SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १९६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलङ्कतों नयोपदेशः । - तद्भानप्रसङ्गः, पशु(त्व-)गोत्वयोः प्रयोगोपाधित्वं शत्युपाधित्वं चेति तु परिभाषामात्रम् , घटादिपदे घट. त्वादेरपि तत्त्वापत्तेः, उपाधिभूतेन घटत्वादिना संस्कारोपस्थितेरप्रकारेण निर्विकल्पकापत्तिनिरासस्यापि शक्यभाषणत्वात् , ' पद्मत्वस्मरणस्य पङ्कपदोचरजपदस्य वा कुमुदादिप्रयोगप्रतिबन्धकत्वं शक्तिकोव्यं. (ज्यं) वा कल्प्यते ' इत्यपि यदुक्तं तदयुक्तम् , अगृहीतपद्मशक्तेः पङ्कजपदात पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिबोधदर्शनात् , अत एवाव्युत्पन्नः पङ्कजमानय' इति वाक्यश्रवणानन्तरं कुमुदानयने दोलायते, सामान्यशब्दत्वादमीषाम् ; · विशेषतात्पर्यवशाद् विशेषबोधकत्वम्' इति यदुक्तं तत्रापि वस्तुगत्या यो विशेषस्तद्बोधकत्वं वा विशेषाकारेण वा ? आये पद्मत्वाननुभवापत्तिः, द्वितीये लक्षणाप्रसङ्गः, न चेष्टागमेऽतिप्रसन्नदोषं सङ्गमयति-शब्दानुपस्थितस्येति । घटादावव्युत्पन्नस्येति- घटादौ घटादिपदशक्तिमजानानस्येत्यर्थः । तदानप्रसङ्गः शाब्दबोधे घटादिभानप्रसङ्गः । पशुपदस्य न लोमवल्लाङ्गलवत्त्व लक्षणपशुत्वावच्छिन्ने शक्तिः, गोपदस्य च न गोत्वावच्छिन्ने शक्तिः, किन्तु पश्वादिपदव्युत्पत्तिनिमित्तावच्छिन्न एव, एवमपि लोमवलालवति यत् पशुपद प्रयुज्यते, गोत्ववति गोपदं च प्रयुज्यते, तत् पशुत्व-गोत्वयोः प्रयोगोपाधित्व-शक्त्युपाधित्वयोरुपगमादित्यपि युक्तिरिक्तं स्वेच्छामात्रनिर्मितमेव, एवं सति घटत्वादेरपि घटादिपदप्रयोगोपाधित्व-शक्त्युपाधित्वयोरेव प्रसक्त्या घटादिपदानामपि घटत्वाद्यवच्छिन्ने शक्तेरुच्छेदापत्तरित्याह-पशुत्व-गोत्वयोरिति । परिभाषामात्र स्वेच्छामात्रकल्पितम्। तत्वापत्ते: प्रयोगोपाधित्व-शक्त्युपाधित्वयोरापत्तेः। ननु घटादिपदस्य यदि घटत्वाद्यवच्छिन्न न शक्तिः किन्तु यस्यां व्यक्ती घटत्वादिकं वर्तते तस्यामेव व्यक्ती घटादिपदं प्रयुज्यते, घटादिपदस्य च शक्तिरित्येवं घटत्वादेः प्रयोगोपाधित्व-शक्त्युपाधित्वयोरुपगमे घटादिपदानिर्विकल्पकघटादिव्यक्तिप्रतीतिः स्यादित्यत आह- उपाधिभूते नेति- 'संस्कारोपस्थितेरप्रकारेण' इति स्थाने 'संस्कारोपस्थितौ प्रकारेण ' इति पाठो युक्तः, यद्यपि घटत्वेन रूपेण घटे घटपदस्थ न शक्तिः, किन्तु यस्यां भ्यक्तौ घटत्वं तस्थामेव घटपदस्य शक्तिरिति शक्त्युपाधिभूते घटवे घटपदशक्त्यभावान शक्त्या घटत्वस्योपस्थितिः, तथापि संस्कारमात्रेण घटोपस्थितेः सम्भवेन संस्कारप्रभवोपस्थितौ प्रकारेण घटत्वेन घटस्य प्रतीतितो न घटस्य निर्विकल्पकापत्ति. रित्येवं गदितुं शक्यत्वादित्यर्थः। शक्यभाषणत्वाद इत्यस्य शक्यं गदितुं योग्यं भाषणं वचनं यस्य तत्त्वादित्यर्थः । यच्च समुदायशक्त्यनभ्युपगत्रा परेण “अस्तु वा परस्य समुदायशक्तेरिव मम पद्मत्वस्मरणस्य कुमुदादौ प्रयोगप्रतिबन्धकत्वम् , यद्वा पङ्कपदोत्तरजपदस्यैव कुमुदादिस्मरणप्रतिबन्धकत्वम्” इत्युक्तं तदपि न समीचीनमित्युपदर्शयतिपनत्वस्मरणस्येति । शक्तिकोज्यं चेति - एतच्च "अत एवावयवशकावेव केचित् कोज्यं कल्पयन्ति" इति ग्रन्थे. नोक्तम् , तदयुक्तते हेतुमुपदर्शयति- अगृहीतपद्मशकेरिति- एतावता पङ्कजपदेन पद्मत्वस्मरणं न भवति, संस्कारमात्रण भवतोऽपि पद्मत्वस्मरणस्य पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिबोधदर्शनेन न तत्र तस्य प्रतिबन्धकत्वम् , पङ्कपदोत्तरजपदस्य तत्र भावेऽपि पङ्कजनिकतृत्वेन रूपेण कुमुदादिबोधस्य भावेन न तस्यापि तत्र प्रतिबन्धकत्वम् , अत एवावयवशक्तिकौज्यमपि न सम्भवदुक्तिकमित्यर्थः । अत एव पङ्कजपदात् पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिबोधभावादेव । अव्युत्पन्नः पजपदस्य पञ समुदायशक्तिमजानानः प्रमाता, पङ्कजपदस्य पद्मे शक्ति जानानस्तु प्रमाता 'पङ्कजमानय ' इति वाक्यश्रवणानन्तरं पङ्कजनिकर्तृपद्मानयनस्य कार्यत्वं निश्चिमोत्येवेति न स कुमुदानयने दोलायत इत्यत उक्तम् - अव्युत्पन्न इति । ऋजूनां यदपि मतम्-घटादिपदानां विशेषतात्पर्यसाहाय्येन नीलघटादिबोधकत्ववत् पङ्कजपदस्यापि पङ्कजनिकर्त. विशेषपद्मतात्पर्य ग्रहसाहाय्येन पद्मान्वयबोधकत्वसम्भवादपि न तत्र शक्तिः, इति तदपि न समीचीनमित्यावेदयतिसामान्यशब्दत्वादिति- पद्मकुमुदादिसाधारणधर्मावच्छिन्नवाचकवादित्यर्थः । अमीषां पङ्कजादिशब्दानाम् । विशेष तात्पर्यवशात् पङ्कजनिकर्तृविशेषपद्म पङ्कजादं बोधयतु' इति तात्पर्यवशात् , 'पङ्कजपदं पङ्कजनि कर्तृविशेषपद्मविषयकबोधेच्छयोच्चरितम्' इति तात्पर्यग्रहसहकारेणेति यावत् । विशेषबोधकत्वं पङ्कजनिक विशेषपद्मबोधकस्वम् । उकस्यायुक्तत्वं भावयितुं विकलायति-तत्रापीति । आद्य वस्तुगत्या पङ्कजनिकर्तृरूपसामान्यस्य यः पद्मव्यक्तिलक्षणविशेषस्तद्बोधकत्वमिति पर्छ । पनत्वाननुभवापत्तिः पद्मत्वेन रूपेण पद्मस्यानुभवो न स्यात्, किन्तु पङ्कजनिक त्वेनैव विशेषस्य पद्मध्यकिलक्षणस्य प्रतीतिर्भवेत् । द्वितीये पङ्कजनिक विशेषपदमस्य पदमत्वरूपविशेषाकारेण बोधकत्वमिति पक्षे।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy