप्राप्तत्वाद् विधाने वाक्यभेदः प्राप्नोति ततो न प्रहगतकस्वं
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy