SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तर्रा रङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । भयावच्छिन्नदण्ड निष्ठप्रकारताभिन्नाया रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्नप्रकारताया आनुभविकत्वात् । किञ्च, 'रक्तदण्डवान्' इत्यादिवाक्यादयुगपदुपस्थितस्त्रघटका खिलपदार्थाज्जायमानाया अनन्वितान्वयबुद्धेः ' रक्तो दण्डो दण्डवान् पुरुषः ' इति वाक्यजसमूहालम्बनावैलक्षण्ये ' रक्तदण्डाभाववान् ' इत्यादिबाधधीकालेऽप्युत्पत्त्यापत्तिरिति तत्प्रतिबध्यतावच्छेदकतयैव तत्सिद्धिः, उक्तबाधधियो रक्तरूपत्वावच्छिन्नप्रकारतानिरूपित शुद्धदण्डत्वावच्छिन्नप्रकारतानिरूपित पुरुषत्वावच्छिन्न विशेष्यताकधियैव प्रतिबध्यत्वात्, विशिष्टवैशिष्ट्यविषयताया बाधप्रतिबध्यतावच्छेदकत्वे उक्तस्थल एव अनुपपत्तेः । अपि केवलदण्डत्वावच्छिन्नैव न तु रक्तरूपावच्छिन्न ऽपि उपलक्षणधर्मस्य प्रकारत्वमेव स्वीक्रियते, 'विशेष्ये विशेषणं तत्र च विशेषणान्तरम्' इति ज्ञाने च विशेषणान्तरस्योपलक्षणत्वमेवेत्येवं विशिष्टवैशिष्ट्या वगाहिज्ञानीय प्रकार तालक्षणविषयतातो ' विशेष्ये विशेषणम्' इति ज्ञानीयप्रकार तालक्षणविषयताया भेदः, समूहालम्बने तु पुरुषनिष्ठविशेष्यतानिरूपितदण्ड निष्टप्रकारता रक्तरूपावच्छिन्नप्रकार तानिरूपिताऽपि न भवतीति तस्या निरुक्तज्ञानद्वय निरूपितप्रकारताभ्यामत्यन्तमेव वैलक्षण्यम्, तादृशी च प्रकारताऽनुभूयमाना नापलपितुं शक्येत्यावेदनाय 'आनुभविकत्वाद्' इत्युक्तमिति । अपि च 66 यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते । तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते " ॥ १ ॥ [ ] इति वचनात् खण्डवाक्यार्थबोधानन्तरं महावाक्यार्थबोध इत्येकेषां मतम्, तन्मते प्रथमं 'रक्तो दण्डः इत्यकारको बोधः, तद्रूपविशेषणतावच्छेदकप्रकारज्ञानबलात् तदनन्तरं जायमाने 'रक्तदण्डवान् पुरुषः' इति ज्ञाने रक्तत्वविशिष्टदण्डस्य वैशिष्टयं पुरुषे भासत इति युज्यते पुरुषनिष्टविशेष्यतानिरूपितदण्डनिष्टप्रकारतायां रक्तत्व दण्डत्वो भयावच्छिन्नत्वम् । यदा तु " वृद्धा युवानः शिशवः कपोताः खले यथाऽमी युगपत् पतन्ति । तथैव सर्वे युगपत् पदार्थाः परस्परेणान्वयिनो भवन्ति " 11911 [ ] इति वचनात् ' रक्तदण्डवान् पुरुषः' इति वाक्याद् युगपदुपस्थितस्व घटका खिलपदार्थांज्जायते ' रक्तदण्डवान् पुरुषः' इति शाब्दबोध इति मतमाश्रीयते तन्मते न खण्डवाक्यार्थबोधानन्तरं महावाक्यार्थबोधः, किन्तु प्रथमत एव महावाक्यार्थबोध आविरस्ति तदा विशिष्टवैशिष्ट्यावगाहिबोधकारणस्य विशेषणतावच्छेदकप्रकारकनिश्चयस्य पूर्वमभावात् तस्मिन् बोधे रक्तत्वविशिष्टदण्डस्य वैशिष्टयं पुरुषे न भासते, किन्तु उपस्थित्यात्मकविशेषण ज्ञानरूपकारणबलाद् 'विशेष्ये विशेषणम्' इति रीत्यैव बुद्धिरुपजायते, तस्यां च दण्डत्वावच्छिन्नप्रकारता रक्तरूपत्वावच्छिन्नप्रकारतानिरूपिता भवति, न तु रच रूपत्वावच्छिन्नावच्छेदकता निरूपिता, तस्याश्च बुद्धे रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितशुद्धदण्डत्वावच्छिन्न प्रकारता निरूपित पुरुषत्वावच्छिन्न विशेष्यताक बुद्धित्वरूपस्य 'रक्तदण्डाभाववान् पुरुषः इत्यादिबाधनिश्चयप्रतिबध्यतावच्छेदकधर्मस्यास्पदत्वेन निरुक्तबाधकालेऽनुत्पत्तिर्निर्वहति, यदि चोत्तबुद्धेः 'रक्तो दण्डो दण्डवान् पुरुष:' इति वाक्यजन्यसमूहालम्बनबुद्धितो वैलक्षण्यं न भवेत् न तदा निरुक्तबाधबुद्धिप्रतिबध्यतावच्छेदको क्तधर्माक्रान्ततेत्युक्तबाधबुद्धिकालेऽप्युत्पत्तिरापद्येत, अत एव चोक्तबाधबुद्धेर्न रक्तरूप दण्डत्वोभयावच्छिन्नदण्ड निष्टप्रकार तानिरूपितपुरुषत्वावच्छिन्नविशेष्यता कबुद्धित्वं विशिष्टवैशिष्टयबोधमात्रगतं प्रतिबध्यतावच्छेदकमित्याह- किश्चेति । ' वाक्यादयुगपदुपस्थिता' इति स्थाने ' वाक्याद् युगपदुपस्थिता ' इति पाठो युक्तः । अनन्वितान्वयबुद्धेरिति - पूर्वमनन्विततयोपस्थितानां पदार्थानामन्वयबुद्धेरित्यर्थः, एतेन विशिष्टवैशिष्ट्यबोधकारणस्य विशेषणतावच्छेदकप्रकारकनिश्चयस्य पूर्वमभावान्नास्या विशिष्ट वैशिष्टयबुद्धित्वमित्या वेदितम् अस्या: समूहालम्बनावैलक्षण्ये ' इत्यत्र 'उत्पत्त्यापत्तिः ' इत्यत्र चान्वयः । तत्प्रतिबध्यतावच्छेदकतयैव ' रक्तदण्ड | भाववान्' इत्यादिबाधधी प्रतिबध्यतावच्छेकतयैव । तत्सिद्धिः रक्तत्वावच्छिन्न प्रकारतानिरूपितशुद्ध दण्डत्वावच्छिन्न दण्डनिष्ठप्रकारतायाः सिद्धिः, तथातत्सिद्धिमेव भावयति उक्तबाधधिय इति - ' रक्तदण्डाभाववान्' इत्यादिवाधधिय इत्यर्थः अस्य ' प्रतिबध्यत्वाद्' इत्यनेनान्वयः अस्य प्रतिबध्य प्रतिबन्धकभावादित्यर्थः । 'धियैव' इत्यस्य धिया सहैवेत्यर्थः, 'प्रतिबध्यत्वाद् इत्यस्य यथाश्रुतार्थपरत्वे तु ' धियैव ' इति स्थाने ‘ धीत्वेनैव ' इति पाठो युक्तः । विशिष्टवैशिष्ट्यविषयतायाः रक्तरूप दण्डत्वोभयावच्छिन्न दण्डनिष्ठप्रकारतानिरूपित पुरुषत्वावच्छिन्न विशेष्यतायाः । उक्तस्थल एव ' रक्तदण्डवान्' इत्यादिवाक्याद्युगपदुपस्थितस्व घटका खिलपदार्थाजायमानायां ' विशेष्ये विशेषणम्' इत्यादिरीत्या बुद्धावेव । अनुपपत्ते ' रक्तदण्डाभाववान्' इत्यादिबाधबुद्धिप्रतिबध्यत्वानुपपत्तेः । यदि च प्रथमं विशेष्ये विशेषणम्' इति रीत्योक्तवाक्यादन्वयबोधः ' अनन्तरं विशिष्टवैशिष्ट्या वगाहिमानसबोध उपजायते, तद्विषयताया रक्तरूपत्वावच्छिन्नप्रकार तानिरूपित शुद्धदण्डत्वावच्छिन्नप्रकार तानिरूपित पुरुषत्वावच्छिन्न ८० f
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy