________________
नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलङ्कृतो नयोपदेशः ।
पत्तिः, मुख्यार्थ विशेषितस्यैव पद्मत्वस्य भानात् तथा च वृत्तिद्वयविरोधस्य जागरूकत्वात् कुमुदमानय ' इत्यत्र च पङ्कजपदे न लक्षणा, किन्तु पद्मत्वमुपस्थितमप्यन्वयायोग्यत्वान्नालमित्यवयवार्थ एव परमंन्वेतीति न किञ्चिदनुपपन्नम् न च रूढ्या शीघ्रोपस्थितेन पद्मेनावरुद्धतयोपस्थितस्य पङ्कजनिकर्तृत्वस्य कुमुदान्वये निराकाङ्क्षत्वात् स्वतन्त्रोपस्थितये लक्षणावश्यम्भावः, योगार्थस्य रूढ्यर्थ . विशेषणतायां तथाभावेऽपि विशेष्यतायां स्वातन्त्र्यानपायात्, अन्यथा ' श्येनेन यजेत' इत्यत्र बलवदलक्षणाप्रसङ्ग इति - पङ्कजपदस्य पद्मत्वेन पद्मे समुदायशक्त्यभावेऽवयवशक्तिः पङ्कजनिकर्तृरूपसामान्य एव न तु पद्मत्वेन रूपेण पद्म इति पङ्कजपदस्य पद्मत्वेन पद्म लक्षणाश्रयणादेव तथा बोध इति लक्षणाप्रसङ्ग इत्यर्थः । भवतु पङ्कजपदात् पद्मत्वेन रूपेण पद्मबोधो लक्षणया का नो हानिरिति लक्षणाप्रसङ्ग इष्टापादनत्वान्न दोषावह इत्याशङ्कां प्रतिक्षिपति — न चेष्टापत्तिरिति । निषेधे हेतुमाह - मुख्यार्थविशेषितस्यैवेति- पङ्कजपदस्यावयवशक्त्या प्रतिपाद्यत्वान्मुख्यो यः पङ्कजनिकर्तृत्वरूपोऽर्थस्तद्विशेषितस्य तत्सहितस्यैव पद्मत्वस्य पङ्कजपदजन्यबोधे भानादि • त्यर्थः । भवत्वेवं का क्षतिरित्यत आह- तथा नेति - पङ्कजपदजन्यबोधे पङ्कजनिकर्तृरूपमुख्यार्थविशेषितपद्मत्वरूपलक्ष्यार्थभाने चेत्यर्थः । वृत्तिद्वयेति - एकं पदमेकदैकस्य प्रमातुः स्वशक्यार्थमात्रबोधं स्वलक्ष्यार्थ मात्र बोधं वा जनयति, न तु स्वशक्यलक्ष्योभयार्थबोधमिति नियमेन वृत्तिद्वयविरोधस्य शक्तिलक्षणो भय वृत्तिग्रहसहकारेण शाब्दबोधाजनकत्वस्य । जागरूकत्वात् वादिदम्बकाविप्रतिपत्त्या सद्भावात् । ननु पङ्कजं कुमुदमानय' इत्यादौ पङ्कजपदशक्यार्थस्य पङ्कजनिकर्तृपद्मस्यभेदन कुमुदरूपार्थे नान्वयसम्भव इति तत्र पङ्कजपदलक्ष्यार्थस्यैत्र कुमुदेऽन्वय इति लक्षणाऽप्यावश्यकीति वृत्तिद्वयविरोधस्तवापि स्य दित्यत आह- ' पङ्कजं कुमुदमानय ' इत्यत्र चेति- तत्र समुदायशक्त्योपस्थितस्यापि पद्मत्वस्य वाधात् कुमुदपदार्थे नान्वयः किन्त्वयवशक्त्योपस्थितस्य पङ्कजनिकर्तुरेव तत्रान्वय इति पङ्कजपदं तत्रैकयैव शक्तिलक्षण. वृत्याऽर्थं बोधयतीति लक्षणाश्रयणाभावान्न वृत्तिद्वयविरोधस्यावकाश इत्यर्थः । ननु पङ्कजपदाद् यदैवावयवशक्त्या पङ्कजनिकर्तुरुपस्थितिस्तदैव समुदायशक्त्या पद्मस्याप्युपस्थितिरिति समानकालीनोपस्थितिकत्वेन पद्म एवान्वेति पङ्कजनिकर्तृरूपोऽर्थ इति पद्मरूपार्थे विशेषणतयाऽन्वितस्य पङ्कजनिकर्तुर्निराकाङ्क्षतया न कुमुदपदार्थेन सममन्वयः सम्भवतीति पद्माविशेषणतया स्वातन्त्र्येण पङ्कजनिकर्तुरुपस्थितये तत्र लक्षणाऽऽवश्यकीति वृत्तिद्वयविरोधः स्यादेवेत्याशङ्कय प्रतिक्षिपति - न चेति । रूढ्या समुदायशक्त्या, अवरुद्धतया एकत्र विशेषणत्वेनोपस्थितस्य नान्यत्र विशेषणतयाऽन्वय इति नियमात् पद्मे विशेषणतयोपस्थितस्य पङ्कजनिकर्तुर्न कुमुदेऽन्वय इति विशेष्यीभूतेन पद्मेन स्वातिरिक्ते विशेषणतया पङ्कजनिकर्तुः स्वविशेषण'स्यान्वयप्रतिबन्धकेनात्र रुद्धतयाऽन्यत्रान्वेतुमयोग्यतयोपस्थितस्यावयवशक्त्योपस्थितस्येत्यर्थः । स्वतन्त्रोपस्थितये पद्माविशेषणतया पङ्कजनिकर्तुरुपस्थितये । प्रतिक्षेपहेतुमुपदर्शयति-योगार्थस्येति- अवयशक्तिजन्योपस्थितिविषयस्य पङ्कजनिकर्तु - रित्यर्थः । रूढ्यर्थविशेषणतायां समुदायशक्तिजन्योपस्थितिविषयपद्मरूपार्थविशेषणतायां सत्याम् । तथाभावेऽपि कुमुदपदार्थे विशेषणतयाऽन्वये निराकाङ्क्षत्वेऽपि । विशेष्यतायां पङ्कजनिकर्तृरूपयोगार्थस्य समुदाय शक्त्यर्थपद्मनिरूपितविशेष्यतायाम् । स्वातन्त्र्यानपायात् अन्यत्र विशेषतयाऽनुपस्थितत्वलक्षणस्य स्वातन्त्र्यस्यानपायात् सत्त्वात् तथा च स्वातन्त्र्येणोपस्थितस्य पङ्कजनिकर्तृरूपयोगार्थस्य कुमुदपदार्थेऽभेदेन विशेषणतयाऽन्वये साकाङ्क्षत्वमनाकुलमेव एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतया नान्वय इति नियमस्य विरोधाभावादित्यर्थः । ननु यथाऽवयवशक्त्या पङ्कजनिकर्तुः पृथगेवोपस्थितत्वात् स्वातन्त्र्यं तथा समुदायशक्त्या पद्मस्यापि पृथगेवो स्थितत्वात् स्वातन्त्र्यमेव तस्य च बाधादभेदेन न कुमुदरूपार्थेऽन्वयसम्भवः, न च रूढ्यर्थं पद्मं परित्यज्य योगार्थस्य केवलस्यैव कुमुदपदार्थे योग्यत्वादन्वय इति वक्तुं युक्तं तथा कुत्राप्यदृष्टत्वादित्यत आह- अन्यथेति - अन्वयायोग्यमेकमर्थं परित्यज्य योग्यस्यापरार्थस्य पदार्थान्तरेऽन्वयबोधस्यानभ्युपगमे इत्यर्थः । श्येनेन यजेतेति - ' दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेत ' इत्यादौ सर्वत्र बलवदनिष्टाननुबन्धित्वमिष्टसाधनत्वं कृतिसाध्यत्वं चेत्येतत्रयं विध्यर्थः नहि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तत इति प्रवृत्तिं प्रतीष्टसाधनताज्ञानमवश्यं कारणमभ्युपगन्तव्यम्, तथेष्टसाधनेऽपि चन्द्रमण्डलानयने कृत्यसाध्ये न प्रवर्तत इति कृति - साध्यताज्ञानमपि प्रवृत्तिं प्रति कारणं स्वीकर्तव्यम् तथा मधुविषसम्पृक्तान्नमक्षणे इष्टसाधने कृतिसाध्येऽपि च मरणरूपबलवदनिष्टानुबन्धिनि न प्रवृत्तिरतो बलवदनिष्टाननुबन्धित्वज्ञानमपि प्रवृत्तिकारणम्, एवं च प्रवर्तकत्वानुरोधाद् विधे
१९७
• पङ्कजं