________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
द्रष्टव्यम् । तथा च दर्शपौर्णमासनामधेयसमानाधिकरणैकयजतिपदाभिहितानां षण्णामपि यागानां फलोद्देशेन विधाने न वाक्यभेदः, यथा-" ब्रीहिभिर्यजेत" [
] इत्यत्रैकपदानां ब्रीहीणां यागोद्देशेन विधौ, अत्र हि प्राप्तेऽपि कर्मणि ब्रीहितहहुत्वविशिष्टैककारकं विधीयते, " चित्रया यजेत ” [ तै. सं. २. ] इत्यत्र संभवत्यपि चित्रत्वस्त्रीत्वविशिष्टैककारकविधाने गौरवान्नामधेयाश्रयणम् , तदेवं ब्रीहिवाक्यतुल्यत्वाद् दर्श-पौर्णमासीभ्यामित्यादावेकपदोपात्तत्वान्न वाक्यभेदः, विविदिषन्तीत्यत्र तु भिन्नपदोपात्तानां यज्ञादीनां भिन्नकारकवतां च न ब्रीहिवाक्यतुल्यता, " ये मध्यमास्तानग्नये दात्रे" [ ] इत्यादौ तु सत्यपि भेदे सामानाधिकरण्येन प्रतिपादितं विशिष्टदेवताकारकमेकमेवेति न वाक्यभेदः, " यज्ञेन दानेन " [ पत्र- ] इति तु न सामानाधिकरण्यमस्ति । तस्मादेकविधाने अन्याविधानादेकस्यात्मपदस्य श्रोतव्यादिवाक्येष्वनुस्वर्गकामो यजेतेत्यत्र, तत्तत्कालविहितानां षण्णां यज्ञविशेषाणां दर्श-पूर्णमासपदं नामधेयमिति ज्ञातव्यमित्यर्थः । तथा च षण्णामपि यज्ञा मां दर्श-पूर्णमासैकपदाभिधेयत्वे व्यवस्थिते च । तत्र दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र । दर्शतिदर्शपौर्णमासनामधेयसमानाधिकरणं यदेकं यजतिपदं तेनाभिहितानामित्यर्थः, भिन्नपदाभिहितानां भिन्नत्वे सति बहूनामेकफलोद्देशेन विधाने वाक्यभेदो भवेत् , बहूनामपि चैकपदोपात्तत्वेनैकत्वे एकीभूतस्य बहोरप्येकफलोद्देशेन विधाने न वाक्यभेद इत्याशयः। एकपदोपात्तानां बहूनामेकोद्देशेन विधाने वाक्यभेदाभावे दृष्टान्तमाह- यथेति । एकपदोपात्तानां व्रीहिस्वरूपैकपदाभिहितानाम् । विधावित्यनन्तरं न वाक्यभेद इत्यनुषज्यते । अत्र व्रीहिभिर्यजेतेत्यत्र। हि यतः । प्राप्तऽपि कर्मणि वचनान्तरविहितेऽपि यागलक्षणकर्मणि । तदहत्वेति-व्रीहिनिष्ठबहुत्वेत्यर्थः । नन्वेवं चित्रया यजेतेत्यत्रापि चित्रत्वस्त्रीत्वविशिष्टैककारकविधानं संभवतीति तदेव किमिति नाङ्गीक्रियते, किमर्थं चित्रापदस्य यागविशेषनामधेयत्वमुररीक्रियत इत्यत आह-चित्रया यजेतेत्यत्रेति । एवं च दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्रैकयजतिपदोपात्तानां षण्णामपि यज्ञानामेकस्वर्गफलोद्देशेन विधाने न वाक्यभेदः, प्रकृते तु यज्ञदानादीनां भिन्न पदोपात्तानां विभिन्नतृतीयाविभक्तिबोध्यकरणत्वलक्षणभिन्नकारकवतां विविदिषालक्षणैकफलोद्देशेन विधानेऽपि वाक्यभेदः स्यादेवेत्युपसंहरति- तदेवमिति । व्रीहिवाक्यतुल्यत्वादिति- ब्रोहिभिर्यजेतेति वाक्ये यथा व्रीहिस्वरूपैकपदोपात्तत्वं बहूनां व्रीहीणां तथा दर्शपूर्णमासाभ्यां यजेतत्यत्राप्येकय जतिपदोपात्तत्वं षण्णामपि यागानामित्येवं ब्रीहिवाक्यतुल्यत्वादित्यर्थः । प्रकृते तु नैवमित्युपदर्शयति- विविदिषन्तीत्यत्र त्विति । यज्ञादीनामित्यत्रादिपदाद् दानादीनामुपग्रहः । क्वचित् क्रियादिस्वरूपभेदेऽपि देवताकारकैक्यादेकत्वमिति न वाक्यभेद इत्युपदर्शयति- ये मध्यमा इति - त्रिः प्रथमां त्रिरुत्तमां त्रिमध्यमामन्वाहेत्येवं क्रियान्तरे प्रथमादीनामृचां त्रिरावृत्त्या विधानात् तत्र दातृनामकाग्निदेवतायै मध्यमानाम्नामनेकेषामृचां विधानेऽपि अग्नये दात्रे इति सामानाधिकरण्येन प्रतिपादितं दातृत्वविशिष्टाग्निदेवतालक्षणसंप्रदानकारकमेकमेवेति ये मध्यमा इत्यत्र न वाक्यभेद इत्यर्थः। विभिन्न प्रवृत्तिनिमित्तकपदानामभेदेनैकार्यान्वितस्वार्थप्रतिपादकत्वं सामानाधिकरण्यम् , तच्चाग्नये दात्रे इत्यत्र समस्ति, यज्ञन दाननत्यत्र तु न यज्ञपदार्थस्य यागस्य दानपदार्थे दानेऽभेदेनान्वय इति न सामानाधिकरण्यमतो न विशिष्टकारकमेकमिति वाक्यभेदः स्यादेवेत्याह- यज्ञेन दानेन इति त्विति । प्रकृते वाक्यभेदः स्यादेवेति सङ्गमयतितस्मादिति । यत्रैकवाक्ये एकविधानेऽप्यन्यविधानं यत्र दृश्यते तत्र च भवति वाक्यभेदः, यथा- “श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्यः" [बृहदारण्यके २. ४. ५.] इत्यत्र श्रवणविधानेऽपि मननादिविधान इत्याह-एकस्येति । "नुसङ्ग" इत्यस्य स्थाने "नुषङ्ग" इति पाठो युक्तः, श्रोतव्य इत्येतावन्मात्रश्रवणे उद्देश्यवाचकपदाभावात् कमुद्दिश्य श्रवणविधानम् , एवं मन्तव्य इत्यादावपि, आत्मपदस्यानुषणे तु आत्मा श्रोतव्यः, आत्मा मन्तव्यः, आत्मा निदिध्यासितव्यः, आत्मा साक्षात्कर्तव्य इत्येवं प्रत्येकमात्मपदानुषणाद् यथा वाक्यभेदस्तथा प्रकृतेऽपि यज्ञेन विविदिषन्ति दानेन विविदिवन्ति तपसा विविदिषन्तीत्येवं प्रत्येक विविदिषन्तीति पदस्यानुषङ्गाद् विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्यर्थः । यत् तु पूर्वमुक्तम्-“अत्र त्वेकवाक्योपात्तत्वाद् दर्शादिवत् समुच्चयः" इति, तत्र पृच्छति-कथं तर्हि समुच्चय इति । उत्तरयतिउच्यत इति । " अरुणया क्रीणाति वा समाक्रीणाति" इत्यस्य स्थाने "अरुणया सोमं क्रीणाति गवा सोमं क्रीणाति"