________________
२५८
नयामृततरकिणी-तरक्रिणीतरणिभ्या
पदेशः।
तेन तत्र-मङ्गलवादे द्रव्यार्थिके, त्रयं-नामादिनिक्षेपत्रयं प्रोक्तं, न तु सर्वथाभावानभ्युपगमाभिप्रायेण जलाहरणादिपरिणतिरूपभावघटस्य द्रव्यार्थि केनाप्यभ्युपगमादिति वयं जानीमहे, तथा च भाष्ये पूर्व शुद्धचरणरूपभावमङ्गलाधिकारप्रवृत्ते गमादिना जलाहरणादिरूपभावघटाभ्युपगमेऽपि घटोपयोगरूपभावघटानभ्युपगमात् तनिषेधोक्तिः, अग्रे तु व्यवस्थाधिकारात् विशेषोक्तिरिति न विरोध इति भावः, "जानीमहे " इत्यनेन स्वोत्प्रेक्षया सामान्यतो ज्ञातेऽप्यर्थे विशेषविवेके बहुश्रुताः प्रमाणमित्यभिव्यज्यते ॥ ८॥ उक्कं निक्षेपचतुष्टयम् , प्रसिद्धं घटमेवोदाहरणीकृत्य विवेचयन्नाह
तत्र नामघटः क्लुप्तो, घटनाम्ना पटादिकः।
तच्चित्रं स्थापना द्रव्यं, मृद्भावो रक्ततादिकः ॥ ८६ ॥ नयामृत-तत्रेति । तत्र-निक्षेपचतुष्टयमध्ये, घटनाम्ना क्लुप्तः पटादिकोऽपि नामघट उच्यते, नाम्ना घट इति व्युत्पत्तेः, तथा चैतल्लक्षणम्
"यद् वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥"
तेन पक्षान्तरे घटोपयोगरूपभावस्य द्रव्याथिकेऽनिष्टत्वेन । तत्रेति मूलस्य विवरणं-मङ्गलवादे द्रव्याथिके इति । त्रयमित्यस्य विवरणं-नामादिनिक्षेपत्रयमिति- नाम स्थापना-द्रव्यनिक्षेपत्रयम् , तत् किं घटोपयोगात्मकभावातिरिक्तो भावघटः पक्षान्तरेऽभ्युपगत एवेत्यपेक्षायामाह-न विति- सर्वथा भावानभ्युपगमाभिप्रायेण मङ्गलवादे द्रव्यार्थिंके नामादिनिक्षेपत्रयं न पुनः प्रोक्तमित्यर्थः। तत्रैव हेतुमुपदर्शयति-जलाहरणादीति- जलाहरणादिकार्यकारिपृथुबुध्नोदराद्याकारलक्षणा या मृदादेः परिणतिस्तद्रूपस्य भावघटस्य द्रव्यार्थिकनयेनाप्यभ्युपगमादित्येवं वयं यशोविजयवाचका जानीमहे- अवगच्छाम इत्यर्थः। तथा च पक्षान्तरे द्रव्यार्थिके उपयोगस्वरूपस्यैव भावघटस्यानभ्युपगमो न तु जलाहरणादिकार्यकारिपृथुबुनोदराद्याकारस्वरूपभावघटस्येति विवेके च। तन्निषेधोक्तिः द्रव्यार्थिके भावनिक्षेपनिषेधोक्तिः । अग्रे तु अग्रेतनभाष्ये पुनः। व्यवस्थाधिकारात् द्रव्यार्थिको निक्षेपेषु मध्ये अमुं निक्षेप स्वीकरोति पर्यायार्थिकश्चामुं निक्षेपमुररीकरोतीत्येवं व्यवस्थितिप्रयोजनतः। विशेषोक्तिः पर्यायार्थिको भावनिक्षेपमेव स्वीकरोति द्रव्यार्थिकश्च निक्षेपचतुष्टयमप्युररीकरोतीति विशेषावेदिकोक्तिः। इति एतस्माद् विवेकात् । न विरोधः भाष्यस्थितपूर्वोत्तरवचनयोर्न विरोधः । 'जानीमहे इत्यनेन' इत्यस्य 'अभिव्यज्यते' इत्यनेनान्वयः। किमभिव्यज्यत इत्यपेक्षायामाह- स्वोत्प्रेक्षयेति- एतद्रन्थकर्तृ. यशोविजयवाचकगतान्यातिशायिकल्पनाविशेषात्मकसम्भावनयेत्यर्थः। विशेषविविके इतोऽपि विशिष्टावगतिफलकविशेषविभजने । बहुश्रताः वयमपि बहुश्रुता एव तथाप्यस्मदपेक्षयाऽपि ये बहुश्रुता अनल्पसिद्धान्तोहापोहसमर्थास्त एव. विशेषविवेके प्रमाणमित्यर्थः ॥८५॥
षडशीतितमपद्यमवतारयति-उकं निक्षेपचतुष्टयमिति-अस्य 'विवेचयन् ' इत्यनेन सम्बन्धः । विवृणोतितत्रेतीति । तत्रेयस्य विवरण-निक्षेपचतुष्टयमध्य इति । घटनाम्ना क्लप्तः अयं घटशब्दादवगन्तव्य इत्येवमाधुनिकसङ्केतविषयीकृतः, पटादिकोऽपीत्यत्रापिरेवकारार्थे, तेन पटादिक एवेति तदर्थः, न तु समुच्चयार्थकत्वमस्य सम्भवति भावघटस्य घटशब्दपर्यायकलशकुटादिशब्दाभिधेयत्वेन नामघटत्वासम्भवात् । कथं पटादिको नामघट इत्यपेक्षायामाह-नाम्नेति- नाम्ना घटो नामघट इत्येवं नामघटस्य व्युत्पत्तनिर्वचनादित्यर्थः, पटादिकः केवलं नाम्नैव घटो जलाहरणादिलक्षणभावघटकार्यकारित्वाभावान वस्तुगत्या घट इत्यभिसन्धिः। तथा च निरुक्तव्युत्पत्त्याश्रयणेन पटादिकस्य नामघटवाच्यत्वव्यवस्थितौ च । एतल्लक्षणं नामनिक्षेपस्य लक्षणम् । नामनिक्षेपलक्षणप्रतिपादकस्य “यद् वस्तुनो. ऽभिधानं०" इत्यादिपद्यस्यार्थमुपदर्शयति-अयमिति-अनन्तरमेवाभिधीयमान इत्यर्थः। अभिधानमित्यस्यार्यकथनं