________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः ।
%3
सम्मतिवृत्तौ नामनिक्षेपावसरे भाषितं तत् शब्दा-ऽर्थयोनित्यसम्बन्धमात्रवादापेक्षया, " औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः " [जैमिनिसूत्र- '] इति तत्सूत्रे औत्पत्तिक इत्यस्य विपरीतलक्षणया नित्य इति व्याख्यानात्, पूर्वपूर्वसङ्केतापेक्षायामनवस्थानान्नित्यपदसम्बन्धाभ्युपगम एव, प्रवृत्तिमूलव्यहारायन्तशुद्धशास्त्रैदम्पर्यपालोचनायां तु तस्य नयसंयोगत्वमेव युक्तम् , अन्यथा शब्दानुशासनेऽपि स्फोट. विचारे शब्दतन्मात्रसङ्ग्रहप्राधान्येन नयसंयोगजत्वं न स्यात्, नयसंयोगजत्वे शब्दादीनां कथं न स्वसमयतुल्यत्वमिति चेत् ? मूढनयानां तेषां यथावद्विभागाकरणात् , अत एव यथावनयविभागचिकीर्षया " सिद्धिः स्याद्वादात्" [सिद्धहेम० १. १. २.] इति सूत्रमुपन्यस्य श्रीहेमसूरयः स्वोपज्ञशब्दानुः
वसरे नाम-- स्थापना-द्रव्य-भावनिक्षेपभेदेन निक्षेपाश्चत्वारस्तत्र नामनिक्षेपनिरूपणावमरे । भाषितम् उक्तम् । तत् मीमांसकमतस्याशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकत्वकथनम्। शब्दा-ऽर्थयोर्नित्यसम्बन्धो मीमांसकसम्मत इत्यत्र जमिनिसूत्रव्याख्यानं प्रमाणयति- औत्पत्तिकस्त्विति-इतिशब्दः स्वरूपपरः । तत्सूत्रे मीमांसादर्शनप्रवर्तकजैमिनिमुनिप्रणीतसूत्रे । उत्पत्तिकृत औत्पत्तिक इति व्युत्पत्त्यौत्पत्तिकशब्दार्थ उत्पत्तिमान् अनित्य इति । यावत्, तथा च शब्दस्यार्थेनानित्यः सम्बन्ध इति स्यादत आह- औत्पत्तिक इत्यस्येति-औत्सत्तिक इत्येवंस्वरूपशब्दस्येत्यर्थः। विपरीतलक्षणया औत्पत्तिकविपरीते अनौत्पत्तिके लक्षणया। नन्वीश्वरानङ्गीकर्तृमीमांसकमते नित्यसङ्केतस्याभावेऽप्यनित्याधुनिकपुरुषसङ्केत एव शब्दा-ऽर्थयोः सम्बन्धोऽस्तु, तथा च न शब्दस्यार्थेन सह नित्यसम्बन्धसिद्धिरित्यत आह-पूर्वपूर्वेति- आधुनिकसंकेतस्य शब्दार्थसम्बन्धत्वे कस्यचित् पुंसो घटपदात् पटो बोद्धव्य इति सङ्केतस्यापि सम्भवेन घटपदस्य पटोऽपि शक्यार्थः स्यात् , तत्परिहाराय पूर्वपूर्वपुरुषसङ्केतापेक्ष एव सङ्केतः शब्दा-ऽर्थयोः सम्बन्ध इति वाच्यम् , तथा च पटे घटपदस्य सङ्केतो न पूर्वपूर्वसङ्केतापेक्ष इति न स सम्बन्धः, किन्तु घटे घटपदसङ्केतः पूर्वपूर्वपुरुषैरपि कृतस्तदपक्षो घटपदस्य घटे सङ्केतो घटपद-घटरूपार्थयोः सम्बन्ध इत्यनवस्था प्रसज्यत इति नित्यशक्तिलक्षणसम्बन्ध एव शब्दा-ऽर्थयोरुपेय इत्यर्थः । प्रवृत्तीति- लोके स्वर्गाद्यर्थ यागादौ या प्रवृत्तिस्तन्मूलव्यवहारादिपर्यन्तस्य शुद्धस्य जैमिनिशास्त्रेदम्पर्यस्य पर्यालोचनायांविचारणायां पुनर्मीमांसकमतस्य नयसंयोगजत्वमेव युक्तमित्यर्थः। अन्यथा उक्तपर्यालोचनायामपि मीमांसकमतस्य नयसंयोगजत्वानङ्गीकारे । शब्दानुशासनेऽपि अनुशिष्यन्ते प्रकृति-प्रत्ययादिविभागेन प्रतिपाद्यन्ते साधुशब्दा अनेनेति अनुशासनम् , शब्दानामनुशासनं शब्दानुशासनमिति व्युत्पत्त्या व्याकरणशास्त्रेऽपि, अस्य नयसंयोगजत्वमित्यनेनान्वयः। स्फोटविचार इति- स्फुटीभवत्यर्थोऽनेनेति स्फोटः, स च वर्णस्फोटः पदस्फोटो वाक्यस्फोट इति विधेति वचना त्रिविधो नित्यः शब्दस्वरूपस्तस्य विचारे । कथं शब्दानुशासने नयसंयोगजत्वानुपप्रत्तिरित्याकालानिवृत्त्यर्थमेव स्फोट. विचारे शब्दतन्मात्रसङ्ग्रहप्राधान्येनेत्युकम् , अस्ति च तत्र शब्दतन्मात्रसङ्ग्रहस्यैव प्राधान्यं स्फोटात्मकशब्दस्वरूपस्य परब्रह्मण उपगमाच्छन्दब्रह्मण एवार्थरूपेण विवर्तनादर्थमात्रस्य शब्दात्मकंब्रह्मस्वरूपत्वमित्येवं शब्दतन्मात्रसङप्रहप्राधान्यम् । अत्र शङ्कते- नयसंयोगत्वे इति । शब्दादीनामित्यत्र शब्दपदं शब्दानुशासनपरम् , आदिपदादलङ्कारादिशास्त्राणामुपग्रहः । स्वसमयेति - जैनाभिमतस्याद्वादराद्धान्तेत्यर्थः, यथा स्याद्वादराद्धान्ते नयसंयोगजत्वं तथा शब्दानु. शासनालङ्कारादिशास्त्राणामपीति स्याद्वादराद्धान्तस्य जैनसमयत्ववच्छन्दानुशासनादिशास्त्राणामपि जैनसमयत्वमापद्यतेत्यर्थः । समाधत्ते-मूढनयानामिति- अन्योऽन्यनिरपेक्षसामान्य-विशेषाद्यर्थप्राहकत्वान्मिथ्यानयानामित्यर्थः । तेषां शब्द-उलङ्कारादिशास्त्रणाम्। यथावद् विभागाकरणादिति- एतदपेक्षयेदमभिहितमेतदपेक्षया त्विदमुक्तमित्येवमपेक्षाभेदेन यनयविषयविभजन तस्याकरणान्न शब्दा-ऽलङ्कारादीनां नयसंयोगजत्वेऽपि स्वसमयतुल्यत्वमित्यर्थः । अत एव इत्यस्य 'आविश्चक्रुः' इत्यनेनान्वयः, श्रीहेमसूरय इत्यस्याप्याविश्चक्रुरित्यनेनान्वयः । स्वोपक्षेति- स्वनिर्मितेत्यर्थः, स्वपदेनात्र श्रीहेमसूरीणां प्रहणम् , स्वोपशशब्दानुशासनस्येत्यस्य दृढप्रामाण्यमित्यनेन सम्बन्धः । स्वसमयान्तर्भावेन जैनराद्धान्तान्त. विन, जैनराद्धान्तस्य निश्चितप्रामाण्यकत्वेन तदन्तर्भूतस्य श्रीहेमचन्द्ररिनिर्मितशब्दानुशासनस्यापि सुदृढं प्रामाण्यमिति ।