SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ३६२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । पर्यायास्तिकाभिप्रायः परसमय इत्यस्य स्याद्वादनिरपेक्षत्वात् , नयवाक्यमेवैतदिति चेत् ? तर्हि प्रवचनक्रियाव्युत्पादन (नेक इवास्योपयोगःस्थल-सक्ष्मनयार्थानां क्रमव्यत्पादनस्यैव शास्त्रार्थत्वादिति मुग्धबन्धनमात्रमेतत् । यदपि प्रावचनिकानां जिनभद्र-सिद्धसेनप्रभृतीनां स्वस्वतात्पर्यविरुद्धविषये सूत्रे परतीर्थिकवस्तुवक्तव्यताप्रतिबन्धप्रतिपादनम् , तदप्यभिनिवेशनं चेत् ? तदा प्रावचनिकत्वक्षतिरिति, तत्र परतीर्थिकपदं भिन्नपरम्परायाततात्पर्यानुसारिपदम्, अत एव नयाभिप्रायेण प्रवृत्तत्वादिति हेत्वभिधानोपपत्तिः, अत एव च नयाभिप्रायेणोभयसमाधानमस्माभि नबिन्दौ विहितम् , इत्येवमन्यत्रापि दर्शनप्रयोजनायामुपयोगो विधेयः समयनिष्णातैः ॥ १२२ ॥ सम्यक समीचीनतया । स्वसमयानिष्णाततां जैनराद्धान्तानिपुणताम् । अभिव्यञ्जयति प्रकटयति । अत्र हेतुमाहद्रव्यास्तिकाभिप्राय इति- उक्तवचनेनेदमेव ज्ञायते, यदुत- द्रव्यास्तिकाभिप्रायः स्वसमयः पर्यायास्तिकाभिप्रायः परसमय इति, परमस्य स्याद्वादनिरपेक्षत्वादित्यर्थः । शङ्कते- नयवाक्यमिति। एतत् जे पजवेस्वित्यादि दिगम्बरवचनम् , तथा च तत्प्रतिपाद्ये स्याद्वादनिरपेक्षत्वं न वक्तृगतस्वसमयाज्ञानविजृम्भितमिति भावः । समाधत्ते तहीति- यदि नयवाक्यमेवैतत् तदा स्थूल-सूक्ष्मनयार्थक्रमव्युत्पादनमेवात्रोचितं न तु प्रवचने प्रक्रियाव्युत्पादनमतो मुग्धानां- मूढानामेतद् वचनं बन्धनमात्रमिति मुकुलितोऽर्थः । यदपीति प्रतिपादनमित्यनेनान्वयि । प्रावचनिकानां सैद्धान्तिकानाम् । स्वस्वेति- यत्र सूत्रे स्वस्वाभिप्रायविषयभिन्नविषयकत्वमामुखेऽवभासते तत्र सूत्रे परतीथिकानामभिमतं यद् वस्तु तस्य या वक्तव्यता तस्याः प्रतिबन्धस्य- सम्बन्धस्य, प्रतिपादनम्- इदं सूत्रं परतीर्थिकवस्तुवक्तव्यतामाश्रित्य प्रवृत्तमित्येवं जिनभद्र-सिद्धसेनप्रभृतीनां प्रावचनिकानां यदपि प्रतिपादनं तत् प्रतिपादनमपि चेद् यदि अभिनिवेशनं-स्वस्वमताग्रहविजम्भितं तदा जिनभद्र-सिद्धसेनप्रभृतीनां प्रावनिकत्वस्य क्षतिः- हानिः स्यादिति हेतोः, तत्र परतीर्थिकवस्तुवक्तव्यतेत्यादिवाक्ये, घटकत्वं सप्तम्यर्थ इति तादृशवाक्यघटकं परतीर्थिकपदं भिन्नपरम्परा-जिनभद्र-सिद्धसेनप्रभृतीनां यः स्वस्वगुरुस्तद्गुरुपरम्परा तद्भिन्नजैनपरम्परा, तत आयातस्य- सूत्रतात्पर्यस्य, अनुसारी- अनुसरणशीलो . यः पुरुषस्तत्परं तत्तात्पर्यकम् , परतीर्थिकपदेन जैनेतरस्य न प्रहणं किन्तूक्तदिशा स्वपरम्पराभिन्नपरम्पराऽऽयाततात्पर्यानुसारिणां जनानामेव प्रहणमित्यर्थः । “सारिपदं" इत्यस्य स्थाने "सारिपरं" इति पाठो युक्तः । इत्थं तदुक्तिव्याख्याने तेषां न प्रावचनिकत्वक्षतिरिति बोध्यम् । अत एव यत एव तत्र परतीर्थिकपदं भिन्नपरम्पराऽऽयाततात्पर्यानुसारिपरं तत एवेत्यर्थः । कथमस्मिन् सूत्रे परतीथिकवस्तुवक्तव्यताप्रतिबन्ध इत्याकालानिवृत्तये तेषामेव 'नयाभिप्रायेण प्रवृत्तत्वाद' इत्येवं यदभिधानं तस्योपपत्तिरित्यर्थः । अत एव स्वस्वतात्पर्यविरुद्धविषयसूत्रस्य नयाभिप्रायेण प्रवृत्तत्वादेव, अस्य विहितमित्यनेनान्वयः । उभयसमाधानं परस्परविरुद्धजिनभद्र-सिद्धसेनप्रभृतिमतद्वयस्य समाधानं- सिद्धान्ताविरुद्धतयाऽनुगमनम् । अस्माभिः यशोविजयोपाध्यायैः । ज्ञानबिन्दी ज्ञानबिन्दुसंज्ञके प्रन्थे। विहितं कृतम । ज्ञानबिन्दावन्ते प्रन्थकप्रश स्तावेतानि पद्यानि केवलज्ञान केवलदर्शनयोगपद्यायोगपद्यै क्यमननपरायणानां मल्लवादि-क्षमाश्रमणजिनभद्रगणि-सिद्धसेनदिवाकराणां त्रयाणां परस्परमतविरोधभत्रकनयभेदसमाश्रयणप्रतिपादकानि पद्यान्यत्रानुसन्धेयानि " प्राचा वाचां विमुखविषयोन्मेषसूक्ष्मेक्षिकायां, येऽरण्यानीभयमधिगता नव्यमार्गानभिज्ञाः । तेषामेषा समयवणिजां सम्मतिप्रन्थगाथा, विश्वासाय स्वनयविपणिप्राज्यवाणिज्यवीथी ॥१॥ भेदग्राहिव्यवहृतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करण-फलयोः सीम्नि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेनस्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽपि ॥ २ ॥ चित्सामान्य पुरुषपदभाक् केवलाख्ये विशेषे, तद्रूपेण स्फुटमभिहितं साद्यनन्तं यदेव । सूक्ष्मरंशः क्रमवदिदमप्युच्यमानं न दुष्ट, तत्सूरीणामियमभिमता मुख्य-गौणव्यवस्था ॥३॥
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy