________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
च विशकलितज्ञानाद् व्यापकविषयताशालिमानसस्वीकारेण तत्साधारण्येनैव प्रतिबध्यत्वं युक्तिमत् । अथैवं ' दण्डो रक्तो नवा ?' इति संशयकाले उक्तवाक्याद् ( विशेष्ये विशेषणम् ' इति रीत्याऽन्वयबोधापत्तिरिति चेत् ? न - प्रथम मिष्टत्वात्, अनन्तरं च ' विशिष्टस्य वैशिष्ट्यम्' इति रीत्याऽन्वयधियः सम्भवात् तदनुभवोऽप्यविरुद्धः, प्रात्यक्षिकी बुद्धिरप्युक्तसंशयकाले रक्तत्वांशे संशयाकारा इष्टैव । यत् तु' घट-पटत्वादिनिर्विकल्पोत्तरं 'घटवद्' इत्यादिधीः ' विशेष्ये विशेषणम्' इति रीत्या जायते, इति, विशेष्यतात्वाभावेन निरुक्तप्रतिबध्यतावच्छेदकत्वाभावान्न तादृशमानसस्योक्तबाधबुद्धिप्रतिबध्यत्वं स्यादिति निरुक्तबाधधीकालेऽपि तादृशमानस बुद्धयापत्तिरिति विभाव्यते, तदोक्त प्रतिबध्यतावच्छेदकप्रविष्टशुद्धदण्डत्वावच्छिन्न प्रकारतास्थाने दण्डत्वावच्छिन्नप्रकारतेत्येव वाच्यम्, दण्डत्व- रक्तरूपोभयावच्छिन्न प्रकारताऽपि दण्डत्वावच्छिन्नप्रकारता भवत्येव, अवच्छेदकीभूतस्यापि रक्तत्वस्य प्रकारत्वं भवत्येवेति तस्यां रक्तरूपत्वावच्छिन्नप्रकारतानिरूपितत्वमपीत्येकेनैव तेन रूपेण 'विशेष्ये विशेषणम् ' इति रीत्या ज्ञानस्य विशिष्टवैशिष्टयावगाहिनश्वोक्त बाधबुद्धिप्रतिबध्यत्वं सुसङ्गतमेवेत्याशयेनाह - अपि चेति ।
विशकलितज्ञानात् ' विशेष्ये विशेषणम् ' इति रीत्या ज्ञानात् । व्यापकविषयेति - विशिष्टवैशिष्टय.
८१
विषयतेत्यर्थः, विशिष्टवैशिष्ट्यं सर्वमपि विशकलितं स्वघटकत्वेन व्याप्नोतीति तद्विषयताया व्यापकविषयतात्वं बोध्यम् । तत्साधारण्येनैव विशिष्टवैशिष्ट्यविषयताशालिमानसबोध साधारण्येनैव । प्रतिवध्यत्वं बाधबुद्धिप्रतिबध्यत्वम्, एतेनानुमितेरपि विशिष्टवैशिष्टयबोधरूपाया उक्तबाधबुद्धिप्रतिवध्यत्वं निर्वहतीति बोध्यम् । < ननु रक्तदण्डवान् पुरुष:' इत्यादिवाक्याद् ' विशेष्ये विशेषणम्' इति रीत्या बोधस्याभ्युपगमे तं प्रति विशेषणज्ञानस्यैव कारणत्वम्, न तु विशेषणतावच्छेकप्रकारकनिश्चयस्य तत्त्वमिति ' दण्डो रक्तो नवा ?' इति संशयानन्तरमप्युक्तवाक्यात् तथाबोधापत्तिः संशयरूपस्य विशेषण ज्ञानस्य सत्त्वात्, रक्तत्वप्रकार कदण्डविशेष्यकनिश्चयलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयस्यानपेक्षणा दिति शङ्कते - अथेति । एवम् उक्तदिशा 'विशेष्ये विशेषणम्' इति रीत्या ज्ञानस्य समर्थने । संशयकाले संशयोत्पत्तिद्वितीयक्षणे, विशेषणतावच्छेदकप्रकारकनिश्चयाभावे उक्तवाक्याद् ' दण्डो रक्तो नवा ?' इति संशयद्वितीयक्षणे 'विशेष्ये विशेषणम्' इति रीत्या बोधो जायत एव तादृशबोधलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयतश्च 'विशिष्टस्य वैशिष्टयम् ' इति रीत्याऽन्वयबोधोऽप्युपजायते, अत एव तथाविधान्वयबोधानुभवोऽपि न विरोधमधिवसतीति समाधत्ते - नेति । प्रथमं ' विशिष्टस्य वैशिष्टयम्' इति रीत्याऽन्वयबोधोत्पत्तेः प्राक्क्षणे । इत्वात् ' विशेष्ये विशेषणम्' इति रीत्या बोधस्याभ्युपगतत्वात्, तथा च ' दण्डो रक्तो नवा ? ' इति संशयानन्तरमुक्तवाक्याद् 'विशेष्ये विशेषणम्' इति रीत्या बोधापादनमिष्टापत्तिरूपत्वान्न दोषावहमिति भावः । अनन्तरं च ' विशेष्ये विशेषणम्' इति रीत्या बोधानन्तरं पुनः । तदनुभवोऽपि विशिष्टवैशिष्टयबोधानुभवोऽपि यथा च ' दण्डो रक्तो नवा ?' इति संशयानन्तरं 'रक्तदण्डवान् पुरुष:' इत्यादिवाक्याद् ' विशेष्ये विशेषणम्' इति रीत्याऽन्वयबोधो भवति, तथोक्तसंशयानन्तरं 'रक्तदण्डवान् पुरुषः इति प्रत्यक्ष बोधोऽप्युपजायते, स च रक्तत्वांशे संशयरूप इत्याह- प्रात्यक्षिकी बुद्धिरपीति । घट-घटत्वयोर्निर्विकल्पकज्ञानानन्तरं 'घट:' इति ज्ञानम्, तदनन्तरं घटत्वविशिष्टघटस्य वैशिष्टयावगाहि घटवद्' इत्यादि ज्ञानं भवतीति वस्तुस्थितिः, तत्र केचिद् घट-घटत्वयोर्निर्विकल्पक ज्ञानानन्तरमेव घटवद्' इति ज्ञानं भूतले घटस्तत्र घटत्वमित्येवं रीत्याऽभ्युपगच्छन्ति, तन्मतं दूषयितुमुपन्यस्यति यत् त्विति । भूतलादिनिष्ठविशेष्यतानिरूपिता या घटनिष्ठप्रकारता सा तैः सावच्छिन्नाऽभ्युपेयते ? निरवच्छिन्ना ?, तत्रान्त्यविकल्पो न सम्भवति, 'जात्यखण्डोपाध्यतिरिक्तस्य किञ्चिद्रूपेणैव भानम् ' इति नियमेन जात्यखण्डोपाध्यतिरिक्तघटनिष्ठप्रकारताया निरवच्छिन्नत्वासम्भवात् उक्तनियममनादृत्य घटनिष्ठप्रकारताया निरवच्छिन्नत्वोपगमस्त्व पसिद्धान्त कवलितत्वादेव परीक्षकाणामनादेयः, ' विशेष्य विशेषणम्' इति रीत्या ज्ञाने चासंसर्गग्रहस्य प्रतिबन्धकत्वं तदभावस्य च - प्रतिबन्धकाभावविधया तत्र कारणत्वम्, न च निरखच्छिन्न घटनिष्ठ प्रकारताकज्ञानस्य कस्यचित् प्रतिबध्यत्वमिति तादृशज्ञानविरोधी नासंसर्गग्रहः सम्भवतीति तदभावरूपकारणाभावादपि तथाबोधो न सम्भवति, निर्विकल्पक ज्ञानरूपविशेषणज्ञानाच्च घटत्वादिनिष्ठप्रकारताकघटनिष्ठनिवच्छिन्न विशेष्यताक ज्ञानस्वरूप ' घटः ' इत्येव ज्ञानमुपजायते न तु निर्विकल्पात्मकं ज्ञानं ' विशेष्ये विशेषणम्' इति रीत्या जायमानज्ञाने विशेषणज्ञानविधया कारणम्, किन्तु तत्र सप्रकारकमेव विशेषणज्ञानं कारणमिति निर्विकल्पात्मकविशेषणधियो ' विशेष्ये विशेषणम्' इति रीत्या ज्ञानेऽहेतुत्वाच न ततो निरवच्छिन्नघटनिष्ठप्रकार ताक बोधसम्भवः; घटनिष्टप्रकारता सावच्छिन्नेति प्रथमपक्षाभ्युपगमे तु
,
११