SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । विद्यमानेतरवर्णप्रतिषेधाद् भ्रान्तत्वम्, अनुद्भूतत्वेनेतराविवक्षणात् तद्व्युदासेऽतात्पर्यात्, उद्भूतवर्णविवक्षाया एवाभिलापादिव्यवहारहेतुत्वात्, कृष्णादिपदस्योद्भूतकृष्णादिपरत्वाद् वा, अतात्पर्यज्ञं प्रत्येतस्याबोधत्वेनाप्रामाण्येऽपि तात्पर्यज्ञं प्रति प्रामाण्यात्, लोकव्यवहारानुकूलविवक्षाप्रयुक्तत्वेन च भावसत्यत्वाविरोधात्, अत एव 'पीतो भ्रमरः ' इति न व्यवहारतो भाव सत्यम्, लोकव्यवहाराननुकूलत्वात्, नापि निश्चयतः, पञ्चवर्ण पर्याप्तिमति पञ्चवर्णप्रकारत्वाभावेनावधारणाश्च मत्वादित्य सत्यमेवेति दिक् ॥ २७ ॥ ननु ' कृष्णो भ्रमरः ' इति वाक्यवत् 'पञ्चवर्णो भ्रमरः' इति वाक्यमपि कथं न व्यवहारनयानुरोधि ? तस्यापि लोकव्यवहारानुकूलत्वात्, आगमबोधितार्थेऽपि व्युत्पन्नलोकस्य व्यवहारदर्शनात्, लोकबाधितार्थबोधकवाक्यस्याव्यवहारकत्वे च ' आत्मा न रूपवान्' इत्यादिवाक्यस्याप्यव्यवहारकत्वाकारणात् । अस्य व्यवहारनयस्य । ननु 'कृष्णो भ्रमरः' इति यज्ज्ञानं तद् भ्रमरे कृष्णत्वमवभासयत् तत्र विद्यमानमपि कृष्णेतरवर्णं प्रतिक्षिपतीति भ्रान्तं तत् स्यादित्याशङ्क्य प्रतिक्षिपति - न चेति । कृष्णेतरवर्णस्य भ्रमरे सतोऽप्यनुद्भूतत्वेन विवक्षाभावादेव कृष्णवर्णप्रकार कभ्रमरविशेष्यकं तज्ज्ञानम्, न तु कृष्णेतरवर्णाभावस्तत्र प्रतिभासते इति नास्य भ्रमत्वं तज्ज्ञानकारणीभूत' कृष्णो भ्रमर 'इतिवाक्यप्रयो तुभ्रमरे कृष्णैतरवर्णप्रतिषेधे तात्पर्याभावेन तत्र तत्प्रतिभासस्य वक्तुमशक्यत्वादिति निषेधहेतुमुपदर्शयति- अनुद्भूतत्वेनेति । इतराविवक्षणात् कृष्णेतरवर्णाविवक्षणात् । तद्वयुद्दासे कृष्णैतरवर्णप्रतिषेधे । अतात्पर्यात् 'कृष्णो भ्रमरः ' इति वक्तुस्तात्पर्याभावात् । ननु यदि भ्रमरे कृष्णेतरवर्णो विद्यते तनुद्भूतोऽपि स यदि विवक्ष्येत तर्हि 'शुक्लो भ्रमरः, रक्तो भ्रमरः ' इत्याद्यभिलापः स्यादेवेत्यत आह- उद्भूतेति- तथा चानुद्भूतवर्णविवक्षाऽपि यदि कस्यचित् स्यात् तदाप्यभिलापादिव्यवहारस्वरूपायोग्यया तयाऽनुद्भूतवर्णाभिल: पादिव्यवहारो न स्यादेवेत्यर्थः । अथवा 'कृष्णो भ्रमरः' इत्यत्र कृष्णपदमुद्भूतकृष्णपरम्, तथा चोद्भूतकृष्णेतरोद्भूतरूपस्य व्युदासेऽपि न भ्रमत्वं भ्रमरे कृष्णेतरोद्भूतरूपाभावादित्याह - कृष्णादिपदस्येति । य प्रतिपत्ता ' कृष्णो भ्रमरः ' इत्यत्र ' कृष्णपदमुद्भूतकृष्णबोधनेच्छयोच्चरितम् ' इत्येवं तात्सर्यं नावधारयति तस्योद्भूत कृष्णत्वप्रकारक भ्रमर विशेष्यकबोधस्योक्तवाक्यादजायमानत्वेन जायमानस्य च कृष्णेतररूपप्रतिक्षेप संवलित कृष्णत्वबोधस्याप्रमात्वेनाप्रनात्म को क्तबोधजनकत्वात् तमतात्पर्यज्ञं प्रतिपत्तारं प्रत्युक्तवाक्यस्या प्रामाण्येऽपि यः प्रतिपत्ताsत्र 'कृष्णपदमुद्भूतकृष्णवोधनेच्छयोच्चरितम्' इत्येवं तात्पर्यमवधारथितुं शक्नोति तस्योक्तवाक्यत उद्भूतकृष्णत्वप्रकारका नरविशेष्यकबोधस्य प्रमात्मकस्य जायमानत्वेन तादृशप्रमात्मकबोधजनकस्योक्तवाक्यस्य तं तात्पर्यज्ञं प्रतिपत्तारं प्रति प्रामाण्यं निराकुलमेवेत्य ह- अतात्पर्यज्ञमिति । एतस्य 'कृष्णो भ्रमरः' इति वाक्यस्य । 'अबोधत्वेन' इति स्थाने 'अबोधकत्वेन' इति पाठो युक्तः, तस्य 'प्रमात्मक बोधजनकत्वाभावेन' इत्यर्थः । लोकेति - लोकस्य यो भ्रमरस्य कृष्णत्वेन व्यवहारस्तस्यानुकूला या विवक्षा उद्भूत कृष्णवर्णविवक्षा तत्प्रयुक्तत्वेन तज्जन्यत्वेन 'कृष्णो भ्रमरः' इति वाक्यस्य भावसत्यत्वाविरोधात् भ्रमरस्य पञ्चवर्णत्वेऽपि कृष्णरूपमेव तत्रोद्भूतं न तु पीतादिकमित्युक्तविवक्षा वस्त्ववलम्बिनीति तज्जन्यस्योक्तवाक्यस्य भावसत्यत्वविरोधाभावादित्यर्थः । अत एव लोकव्यवहारानुकूलविवक्षाप्रयुक्तत्वस्य भावसत्यत्वनियामकत्वादेव | नाऽपि निश्चयत इति निश्चयनयतोऽपि ' पीतो भ्रमरः ' इति वाक्यं न भावसत्यमित्यर्थः । तत्र हेतुमाह- पञ्चवर्णपर्याप्तिमतीति- अपर इति शेषः । अवधारणाक्षमत्वादिति कृष्णो भ्रमरः ' इत्यत्र कृष्णपदस्यो कृष्णपरत्वेन कृष्ण एवं नरः' इत्यवधारणं सम्भवति, भ्रमरस्य पञ्चवर्णत्वेऽपि कृष्णस्यैवोद्भूतत्वादिति भवति तस्य निश्चयतोऽपि प्रामाण्यम्, तथा 'पञ्चवर्णो भ्रमरः' इत्यत्रापि 'भ्रमरः पञ्चवर्ण एव' इत्यवधारणं सम्भवति, पञ्चवर्णपर्याप्तिमति भ्रमरे पश्चवर्णलक्षणप्रकारस्यावधारणोपपत्तेः, 'पीतो भ्रमरः' इत्यत्र 'पीत एव भ्ररः' इत्यवधारणं न सम्भवति, पञ्चवर्णपर्याप्तिमत्येकवर्णमात्रपर्याप्तेरसम्भवात्, अतो व्यवहारतो निश्चयतश्चासत्यमेत्र 'पीतो भ्रमरः ' इति वाक्यमित्यर्थः ॥ २७ ॥ १५७ अष्टाविंशतितमं पद्यमवतारयति - नन्वित्यादिना । तस्यापि 'पञ्चवर्णो भ्रमरः ' इति वाक्यस्यापि । ननु रथ्यापुरुषादिस्वरूप लोकव्यवहारानुकूलत्वं 'पञ्चवर्णो भ्रमरः' इति वाक्यस्य नास्तीत्यत आह- आगमेति भ्रमरगत पञ्चवर्णात्मकोऽर्थ आगमबोधितस्तस्मिन्नपि । व्युत्पन्नलोकस्य आगमार्थावबोधलक्षणव्युत्पत्तिमतः परीक्षकादिलोकस्य । ननु यद्यपि भ्रमरतपश्चवर्णलक्षणोऽर्थ आगमबोधितस्तथाऽपि स लोकबाधितः लोके 'पञ्चवर्णो भ्रमरो न' इत्येवं बाधदर्शनात् तथा च
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy