________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः |
पातात् तस्याप्यात्मगौरवत्वादिबोधक लोकप्रमाणवाधितार्थबोधकत्वात्, अभ्रान्तलोका बाधितार्थबोधकत्वं चोभयत्र तुल्यम् । प्रत्यक्ष नियतैव व्यवहारिविषयता न त्वागमादिनियतेति तु व्यवहार दुर्नयस्य चाकमतप्रवर्तकस्य मतम्, न तु व्यवहारनयस्य जैनदर्शनस्पर्शिन इति शङ्कायामाह - पञ्चवर्णाभिलापेऽपि श्रुतव्युत्पत्तिशालिनाम् ।
१५८
न तद्बोधे विषयता परांशे व्यावहारिकी ॥ २८ ॥
नयामृत० - पञ्चेति । 'पञ्चवर्णो भ्रमरः' इति शब्दाभिलापेऽपि श्रुतव्युत्पत्तिशालिनां तत्तनयाभिप्रायप्रयुक्तः शब्दस्तत्र नयीयविषयतयैव शाब्दबोधजनक इति सिद्धान्तसिद्ध कार्यकारणभावग्रहवताम्, तद्बोधे- उक्ताभिलापजन्यशाब्दबोधे, परांशे - कृष्णेतरतरवणशे, व्यावहारिकी विषयता नास्ति, तथा च ' पञ्चवर्णो भ्रमरः ' इति शाब्दबोधे कृष्णांशे व्यावहारिक्या सम्बलिता, इतरांशे च शुद्धा नैश्चयिक विषयता, अदृष्टार्थे सर्वत्र सम्बलनसम्भवेऽपि लोकप्रसिद्धार्थानुवादस्थले कचिदेव सम्बलनालोकबाधितार्थबोधकस्य ' पञ्चवर्णो भ्रमरः ' इति वाक्यस्य न लोकव्यवहारानुकूलत्वमित्यत आह- लोकबाधितेति । तस्यापि आत्मा न रूपवान्' इत्यादिवाक्यस्यापि । नन्वभ्रान्तलोकप्रमाणबाधितार्थबोधकवाक्यस्यैवाव्यवहारकत्वम्, आत्मगौरवादिबोधक लोकप्रमाणं च भ्रान्तमेवेत्य भ्रान्तलोकप्रमाणवाधितार्थकत्वाभावाद् 'आत्मा न रूपवान्' इत्यादिवाक्यस्य नाव्यवहारकत्वप्रसङ्ग इत्यत आह- अभ्रान्तेति । उभयत्र आत्मा न रूपवान्' इति वाक्ये 'पञ्चवर्णो भ्रमरः ' इति वाक्ये च । तुल्यं समानम्, यथा आत्मगौरवादिबोधक लोकप्रमाणस्य भ्रान्तत्वेनाभ्रान्तलोकावाधितार्थबोधकत्वम् 'आत्मा न रूपवान्' इत्यादिवाक्यस्य तथा भ्रमरे कृष्णत्वबोधकलोकप्रमाणस्य भ्रान्तत्वेनाभ्रान्तलोकाबाधितार्थबोधकत्वं पञ्चवर्णो भ्रमरः ' इति वाक्यस्यापीत्यर्थः । ननु यत्रैव प्रत्यक्षविषयत्वं तत्रैव व्यवहारविषयत्वमिति व्यवहारविषयता प्रत्यक्षविषयताव्याप्यैव, तथा च व्यापकस्य प्रत्यक्षविषयत्वस्य भ्रमरगतपञ्चवर्णेऽभावाद् व्याप्यस्य व्यवहारविषयत्वस्यापि तत्राभाव इति ' पञ्चवर्णो भ्रमरः ' इति वाक्यं न व्यवहारनयानुरोधीत्यत आह- प्रत्यक्षनियतैवेति- अत्र प्रत्यक्षस्य विषयतासम्बन्धेन व्यापकत्वं बोध्यम् । व्यवहारिविषयता व्यवहारिणो लोकप्रमाणस्य विषयता, अथवा 'व्यवहारीयविषयता' इत्येव पाठः । व्यवहारदुर्नयस्तेति - चार्वाकमतप्रवर्तको व्यवहारदुर्नयो हि प्रत्यक्षमेवैकं प्रमाणमिति स्वीकरोति, तन्मते यन्न प्रत्यक्षविषयस्तन्नास्त्येवेति भवति प्रत्यक्षाविषयस्य व्यवहाराविषयत्वं तन्मते, जैनदर्शन स्थितव्यवहारनयस्त्वागमादिपरोक्षप्रमाणमप्युररीकरोति, तन्मते प्रत्यक्षाविषयोऽपि व्यवहर्तुं शक्यत एवेति पञ्चवर्णस्य भ्रमरगतस्य प्रत्यक्षाविषयस्याप्यागमप्रमाणविषयत्वेन व्यवहारविषयत्वं स्यादेवेत्यवतरणिकार्थः ।
<
विवृणोति - पञ्चेतीति । 'पञ्चवर्णाभिलापेऽपि ' इति मूलमधुत्वैव यत् 'पञ्चवर्णो भ्रमरः ' इति ' शब्दाभिलापेऽपि ' इति विवरणं तद् विवरणे मूलाक्षरसन्निवेशोऽस्त्येवेति तत एव मूलज्ञानं सुकरमित्यभिप्रायेण, अग्रे च न पृथङ्मूलधारणमन्तरेण तद्विवरणे तद्विवरणत्वावगतिरित्यभिप्रायेण मूलमुपन्यस्य तद्विवरणमिति बोध्यम् । 'श्रुतव्युत्पत्तिशालिनाम् ' इति मूलस्य विवरणम् - ' तत्तन्नय० ' इत्यारभ्य ' ग्रहवताम्' इत्यन्तम् ' स्तत्र नयीयविषयतैव ' इत्यस्य स्थाने ' स्वतन्नयीयविषयतैव' इति पाठो युक्तः, यः शब्दो यन्नयाभिप्रायेण प्रयुक्तः स शब्द स्तन्नया - भिप्रेतखवाच्यतासम्बन्धेन तन्नयीयविषयतासम्बन्धेन शाब्दबोधं प्रति जनक इत्याकारको यः सिद्धान्तसिद्ध कार्यकारणभावग्रहस्तङ्कतां प्रतिपत्तॄणामित्यर्थः । उक्ताभिलापेति- 'पञ्चवर्णो भ्रमरः ' इत्यभिलापेत्यर्थः । तथा च निरुक्तश्रुतव्युत्पत्तिशालिनां पञ्चवर्णो भ्रमरः ' इति वाक्यजन्यशाब्दबोधे कृष्णेतरवर्णांशे व्यावहारिक्या विषयताया अभावे च । व्यावहारिया संवलिता व्यावहारिक्या विषयतया सहिता, 'नैश्चयिकी विषयता' इत्यनेनास्य सम्बन्धः । इतरांशे च कृष्णेतरवर्णाशे पुन: । ' आत्मा न रूपवान्' इति वाक्यजन्यबोधे आत्मगतरूपा भावलक्षणा प्रत्यक्षविषयार्थे नैश्चयिकी विषयता व्यावहारिकविषयतासंवलिताऽपि । ' पञ्चवर्णो भ्रमरः ' इति वाक्यस्य कृष्णवर्णरूपलोकप्रसिद्धार्थेऽनुवादरूपत्वेन तदंश एव तज्जन्यबोधीया निश्चयीयविषयता व्यावहारिकविषयतासंवलिता न तु कृष्णेतरवर्णाशे इत्यभ्युपगमे न कोऽपि दोष इत्याहअष्टार्थ इति- अदृष्टार्थे व्यवहारो न प्रत्यक्षप्रमाणतः किन्तु परोक्षप्रमाणत इति सर्वत्रादृष्टेऽर्थे परोक्षप्रमाणप्रवृत्तिसम्भवेन