SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । वच्छेदकप्रकारकनिश्चयत्वाभ्यां हेतुता, इतरद्वये तु विशेषणज्ञानाऽसंसर्गग्रहयोर्विशेष्ये विशेषणमितिरीत्या बुद्धित्वं रक्तत्वाद्यवच्छिन्नप्रकारतानिरूपितदण्डत्वाद्यवच्छिन्नप्रकारताकबुद्धित्वम् , तेन 'दण्डो रक्तो दण्डवान् पुरुषः' इति समूहालम्बने नातिप्रसङ्गः, तत्र दण्डत्वावच्छिन्नप्रकारताया रक्तत्वावच्छिन्नप्रकारताऽनिरूपितत्वात् न च विशिष्ट वैशिष्ट्य विषयतास्वीकारे 'रक्तदण्डवान्' इत्यत्र 'विशेष्ये विशेषणम्' इति विषयतायां ' दण्डो रक्तो दण्डवान् पुरुषः' इतिसमूहालम्बनव्यावृत्तायां मानाभावः, रक्तरूप दण्डत्वो. बुद्धित्वम् । 'विशेषणशानासंसर्गग्रहयोः' इत्यस्य स्थाने 'विशेषणज्ञाना संसर्गाग्रहयोः' इति पाठो युक्तः। विशेष्ये विशेषणमिति रीत्या बुद्धित्वं विशेषतः परिष्कृत्य दर्शयति-रक्तत्वाधवच्छिन्नेति-- विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति रीत्या जायमानायां 'रक्तदण्डवान् पुरुषः' इति बुद्धौ पुरुषत्वावच्छिन्नविशेष्यता दण्डत्वावच्छिन्नप्रकारतानिरूपिता, दण्डत्वावच्छिन्नप्रकारता च रक्तत्वावच्छिन्नप्रकारतानिरूपितेति रकत्वावच्छिन्नप्रकारतानिरूपितदण्डत्वावच्छिन्नप्रकारताकबुद्धित्वं तत्र वर्तते इति, यद्यपि प्रकारतात्वेन विशेष्यतात्वेनैव च निरूप्यनिरूपकभावो न तु प्रकारतास्वेन निरूप्यनिरूपकभाव इति रक्तत्वावच्छिन्नप्रकारतानिरूपिता दण्डत्वावच्छिन्नविशेष्यतैव स्यात् , न तु दण्डत्वावच्छिन्नप्रकारतेति नोक्तबुद्धित्वं कुत्रापि सङ्गतिमङ्गति, तथापि अनन्तराभासमानसमानाधिकरणकज्ञानीयविषयत्वयोर्गदाधरमतेऽवच्छेद्यावच्छेदकभावो जगदीशमते च तयोरभेद इति तत्र जगदीशमते पुरुषत्वावच्छिन्नविशेष्यतानिरूपिता या दण्डत्वावच्छिन्नप्रकारता, या च रक्तत्वावच्छिन्न प्रकारतानिरूपिता दण्डत्वावच्छिन्नविशेष्यता तयोरक्याद् दण्डत्वावच्छिन्नविशेष्यताया रक्तत्वावच्छिन्नप्रकारतानिरूपितत्वे तदभिन्नाया दण्डत्वावच्छिन्नप्रकारताया अपि रक्तत्वावच्छिन्नप्रकारतानिरूपितत्वमिति भवत्युक्तबुद्धित्वस्य स्त्र सङ्गतिः, यदि च्च रक्तत्वावच्छिन्नप्रकारतानिरूपितत्वस्य दण्डत्वावच्छिन्नप्रकारतायामन्वयेऽन्वयितावच्छेदकस्य दण्डत्वावच्छिन्न प्रकारतात्वस्यैव तन्निरूप्यताया अवच्छेदकत्वं प्रतीयेत न च प्रकारतात्वं प्रकारतानिरूप्यतावच्छेदकं प्रकारत्व-विशेष्यत्वयोरभेदेऽपि विशेष्यतात्वेनैव प्रकारत्वस्य प्रकारतानिरूपितत्वेन विशेध्यतात्वस्यैव प्रकारतानिरूप्यतावच्छेदकत्वादिति विभाव्यते तदा रक्तत्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वाऽभिन्नदण्डत्वावच्छिन्नप्रकारताकबुद्धित्वमेव विशेष्ये विशेषणमिति र त्या बुद्धित्वमिति बोध्यम् । तेन उक्तप्रकारेण विशेष्ये विशेषणमिति रीत्या बुद्धित्वस्य निर्वचनेन, अस्य 'नातिप्रसङ्गः' इत्यनेनान्वयः, यथाश्रुते 'दण्डो रक्को दण्डवान् पुरुषः' इति समूहालम्बनज्ञानेऽपि विशेष्य पुरुषे दण्डो भासते, दण्डे च रत्तत्वं भासत इति तस्यापि । 'विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वं प्रसज्यत इत्यर्थः । तत्र 'दण्डो रक्तो दण्डवान् पुरुषः' इति समूहालम्बन ज्ञाने । दण्डत्वावच्छिन्नप्रकारताया इति- 'रक्तदण्डवान् पुरुषः' इति ज्ञाने यथादण्डः पुरुष प्रकारो दण्डे च रक्तरूपवत्त्वं प्रकार इति दण्डगतप्रकारत्वविशेष्यत्वयोरभेदाद् विशेष्यतात्वेन रूपेण दण्डनिष्ठप्रकारताया रक्तरूपवत्त्वनिष्टप्रकारतानिरूपितत्वमिति रक्तरूपवत्त्वाद्यवच्छिन्न प्रकारतानिरूपितदण्डत्वाद्यवच्छिन्न प्रकारताकबुद्धित्वलक्षणं विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वं समस्ति, न तथा 'दण्डो रक्तो दण्डवान् पुरुषः' इति समूहालम्बनज्ञाने, तदीयदण्डनिष्टप्रकारत्व विशेष्यत्वयोरनन्तराभासमानत्वाभावेनाभेदाभावाद् दण्डनिष्टविशेष्यत्वस्यैव रक्तत्वनिष्टप्रकारतानिरूपितत्वं न तु पुरुषनिष्ठविशेष्यतानिरूपितदण्ड निष्ट प्रकारतायास्तत्त्वमिति नोक्तलक्षणस्य 'विशेष्ये विशेषणम्' इति रीत्या बुद्धित्वस्य तत्र प्रसङ्ग इत्यर्थः । ननु रकत्वविशिष्टदण्डस्य पुरुष यद् वैशिष्ट्यं तद्विषयकत्वेनैव 'रक्तदण्डवान् पुरुषः' इति ज्ञानमनुभूयते, तत्र यदि विशिष्टस्य यद् वैशिष्टयं तद्विषयकत्वं नाभ्युपेयते तदा 'विशेष्ये विशेषणम्' इति रीत्या विषयतायां मानाभावात् तज्ज्ञानस्य समूहालम्बनज्ञानव्यावृत्तविषयताकत्वाभावात् ततोऽवैलक्षण्यप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति न चेति । 'विषयतास्वीकारे' इत्यत्र 'विषयताऽस्वीकारे' इत्याकारप्रश्लेषः । रक्तरूपविशिष्टदण्डस्य वैशिष्टयावगाहिनि 'रक्तदण्डवान् पुरुषः' इति ज्ञाने रक्तरूपदण्डत्वोभयावच्छिन्नदण्डनिष्ठप्रकारतानिरूपितपुरुषनिष्टविशेष्यताकत्वमनुभूयते, पुरुषे दण्डो दण्डे च रक्तत्वमित्येवं 'विशेष्ये विशेषणं तत्र च विशेषणान्तरम्' इति रीत्या जायमाने 'रक्तदण्डवान् पुरुषः' इति ज्ञाने तु रक्तत्वावच्छिन्नप्रकारतानिरूपित. शुद्धदण्डत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकत्वमनुभूयते, न च तादृश विशेष्यताकत्वं समूहालम्बने इत्येवमनुभवलक्षण्यस्यैवात्र प्रमाणस्य सद्भावादिति निषेधहेतुमुपदर्शयति-रक्तरूपेति । तथा च रक्तत्वविशिष्टदण्डस्य पुरुष वैशिष्ट्यभाने पुरुषनिष्ठविशेष्यतानिरूपिता या दण्डनिष्ठप्रकारता सा रक्तत्वावच्छिन्नप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यस्वाभिन्ना दण्डत्वनिष्ठप्रकारतानिरूपित-निरवच्छिन्नदण्डनिष्टविशेष्यत्वाभिन्ना रक्तत्व-दण्डत्वोभयनिष्टावच्छेदकतानिरूपिता च भवति, विशेष्ये विशेषणम् ' इति रीत्या जायमाने तु यद्यपि दण्डनिष्ठप्रकारता निरुक्तविशेष्यताद्वयाभिन्ना तथापि सा
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy