________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
1
[
शक्यम्, यथात्रैवैकत्वमहोद्देशेन संमार्गविधानम् [ द्व ]दिह " तमेतम्० " [ पत्रइत्यादिविधौ न तावदरुणादिवाक्यवदेकविशिष्टक्रियाबोधकत्वम्, असंभवादनङ्गीकाराश्च, नापि " दधा जुहोति " इतिवत् कस्याश्चित् क्रियाया मेक विशेषणविधानम्, उक्तहेतोरेव, यज्ञ-दानादीन्युद्दिश्य विविदिषाफलसंबन्धविधाने एकत्वमहोद्देशेन संमार्गविधानवद् विविदिषाफलमुद्दिश्य यज्ञ दानादिविधाने च महोद्देशेनैकत्व संमार्गविधानवत् कथं न वाक्यभेदः ?, अथ " दर्श- पौर्णमासाभ्यां स्वर्गकामो यजेत " ] इत्यत्रै स्वर्गोद्देशेन दर्श- पौर्णमास्यात्मकाने कयागविधानवद् विविदिषोद्देशेन यज्ञदानाद्यनेकविधाने न वाक्यभेद इति चेत् ? न तत्र हि दर्शपूर्णमासपदेन न कालविधानम्, उत्पत्तिवाक्यैरेव प्राप्तत्वात्, अतो दर्श- पूर्णमासपदं तत्प्रख्यन्यायसिद्धं नामधेयम्, तत्प्रख्यं चान्यशास्त्रम्, यथा - " अग्निहोत्रं जुहोति ” इत्यत्र मन्त्रवर्णेनाभेः प्राप्तत्वान्नाग्निदेवताविधिः, किन्तु नामधेयं तथात्र विवक्षितमिति सर्वस्य यज्ञोपयोगिनो ग्रहशब्दव्यपदेश्यस्य पात्रस्य संमार्जनं न्याय्यम् । यथा चैकोद्देशेना ने कविधानं वाक्यभेदभयादशक्यं तथाऽनेकोद्देशेनैकविधानमपि यत एकविधावेकस्यैवोद्देश्यत्वमेवं चैकमुद्दिश्य यस्यैकस्य विधानं तस्यैव पुनरन्यमुद्दिश्यापि विधानमिति विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्याह-एकोद्देशेनेति । तत्र दृष्टान्तमाह-यथेति । अत्रैव महं संमाष्टत्यत्रैव । संमार्गविधानमित्यनन्तरमशक्यमित्यनुषजनीयम् । उक्तमर्थं प्रकृते सङ्गमयन्नाह तदिद्देति । इहेत्यस्यैव स्पष्टीकरण- तमेतमित्यादिविधाविति तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति विधावीत्यर्थः । अरुणादिवाक्यवदिति - अरुणयैकहायन्या गवा सोमं क्रीणातीत्यत्र यथा आरुण्याद्येकविशिष्टगोकरणकसोमक्रयविधानं न सम्भवति तथा तमेतमित्यादिविधौ नैकविशिष्टक्रियाविधानमतो नैकविशिष्टक्रियाबोधकत्वमित्यर्थः । एकविशिष्टक्रिया. बोधकत्वाभावे हेतुमुपदर्शयति- असंभवादिति यज्ञेन दानेनेत्यादिना यज्ञ-दानादि क्रियालक्षणाने कविशेषणेषु समानयोगक्षेमेषु सत्सु तन्मध्यादेकमेव किञ्चन विशेषणमुपादाय तद्विशिष्टविविदिषाक्रियाबोधकत्वस्य तमेतमित्यादावसम्भवात् यदेव विशेषणं नोपादीयते तस्यैवोक्तविधावुपादानवैयर्थ्यमनुषज्यत इत्यत एकविशिष्टक्रियाविधानं न सम्भवतीत्याशयः । यदि च कथञ्चिदेकविशिष्टक्रियाबोधकत्वं सम्भाव्येत तदाऽप्याह- अनङ्गीकाराच्चेति-तमेतमित्यादिवचनस्यैकविशिष्टक्रियाबोधकत्वस्यानभ्युपगमाच्चेत्यर्थः । नापि दध्ना जुहोतीत्यादिवदिति - दध्ना जुहोतीत्यत्र होमानुवादेनैकस्य दध्नो गुणस्य यथा विधानं तथा प्रकृतेऽपि कस्याश्चित् क्रियायामेकविशेषणविधानमित्यपि नेत्यर्थः । निषेधे हेतुमाह- उक्त हेतोरेवेति- असंभवादनङ्गीकारादेव चेत्यर्थः । अनेकोद्देशेनैकविधानमपि वाक्यभेदभयान्न संभवति प्रकृते इत्याह- यज्ञ दानादीन्युद्दिश्येति । विविदिषाफल संबन्धविधाने इत्यस्य कथं न वाक्यभेद इत्यनेनान्वयः, कथं न वाक्यभेदः ? स्यादेत्रेत्यर्थः । अनेकोद्देशेनैकविधाने वाक्यभेदप्रसङ्गस्य दृष्टान्तमाह - एकत्वग्रहोद्देशेनेति - एकत्वग्रहो भयोद्देशेन सम्मार्जनस्यैकस्य विधाने यथा वाक्यभेदस्तथेत्यर्थः । प्रकृते एकमुद्दिश्याने कविधानेऽपि वाक्यभेदप्रसङ्ग इत्याह- विविदिषाफलमुद्दिश्येति । यज्ञ-दानादिविधाने वेत्यस्यापि कथं न वाक्यभेद इत्यनेनान्वयः । तत्र दृष्टान्तमाह- ग्रहोद्देशेनेति- ग्रहमुद्दिश्येकत्व - संमार्जनयोर्विधाने यथा वाक्यभेदस्तथेत्यर्थः । एकफलोद्देशेनानेकक्रियाविधानेऽपि प्रकृते न वाक्यभेद इति सदृष्टान्तमाशङ्कते अथेति । समाधत्ते नेति । हि यतः, तत्र दर्श- पौर्णमासाभ्यां यजेतेत्यत्र । न कालविधानं यागोद्देशेन नामावास्यापूर्णिमालक्षणकालविधानम् । तत्र हेतुमाह - उत्पत्तिवाक्यैरेवेति द्रव्यं देवता च यागस्वरूपं तद् यद्वाक्ये प्रतिपाद्यते तदुत्पत्तिवाक्यम्, दर्शपौर्णमासस्थले षट् यज्ञाः, ततस्तेषामुत्पत्तिवाक्यान्यपि षडिति उत्पत्तिवाक्यैरिति बहुवचनम् । प्राप्तत्वात् कालस्य प्राप्तत्वात् । अतः दर्श- पूर्णमासपदेन कालविधानाभावतः । तत्प्रख्येति तत्प्रकाशकान्यशास्त्रतस्तस्य प्राप्तौ तत्प्रतिपादकतया - वभासमानशब्दो न तद्विधायकः किन्तु नामधेय इति तत्प्रख्यन्यायानुगमनिका । तत्प्रख्यन्यायेत्यत्र तत्प्रख्यं किमित्यपेक्षायामाह - तत्प्रख्यं चान्यशास्त्रमिति । तत्प्रख्यन्यायसिद्धं नामधेयमिति दृष्टान्तोद्घाटनेन स्पयष्टति - यथेति । नाग्निदेवताविधिः होमोद्देशेन नाग्निस्वरूपदेवताया विधानम्, तर्हि अग्निहोत्रमिति पदं किमर्थमिति पृच्छति - किन्त्विति । उत्तरयति नामधेयमिति- होमविशेषस्य नामधेयं संज्ञा अग्निहोत्रमिति पदम् । तथा एवम् । अत्र दर्श- पूर्णमासाभ्यां
४२
३२९