________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
पक्षपातित्वं नित्याऽनित्यशब्दवाच्य पुद्गलाभ्युपगमात्, ज्ञाना·ऽर्थ लक्षणयौगपद्यरूपव्यञ्जनपर्याय प्रधानत्वायोगाचार माध्यमिकयोश्च शुद्ध शुद्धतरत्वेन समभिरूढैवम्भूतपक्ष वर्तित्वमिति ॥ १२० ॥ नयसंयोगजः शब्दाऽलङ्कारादेश्च विस्तरः |
चावगन्तव्यम्,
कियान् वाच्यो वचस्तुल्यसङ्ख्या ह्यभिहिता नयाः ॥ १२१ ॥
नयामृत० - नयेति । शब्दाऽलङ्कारादेः - व्याकरण - साहित्यादिशास्त्रस्य च विस्तरः, नय संयोगज:- नानानयमयः, आदित एव तत्प्रवृत्तौ नानानयविवक्षायां उपजीवनात्, अन्यथा सार्वपार्षदत्वानुपपत्तेः, अत एव मीमांसका अपि द्रव्य-पर्याययोः सार्वजनीनभेदा-भेदाद्युपपत्तये व्यवहारनय. मानन्त्य - व्यभिचाराभ्यां बिभ्यन्तौ व्यक्तिशक्तिमपहाय जातौ शक्तिव्युत्पत्तये सङ्ग्रहनयं चाद्रियमाणाः स्वमतप्रवृत्तौ नयसंयोगमेवादावपेक्षन्ते यत् तु मीमांसक मतस्याशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकत्वं शब्दनयादिपक्षपातित्वं कुतोऽवगम्यत इत्यपेक्षायामाह - अत्रेति चतुर्णां बौद्धानां मत इत्यर्थः । यद्यपि बाह्यपदार्थाभ्युपगन्तृत्वादर्थनयपक्षपातित्वमेव युकं तथापि पुद्गलात्मकस्य नित्यानित्यशब्दवाच्यतयाऽभ्युपगमाच्छन्दनय पक्षपातित्वम्, वैभाषिकोऽपि क्षणिकमेव वस्तु स्वीकरोति न नित्यमिति शब्दोऽपि न नित्यः, किन्तु नित्यमित्येवस्वरूपोऽनित्यमित्येवं स्वरूपो यः शब्दस्तद्वाच्यस्य पुद्गलस्याभ्युपगमात् न तु शब्द वाच्यं पुद्गलमभ्युपगच्छतीत्यर्थादवगम्यते, शब्दनयो हि व्यञ्जनपर्यायं प्राधान्येनाभ्युपगच्छति, वैभाषिकोऽपि तथेत्यतोऽपि शब्दनयपक्षपातित्वमस्येत्याह - ज्ञानेति - ज्ञानार्थयोर्लक्षण साधारणं यद् यौगपद्यं तद्रूपो यो व्यञ्जनपर्यायस्तत्प्रधानत्वाच्च प्राधान्येन तदभ्युपगन्तृत्वाच्च वैभाषिकस्य शब्दनयपक्षपातित्वमवगन्तव्यं ज्ञातव्यमित्यर्थः । समभिरूढनयः शुद्धः, योगाचारमतमपि बाह्यार्थावगाहित्वलक्षणाशुद्धिविगमाच्छुद्धमिति शुद्धत्वेन योगाचारस्य समभिरूढनयपक्षपातित्वम् एवम्भूतनयः शुद्धतरः, ज्ञानस्य साकारताऽप्यशुद्धिस्तदाभावादतिशुद्धं निराकारं निर्विषयकं च ज्ञानं तदभ्युपगमगन्तृत्वान्माध्यमिकमतमपि शुद्धतरमतः शुद्धतरत्वेन माध्यमिकस्यैवम्भूतनयपक्षपातित्वमित्याह -- योगाचारेति ॥ १२० ॥
शब्दा-ऽलङ्कारादीनां नयसंयोगजन्यत्वमित्यस्य यावन्तो वचनप्रकारास्तावन्तो नया इत्यस्य चोपदर्शकमेकविंशत्युत्तरशततमपद्यं विवृणोति-नयेतीति । " नानानयविवक्षायां " इत्यस्य स्थाने " नानानयविवक्षाया " इति पाठो युक्तः । अन्यथा शब्दाऽलङ्कारादेः प्रथमतः प्रवृत्तौ नानानयविवक्षाया उपजीवनाभावे, नानानयविवक्षामनुपजीव्यापि प्रथमतः शब्दा-ऽलङ्कारादिप्रवृत्यभ्युपगमे इति यावत् । सार्वपादत्वानुपपत्तेः सर्वपरिषद्व्यवस्थितजन सम्बन्धित्वानुपपत्तेः, यद्येकनयजत्वमेव शब्दाऽलङ्कारादीनां स्यात् तदननुसरणकारिणामानन्दकारित्वं शब्दालङ्कारादीनां न भवेदतस्तेषां नयसंयोजत्वमेवेत्याशयः । अत एव शब्दाऽलङ्कारादीनां नयसंयोगजत्वादेव । मीमांसका अपीत्यस्य 'आद्रियमाणाः' इत्यनेन ' अपेक्षन्ते ' इत्यनेन चान्वयः, द्रव्यपर्याययोः, सार्वेति- सार्वजनीनः- सर्वजन प्रसिद्धो यो भेदाभेदादिस्तदुपपत्तयेतत्सिद्धयर्थम्, व्यवहारनयमित्यस्य 'आद्रियमाणाः' इत्यनेनान्वयः । “बिभ्यन्तौ ” इत्यस्य स्थाने "बिभ्यत" इति पाठो युक्तः, शब्दस्य व्यक्तौ शक्तेरुपगमे व्यक्तीनामानन्त्याच्छक्केर प्यानन्त्यं प्रसज्यते, यत्किञ्चिद्व्यक्तौ शब्दस्य शक्त्यभ्युपगमे यत्रैव व्यक्तौ पदस्य शक्तिस्तस्या एव व्यक्तेः पदादुपस्थितिर्न त्वन्यासां व्यक्तीनाम्, शाब्दबोधश्च व्यक्त्यन्तराणामपीत्युपस्थितिशाब्दबुद्धयोः समानविषयत्वप्रत्यासत्त्या कार्यकारणभावो न स्यादनुपस्थितव्यक्तौ शाब्दबोधस्य भावेन व्यतिरेकव्यं भिचारादित्येवमानन्त्य-व्यभिचाराभ्यां बिभ्यतीं व्यक्तिशक्ति परित्यज्येत्यर्थः । जाती घटत्व- पटत्वादिसामान्ये । शक्तिव्युत्पत्तये घटपटादिशब्दशक्तिप्रहलक्षणशक्तिव्युत्पत्यर्थम् । सङ्ग्रहनयं सामान्यरूपेण व्यक्तीनां सङ्ग्रहणादनुगमनात् सामान्यप्राहिसङ्ग्रहम् । चः समुच्चये । आद्रियमाणा अपेक्षमाणाः । स्वमतप्रवृत्तौ भेदाभेदसामान्याभ्युपगमप्रवणमीमांसाराद्धान्त प्रवृत्यर्थम् । नयसंयोगमेव व्यवहार-सङ्ग्रहद्वय मंयोजनमेव । आदौ प्रथमम् । नत्वेवं मीमांसामतस्य व्यवहार-सङ्ग्रहनयद्वय प्रकृतिकत्वे सम्मतिग्रन्थविरोधः, तत्र तस्याशुद्धद्रव्यार्थिं कनय प्रकृतिकत्वस्यैवाभिधानादित्यत आह- यत् त्विति । नामनिक्षेपा
३५९