________________
नयामृततरङ्गिणी- ङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
भ्युपगमादिति न कश्चिद् दोष इति भावनीयम् ॥ २८ ॥ ऋजुसूत्रं लक्षयति
भाववे वर्तमानत्वव्याप्तिधीरविशेषिता ।
ऋजुसूत्रः श्रुतः सूत्रे शब्दार्थस्तु विशेषितः ॥ २९॥
१५९
नयामृत-भावत्व इति । भावत्वे वर्तमानत्वव्याप्तिधीः- अतीतानागत सम्बन्धाभावव्याप्यत्वोपगन्तृता, अविशेषिता - शब्दाद्यभिमतविशेषापक्षपातिनी, सूत्रे ऋजुसूत्रनयः श्रुतः, सूत्रं च - " पञ्चुप
गाही उज्जुओ विही मुणेयबो" [विशेषावश्यक निर्युक्तिगाथा - २१८४ ]त्ति, अत्र प्रत्युत्पन्नमेव गृह्णातीत्येवंशील इत्यत्रार्थे तात्पर्यादुक्तार्थलाभः, अविशेषितपदकृत्यमाह - शब्दार्थस्तु विशेषित इति, तथा च विशेषितार्थग्राहिणि शब्दादिनये नातिव्याप्तिरिति भावः, " सतां साम्प्रतानामर्थानामभिधानपरिज्ञानमृजुसूत्र : " [ तत्त्वार्थसूत्रे, अ० १ सू० ३५ ] इति तत्त्वार्थभाष्यं व्यवहारातिशायित्वलक्षणमभिप्रेत्य तदतिशयप्रतिपादनार्थमेतदुक्तम्, व्यवहारो हि सामान्यं व्यवहारानङ्गत्वान्न सहते, कथं तर्ह्य - तत्प्रयुक्तस्य व्यवहारस्याप्यविशेषेण सर्वत्र सम्भवेन तन्निरूपितविषयताऽपि सर्वत्रावश्यकीति तत्संवलितत्वं सर्वत्र दृष्टेऽर्थे निश्चयीयविषयताया इत्यभिसंन्धिः ॥ २८ ॥
एकोनत्रिंशत्तमं पद्यमवतारयति - ऋजुसूत्रमिति । विवृणोति-भावत्व इतीति यत्र यत्र भावत्वं तत्र वर्तमानत्वमित्येवं व्याप्तिज्ञानमृजुसूत्र इत्यर्थः । ' वर्तमानत्वव्याप्तिधीः' इति मूलस्य विवरणम् - अतीतानागतसम्बन्धाभावव्याप्यवोपगन्तृतेति, अतीता ऽनागतकालसम्बन्ध्यपि भावो वर्तमानकालसम्बन्धितामपि वर्तमानतादशायामनुभवत्येवेति यत्र यत्र भावत्वं तत्र वर्तमानत्वमित्येवं व्याप्युपगमः स्थिर भावाभ्युपगन्तु देव्यार्थिकन यस्यापीत्यतोऽतीतेत्यादि विवरणमादृतम्, तथा च यत्र यत्र भावत्वं तत्रातीतानागतसम्बन्धाभाव इत्येवं व्याप्तैरभ्युपगन्तृत्वं न द्रव्यार्थिकनयस्य तदभिमते स्थिरे भावे अतीताना. गतसम्बन्धस्यैव भावेना तीता ऽनागतसम्बन्धाभावस्याभावात्, अतीतानागतसम्बन्धाभावाभाववति स्थिरे भावे भावत्वस्य सत्त्वेन व्यभिचारिणो भावत्वस्यातीतानागत सम्बन्धाभावव्याप्यत्वाभावेन तादृशव्याप्यत्वाभ्युपगन्तृत्वस्य तत्रासम्भवादिति । भावत्वे अतीतानागतसम्बन्धाभावव्याप्यत्योपगन्तृता शब्दादिनयानामपीति तेष्वतिव्याप्तेर्वारणार्थमुपात्तस्य ' अविशेषिता ' इत्यस्य विवरणम् - शब्दाद्यभिमत विशेषापक्षपातिनीति तथा च शब्दाद्यभिमतविशेषानभ्युपगन्तृत्वे सति भावत्वगतातीतानागतसम्बन्धाभावव्याप्यत्वापगन्तृत्वमृजुसूत्रत्वमित्येवमृजुसूत्रस्य लक्षणे पर्यवसिते न शब्दादिनयेऽतिव्याप्तिरित्याशयः । ' सूत्रे ऋजुसूत्रः श्रुतः' इत्युक्तिरुतलक्षणस्य सिद्धान्तसिद्धत्व प्रतिपादनाय । कस्मिन् सूत्रे इति जिज्ञासायामाह - सूत्रं चेति । पच्चुप्पण्ण० इति - " प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिर्ज्ञातव्यः इति संस्कृतम् । नन्वत्रा विशेषितत्वं विशेषणं नोपात्तमिति नैतत्सूत्रसम्मतत्वं निरुक्ताविशेषितत्वघटितलक्षणस्येत्यत आह- अत्रेति एतत्सूत्रे इत्यर्थः । ' प्रत्युत्पन्नमेव ' इत्येवकारेणातीता ऽनागतयोः शब्दाद्यभिमतविशेषस्य च व्यवच्छेदः । तात्पर्यात् प्रत्युत्पन्नग्राहीत्यस्य तात्पर्यात् तेन चोक्तसूत्र तो निरुक्तलक्षणलाभ इत्याह- उक्तार्थलाभ इति । तथा च ' शब्दार्थस्तु विशेषितः ' इत्युपादानेन शब्दाद्यभिमतविशेषाग्राहित्वस्य लक्षणघटकत्वे च । ऋजुसूत्रस्य व्यवहारातिशायित्वफलाभिप्रायकं तत्त्वार्थभाष्योक्तं तल्लक्षणं दर्शयति- सतामिति । तदतिशयप्रतिपादनार्थ व्यवहारत ऋजुसूत्रस्यातिशयप्रतिपादनार्थम् । एतदुक्तं G सतामू० " इत्यादि लक्षणमुक्तम् । अतिशयमेव प्रतिपादयति- व्यवहारो हीति । हि यतः, व्यवहारः व्यवहारनयः, व्यवहारानङ्गत्वात् विषयविधया लोकव्यवहृतिजनकत्वाभावात्, सामान्यं सत्त्वादिकम् न सहते नाभ्युपगच्छति यदि, तर्हि तदा, परकीयं परसम्बन्धि, अर्थमपि धनादिकमपि कथं सहेत कथं स्वीकुर्यादित्यन्वयः, सर्वत्र अविचार्य विचारमकृत्वैवेत्यस्य सम्बन्धः परकीयार्थेनापि दानादिव्यवहारो न भवत्येवेति तदपि व्यवहारानङ्गत्वान्नाभ्युपगन्तुमर्हति व्यवहारः, अभ्युपगच्छति च परकीयधनं व्यवहार इति तदज्ञानविलसितमेतस्येति परकीयधनाद्यनभ्युपगन्तु सूत्रस्य हृदयम्, एवमग्रेऽपि, अतीतमनागतं च कथमविचार्य सहेतेत्यन्वयः । तथाविधार्थवाचकम् अतीतानागतार्थवाचकम
""
www.