________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेया ।
न च नयवचनेषु पक्षपातः, कचन समाकलितप्रमाणदृष्टेः । अभिमतविषये हि गोपनीया, अनभिमते यदमी विगोपनीयाः ॥ ४ ॥ ब्रजति फलवति प्रमाणवाक्ये, नयवचनं बहुरूपभङ्गभावम् । तदिह सविधमोहि मा स्पृशेति, छलव दिदं न विशङ्कनीयमार्यैः ॥ ५ ॥ प्रथमत इह लौकिकोऽर्थबोधस्तदनु नयात्मक एव मध्यमः स्यात् । तदुपरि परितः प्रसर्पिभङ्गव्यतिकरसंवलितः प्रमाणबोधः ॥ ६ ॥ श्रुतमय उदितः किलाधबोधो, मतहतकृन्नयचिन्तया द्वितीयः । स्वमतमदहरः परस्तृतीयः, सकलजगद्धितकाम्यया पवित्रः ॥ ७ ॥
aaaaaaaa
न चेति । समाकलिता- समीचीनतयाऽऽलोचिता, प्रमाणदृष्टियेन स समाकलित प्रमाणदृष्टिस्तस्य समाकलितप्रमाणहष्टेः, मम, नयवचनेषु नयात्मकवचनेषु नयप्रभववचनेषु वा मध्ये, वचन कस्मिन्नपि नयवचने, पक्षपातः अयमेव इत्येवमभिनिवेशः, न च नैव, हि यतः, अमी नयाः, अभिमतविषये यद् वस्तु यदपेक्षया यथाभूतमभिमतं तथाभूते वस्तुनि, गोपनीयाः रक्षणीयाः, एवं यत् यस्मात् , अभिमते यद् वस्तु यद्रूपेणाभिमतं न भवति तथाभूते वस्तुनि, विगोपनीयाः अप्रकटनीया इत्यर्थः ॥ ४ ॥
बजतीति । फलवति निराकाससम्पूर्णार्थावबोधकत्वात् संशय-विपर्ययज्ञाननिवर्तनलक्षणफलशालिनि । प्रमाणवाक्ये स्यादस्स्येव घटः स्यान्नास्त्येव घट इति सप्तभङ्गात्मकप्रमाणवाक्ये । नयवचनम् अस्तित्वायेकधर्मप्रतिपादकं संग्रहादिनयसमुत्थवचनं नयात्मकवचनं वा । बहुरूपभङ्गभावम् अनेकप्रकारभङ्गतां व्रजति, प्रत्येकनयप्रवृत्तवचनानां नयात्मकवचनानां वा परस्परविभिन्नभङ्गरूपतागमनं युज्यत एव । तत् तस्मात् । इह नयनिरूपणे। "सविधमोहि" इत्यस्य स्थाने " सविधमेहि" इति पाठो युक्तः, सविधं निकटम् , एहि आगच्छ । मा स्पृश मत्स्पर्शनं न कुरु। इति एवंस्वरूपं, वचनम् । छलवत् यथा छलं तथा, यो हि यन्निकटमागच्छति, स तं स्पृशत्यपि, अतिसमीपागमनस्य तत्संयोगजनकत्वात् , तथा चाशक्यार्थप्रतिपादकत्वाद् भवति सविधमेहि मा स्पृशेति वचनं छलम् । एवं छलस्वरूपम् । इदम् अस्ति घटो नास्ति घट इति नयवचनम्। आयः निर्मलमतिभिः । न शङ्कनीयम् एकनयसमुत्थं किञ्चिदपेक्षयाऽस्ति घट इति वचनम् , अपरनयसमुत्थं निमित्तान्तरापेक्षया नास्ति घट इति, तयोर्द्वयोरपि परस्पराविरुद्धसम्भवदर्षकत्वेन छलत्वाभावादित्यर्थः ॥ ५॥
इत्थं पञ्चभिः पद्यैः समूलां नयामृततरङ्गिणी स्तुत्वा तज्जन्यबोधवैचित्र्यमुपदर्शयति- प्रथमत इहेति । प्रथमतः निमित्तमेदालोचनतः प्रागेव । इह शब्दव्यवहारे । लौकिकः आपामरलोकसम्बन्धी आकाङ्क्षाऽऽसत्ति योग्यताज्ञानादिघटितसामग्रीप्रभवः । अर्थबोधः पदार्थद्वयान्वयबोधः । तदनु तदनन्तरम् । नयात्मक एव निमित्तभेदापेक्षयैकैकधर्मप्रकारकघटाद्यर्थविशेष्यकनयात्मकबोध एव । मध्यमः स्यात् लौकिकबोध-प्रमाणबोधयोर्मध्यभावी बोधो भवेत्, तथा च लौकिकबोधोऽस्तित्वप्रकारकघटविशेष्यकः नयात्मकबोधश्च स्वद्रव्याद्यपेक्षयाऽस्तित्वप्रकारकघटविशेष्यकः । तदुपरि नयात्मकबोधानन्तरम् । परितः सर्वतोभावेन, स्वस्वविषयधर्मावस्थाननिमित्तापेक्षाभेदव्यापनेनेति यावत् । प्रसर्पिण:- प्रवर्तमानाः, मजाः-स्थादस्त्येव घटः, स्यानास्त्येव घट इत्यादयस्तेषां व्यतिकरः-परस्परसाकालभावेनैकवाक्यतालक्षणः सम्बन्धः, तेन संवलितः-जन्यजनकभावसम्बन्धेन प्रतिबद्धः । प्रमाणबोधः प्रमाणात्मकबोधः, सप्तभङ्गात्मकमहावाक्यप्रभवः प्रमाणात्मकतृतीयबोध इत्यर्थः ॥ ६॥
भ्रतमय इति- यथा यथा श्रूयते शब्दस्तथैवार्थबोधो भवतीति श्रुतमनतिक्रम्य जायमानत्वाच्छ्रुतमयः । किल इतीत्यैतिो, एवं वृद्धपरम्परयाऽवगम्यते । आद्यबोधो लौकिकोऽर्थबोधः । मतहतकदित्यस्य स्थाने मतहतिकृदिति मतशतकदिति वा पाठो भवितुमर्हति प्रथमपाठे एको नयः स्वप्रतिपक्षनयमतं विनाशयतीति मतहृतिकृदिति द्वितीयपाठे