________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो बयोपदेशः। २५९ अयमेतदर्थः-यद् वस्तुनः-जीवादेः, नाम-यथा गोपालदारकस्येन्द्र इति, स्थितमन्यार्थ इतिपरमार्थतखिदशाधिपेऽवस्थानात् , तदर्थनिरपेक्षमिति-इन्द्रार्थनिरपेक्षम्, 'इदि परमैश्वर्ये' इति धात्वर्थस्य गोपालकेऽभावात् , तथा पर्यायैः-शक्र-पुरन्दरादिभिः, नाभिधीयते इति एवम्भूतं नाम, इह नाम-नामवतोरभेदोपचाराद् गोपालकवस्त्येव नामोच्यते, तथान्यार्थेऽवर्तमानमपि किश्चिद् यादृच्छिकं-डित्थडवित्थादिवचनम् , चशब्दादित्वरं यावद्व्यभावि च तद्बाह्यम् , यत् तु " णामं [ आवकहियं ]' इति सूत्रे प्रोकं तत् प्रतिनियतजनपदसंज्ञामाश्रित्यैवेति ध्येयम् । ननु — गङ्गायां घोषः' इत्यत्र गङ्गापदेन गङ्गातीरमभिधीयते, तत्र किं नामनिक्षेपस्य प्रवृत्तिरुत निक्षेपान्तरस्य ? नाद्यः-जाह्नव्यादिपर्यायाभिधेयत्वेन तत्र नामनिक्षेपाप्रवृत्तेः, नापि द्वितीयः, प्रसिद्धनिक्षेपान्तराविषये तत्राप्रसिद्धनिक्षेपकल्पने तदियत्ताक्षतिप्रसङ्गादिति चेत् ? न-" जत्थ य जं जाणिज्जा, णिरकेवं णिरिकवे गिरवसेसं" [अनुयोगद्वारे गा० १]
नामेति । गोपालदारकस्येन्द्रति यन्नाम तत् कथमन्यार्थे स्थितमित्यपेक्षायामाह-परमार्थत इति। इन्द्रार्थनिरपेक्षमिति - इन्द्रशब्दस्य निरुक्तिलभ्यो योऽर्थस्तदनपेक्षमिति तदर्थः। कथमिन्द्रशब्दार्थनिरपेक्षमित्याकाङ्क्षायामाह- इदीतिइदिधातुः परमैश्वर्यरूपार्थे वर्तत इति परमैश्वर्यरूपस्य धात्वर्थस्य गोपालदारकेऽभावाद् भवति गोपालदारके इन्द्रेति नाम तदर्थनिरपेक्षमित्यर्थः। “गोपालकेऽभावात्" इत्यस्य स्थाने ' गोपालदारकेऽभावात्" इति पाठो युक्तः। पर्यायानभिधेयं चेयस्यार्थ कथयति-पर्यायैरिति- इन्द्रशब्दसमानार्थकैरित्यर्थः, येन शब्देन सह यस्य शब्दस्यै प्रवृत्तिनिमित्तकत्वं स शब्दस्तस्य शब्दस्य पर्याय इति इन्द्रशब्दस्य यदेव प्रवृत्तिनिमित्तं तदेव शक्रादिशब्दस्य प्रवृत्तिनिमित्तमिति भवन्ति इन्द्रशन्दस्य शक्रादिशब्दाः पर्यायाः । निगमयति- एवम्भूतं नामेति । एवम्भूतं मोपालदारकवस्तु तत् कथं नाम ? गोपालदारकस्यार्थरूपत्वान्नाम्नश्च शब्दात्मकत्वादित्यत आह-इहेति- प्रकृते इत्यर्थः । विरुद्धधर्माकान्तयोर्नाम-नामवतोः परमार्थतोऽभेदासम्भवादाह- अभेदोपचारादिति । 'गोपालकवस्त्येव" इत्यस्य स्थाने "गोपालदारकवस्त्वेव" इति पाठो युक्तः । तथा एवम् । अन्यार्थे यत्रार्थे इदानीन्तनपुरुषैः सङ्केतितं तद्भिन्नेऽर्थे । अवर्तमानमपि वाच्य. वाचकभावसम्बन्धेन वृत्तिविकलमपि, आधुनिकसङ्केतविषयीभूतार्थभिन्नार्थावाचकमपीति यावत् । किश्चित् परिमितम् , यादृच्छिकं स्वेच्छयैव केनापि पुरुषेणाभिनवव्यवहारप्रवृत्तये काष्ठमयहस्त्यादिवस्तुनि वाचकतया परिभावितम्, एतादृशं किमित्यपेक्षायामाह-डित्थडवित्थादिवचनमिति । चशब्दात् 'यादृच्छिकं च' इति चकारात् । इत्वरं यत्किञ्चिकालस्थायि, यावद्दव्यभावि च यावत्कालमभिधेयमवतिष्ठते तावत्कालमनुवर्तमानम्, तत् नाम, ग्राह्य ज्ञातव्यम् । ननु नामाऽभिधेयस्य विनाशेऽपि यावल्लोकानां व्यवहारः प्रवर्तते तावत्कालावस्थायित्वाद् यावत्कथिक सूत्रे भणितं तत् कथमित्यत आह-यत्विति । णामं जावकहियं नाम यावत्कथिकम् । तत् नाम्नो यावत्कथिकत्वकथनम्, प्रतिनियता या जनपदसंज्ञा-अमुकदेशविशेषस्यामुकनाम तामवलम्ब्य नाम्नो यावत्कथिकत्वकथनं सूत्रे इत्यर्थः। शङ्का-समाधानाभ्यां नामनिक्षेपत्य विशेषाऽवगतिं शिष्याणामाधातुं परस्य शङ्कामुत्थापयति-नन्वित्यादिना । 'अभिधीयते' इत्यस्य 'प्रतिपाद्यते' इत्यर्थः, तेन गङ्गापदेन गङ्गातीरस्य शक्त्या प्रतिपादनाभावेऽपि न क्षतिः। नाद्य इति- नामनिक्षेपस्य प्रवृत्तिरिति पक्षो न सम्भवतीत्यर्थः । निषेधे हेतुमाह- जाह्नव्यादीति- गङ्गातीरे घोष इत्यर्थावगतये यथा गङ्गायां घोष इति वाक्यं प्रवर्तते तथा जाहव्यां घोष इति भागीरथ्यां घोष इत्यादिवाक्यान्यपि प्रवर्तयितुं शक्यन्त एवेति जाह्वव्यादियों गङ्गापदस्य पर्यायस्तदभिधेयत्वेन - तत्प्रतिपाद्यत्वेन तत्र गङ्गातीरे नामनिक्षेपप्रवृत्त्यसम्भवात्- नामनिक्षेपलक्षणसन्निविष्टस्य पर्यायानभिधेयत्वस्य तत्राभावादित्यर्थः। तत्र निक्षेपान्तरप्रवृत्तिरिति द्वितीयविकल्पं प्रतिक्षिपति-नापि द्वितीय इति । निषेधे हेतुमाह-प्रसिद्धति- प्रसिद्धस्य निक्षेपान्तरस्य नामनिक्षेपभिन्नस्य स्थापना-द्रव्य-भावनिक्षेपत्रयस्याविषये तत्र गङ्गातीरेऽप्रसिद्धस्य- प्रसिद्धनामनिक्षेपादिचतुष्टयभिन्नस्य निक्षेपस्य कल्पने तदियत्तायाः-निक्षेपाश्चत्वार एवेत्येवं निक्षेपेयत्तायाः क्षतिप्रसङ्गादित्यर्थः । उकाशङ्कायां प्रतिविधानमाह-नेति। जत्यत्ति- " यत्र यं जानीयानिक्षेपं निक्षेपेन्निरवशेषम्" इति संतम। इत्यनेन इत्याविगाथावबनेन । यथापाजानं परिज्ञानमनतिक्रम्य । निक्षेपास्तरकल्पनायाः प्रसिद्धनिक्षेप