________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः । सङ्गवदेकस्य विविदिषन्तिपदस्य यज्ञेनेत्यादौ प्रत्येकमनुषङ्गादिह वाक्यभेदो विध्यावृत्तिलक्षणः । कथं तर्हि समुच्चयः ? उच्यते- " अरुणया क्रीणाति वा समाक्रीणाति" [ ] इत्यादिभिन्नवाक्यविहितानामपि सोमप्राप्त्यर्थानां क्रियाणामिव संभवत्समुच्चये यज्ञादीनां परिकल्पितान्तःकरणशुद्धिद्वाराणां भविष्यति, " अरुणया" इत्यादयो हि नियमविधयः, तत्र चार्थिकीतरनिवृत्तिरिति · अरुणाक्रयेणैव सोमं भावयेद् ' इत्यादिरर्थः फलितः, स च नित्यवत् समुच्चये नोपपद्यत इति संभवत्समुचयोऽयम् , न चैवं दध्यादिषु कथं नायमित्याशङ्कनीयम् , तत्र होमनिष्पत्तरस्यै केनैव सिद्धेः, "अरुणया" इत्यादौ तु क्रयविधेदृष्टार्थत्वादेकेनैव क्रयेणानतिसिद्धौ नियमविधित्ववत् , अन्यथा तु प्रत्येकावगतं नियम कार्यानुरोधेन त्यक्त्वा वाक्यान्तरविहितक्रयसापेक्षत्वं पूर्वक्रयस्य कल्प्यत इति युक्तः संभवत्समुच्चयः, त[ द्व ]दिहापि यज्ञादीनामसौ युक्तः, अत एव यज्ञानधिकारिणां ब्रह्मचारिणां वेदानुवचनेन केवलेनाइति पाठः समीचीनः, "क्रियाणामिव संभवत्समुच्चये" इत्यस्य स्थाने "क्रयाणामिव संभवत्समुच्चयो" इति पाठो युक्तः, संभवत्समुच्चय इत्यस्य भविष्यतीत्यनेनान्वयः। नियमविधयः अरुणयैव सोमं क्रोणाति, गवैव सोमं क्रीणातीत्येवंरूपा नियमविधयः । तत्र च नियमविधौ च । आर्थिकी अर्थात् प्राप्ता । इतरनिवृत्तिः अरुणेतरेण सोमकयो न कर्तव्यः, गोभिन्नेन सोमक्रयो न कर्तव्य इत्येवंरूपा । नियमविधौ कीदृशोऽर्थो भवतीत्यपेक्षायामाह- अरुणाकयेणैवेति । कथमत्र नित्यवत् समुच्चयो न येन संभवत्समुच्चय इत्युच्यत इत्यपेक्षायामाह- स चेति- अरुणाकयेणैव सोमं भावयेदित्यादिरर्थवेत्यर्थः, अस्य नोपपद्यते इत्यनेनान्वयः, अन्या अरुणा अन्या च गौरिति नास्ति किन्तु यैव गौः सैवारुणा येवारुणा सैव गौरिति अरुणया क्रयणमेव गवा क्रयणं गवा क्रयणमेव चारुणया क्रयणमिति वस्तुगत्या समुच्चयो नास्तीति न नित्यवत् समुच्चय इत्युक्तोऽर्थों नित्यवत् समुच्चयेऽङ्गीक्रियमाणे नोपपद्यत इत्ययं समुच्चयः सम्भवत्समुच्चयः, संभाव्यते चैवं समुच्चय इति, विविदिषन्तीत्यत्र तु यद्यपि याग-दानादीनां भिन्नानां वस्तुतः समुच्चयोऽस्ति किन्तु पुरुषविशेषस्य कस्यचिद् यज्ञ-दानादिक्रियासमुच्चये सति विविदिषा भवति, कस्यचिद् यज्ञेनैव कस्यचिद् दानेनैव कस्यचित् तपसैवान्तःकरणशुद्धिद्वारा विविदिषा भवतीति न यज्ञादीनां समुच्चयो नित्यवत् किन्तु संभवत्समुच्चयः, यथा नीलं सरोजं भवत्येवेत्यत्र न सरोजत्वावच्छेदेन नीलं समस्ति श्वेतस्यापि सरोजस्य भावात् , किन्तु किञ्चित् सरोज नीलमपि भवतीति सरोजं संभवन्नीलम् , एवं विविदिषामात्रस्य न यज्ञादिसमुच्चयादेव भावः, कस्याश्चिद् विविदिषाया एकेनापि यागेनान्तःकरणशुद्धिद्वारा भावात् , किन्तु काचिद् विविदिषा यागादिसमुच्चयादेव भवतीति संभवत्समुच्चयोऽयमित्यर्थः । ननु दना जुहोति पयसा जुहोतीयादावपि एकहोमोद्देशेन दधि-पयआदिसमुच्चयस्य विधानमस्तु, ततस्तत्रापि संभवत्समुच्चयः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति। एवं यथाऽरुणयेत्यादौ संभवत्समुच्चयस्तथा । कथं नायं कथं न संभवत्समुच्चयः। निषेधे हेतुमाह- तत्रेति- दना जुहोतीत्यादावित्यर्थः । दधि-दुग्धादिद्रव्यस्वरूपस्य होमनिष्पत्तिद्वारा फलजनकत्वम्, होमनिष्पत्तिश्चैकेनापि दना पयसा वा संभवतीति न तत्र समुच्चयोऽवकल्प्यत इत्याह- होमनिष्पत्तेरिति । अरुणया गवा सोमं क्रीणातीत्यादौ तु नैवमित्याह- अरुणया इत्यादी स्विति । दृष्टार्थत्वात् सोमलताप्राप्तिरूपदृष्टार्थत्वात् । एकेनैव क्रयेण अरुणया क्रयेग गवा क्रयेण वा “क्रयेणानतिसिद्धौ" इत्यस्य स्थाने “क्रयेण तत्सिद्धौ” इति पाठो युक्तः, तत्सिद्धौ सोमलताप्राप्तिरूपदृष्टार्थसिद्धौ। नियमविधित्वम् अरुणयेत्यादेनियमविधित्वम् , अरुणयैव गवैव क्रयेणैव सोमं भावयेदित्येवं नियमार्थकविधित्वम् । अन्यथा त नियमविधित्वाभाव तु । प्रत्येकावगतं नियमं अरुणया सोमं क्रीणाति गवा सोमं क्रीणातीत्येवं प्रत्येकवाक्यावगतम्, अरुणयैव गवैवेत्येवं नियमं त्यक्त्वा कार्यानुरोधेन आरुण्यगोसमुच्चयेनैव क्रयेण सोमलताप्राप्तिरूपं कार्यमिति तदनुरोधेन, वाक्यान्तरेति-गवा क्रीणातीति वाक्यान्तरविहितो यः क्रयस्तत्सापेक्षत्वं पूर्वक्रयस्य अरुणया क्रीणातीति पूर्ववाक्यविहितकयस्य कल्प्यत इत्येतस्मात् कारणात् संभवत्समुच्चयोझणयेत्यादौ युक्त इत्यर्थः। तद्वत अरुणया क्रीणातीत्यादौ यथा संभवत्समुच्चयस्तथा। इहापि तमेतमित्यादावपि । असौ संभवत्समुच्चयः । अत एव तमेतमित्यादौ न नियमवत्समुच्चयः, किन्तु संभवत्समुच्चय इत्यभ्युपगमादेव । यज्ञानधिकारिणां सपत्नीकस्य गृहस्थस्यैव यज्ञादावधिकारो न पत्नीविकलस्य