________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कृतो नयोपदेशः। शासनस्य स्वसमयान्तर्भावेन दृढप्रामाण्यमाविश्चक्रुः, सङ्केपमभिप्रेत्याह-उको विस्तरः कियान् वाच्या, यतो वाचस्तुल्यसङ्ख्या नया अभिहिताः ॥ १२१ ॥
स्याद्वादनिरपेक्षैश्च, तैस्तावन्तः परागमाः।
ज्ञेयोपयुज्य तदियं, दर्शने नययोजना ॥ १२२ ॥ नयामृत-स्याद्वादेति । तैः-नयैः, स्याद्वादनिरपेक्षैः- स्याद्वादैकवाक्यतारहितः, तावन्त:वचस्तुल्यसमा एव, परागमा:- परसिद्धान्ता भवन्ति, अभिनिवेशान्वितनयत्वस्यैव परसमयलक्षणत्वात् , तदिदमुक्कं सम्मती
" जावइया वयणपहा, तावइया चेव हुन्ति नयवाया।
जावइया नयवाया, तावइया चेव परसमया ॥" [ तु. कागा० ४ ] ___एतावत्सु नयेष्विच्छाकल्पितसंयोगजभेदोऽपि समवायान्तरापेक्षकः सुलभ एव, इयं दर्शने नययोजनोपयुज्य ज्ञेया, न त्वापपात एव, आपातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वात् , अत एव वस्तुस्थितिविचारे
" जे पजवेसु णिहिट्ठा, जीवा परसमयगतिविणिहिट्ठा । __ आयसहामि ठिया, ते सगसमया मुणेनवा ॥" [
इति दैगम्बरं वचनं [चक्रुः ] सम्यक् स्वसमयानिष्णाततामभिव्यञ्जयति, द्रव्यास्तिकाभिप्रायः स्वसमय: आविश्वका प्रकटीचक्रुः । उत्तरार्द्धमवतार्य विवृणोति-संक्षेपमभिप्रेत्याहेति । कियान वाच्य इत्यनेन विशेषतो नयविस्तरो वक्तमशक्य इति सूचितम् । कथं विशेषतो नयविस्तरो वक्तमशक्य इत्यपेक्षायामाह-यत इति ॥ ११ ॥
दर्शनगतनययोजनोपसंहारपरं द्वाविंशत्युत्तरशततमपद्यं विवृणोति- स्याद्वादेतीति । तैरियस्य विवरण- नयैरिति । स्याद्वादनिरपेक्षरित्यस्य विवरण- स्याद्वादैकवाक्यतारहितैरिति । तावन्तः इत्यस्य विवरणं-वचस्तुल्यसङ्ख्या एवेति । परागमा इत्यस्य विवरण-परसिद्धान्ता इति । भवन्तीति क्रियापदमध्याहृतम् । वचस्तुल्यसङ्खयाकानां नयानां परसमयत्वे हेतुमाह- अभिनिवेशेति- स्वमतकदाग्रहत्यर्थः । यावन्तो वचनमार्गास्तावन्तो नयाः परसमया इत्यत्र सम्मतिवचनसंवादमाह- तदिदमुक्कं सम्मताविति । जावइया० इति- “यावन्तो वचनमार्गास्तावन्तश्चैव भवन्ति नयवादाः। यावन्तो नयवादास्तावन्तश्चैव परसमयाः ॥” इति संस्कृतम्, एतावत्सु वचस्तुल्यसंख्यकेषु। इच्छाकल्पितेति- एतन्नयस्यानेन नयेन संयोगो भवत्वित्यादीच्छाकल्पितेत्यर्थः । इच्छाकल्पितसंयोगजभेदोऽपीत्यस्थ सुलभ एवेत्यनेनान्वयः । “समवायान्तरापेक्षकः" इत्यस्य स्थाने “ समयान्तराक्षेपकः" इति पाठो युक्तः। निगमनार्थकं तदिति मूलं तस्मादित्यर्थकं स्पष्टत्वान्न व्याख्यानाय परिगृहीतमिति बोध्यम् । उत्तरार्दै पदानामन्वयत एवार्थः स्फुटमाभातीत्यन्वयमात्रमावेदयति- इयमिति । उपयुज्य अपेक्षाभेदं सन्निवेश्य । उपयुज्येत्यस्य व्यवच्छेद्यमाह-न त्वापातत पवेति । कथं नापाततो ज्ञेयेत्यपेक्षायामाह- आपातक्षानस्येति- आपातज्ञानतः स्वसमये परसमयत्वबुद्धिः परसमयेऽपि स्वसमयत्वबुद्धिः स्यादित्येवमापातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वादित्यर्थः । अत एवेत्यस्य 'अभिव्यजयति' इत्यनेनान्वयः । वस्तुस्थितिविचारेव स्तुस्थितिविचारास्ये प्रन्थे। जे पजवेस० इति- "ये पर्यवेषु निर्दिष्टा जीवा परसमयगतिविनिर्दिष्टाः । आत्मस्वभावे स्थिताः ते स्वसमया ज्ञातव्याः॥" इति संस्कृतम् । दैगम्बरं दिगम्बरस्येदं दैगम्बरमिति दिगम्बरोक्तत्वाद् दिगम्बरसम्बन्धि । वचनमित्यस्य 'अभिव्यजयति' इत्यनेनान्वयः। “[चक्रुः] सम्यक" इत्यस्य "वक्तुः सम्यक” इति पाठः समीचीनः। वक्तु: स्ववतुर्दिगम्बरस्य ।