________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
सखण्डानां च नानाप्रकारता-विशेष्यता-सांसर्गिकविषयतानां परनिरूपितानां शुद्धानां चानुलोमप्रतिलोमभावेन समानसंविसंवेद्यतानियामकवैचित्र्यशालिनीनां च बहवीनामनुभावात् , अत एव" सावजजोगविरओ तिग्गुत्तो छसु संजओ। उवउत्तो जयमाणो आया सामाइयं होइ" ॥
]त्ति । सप्तनयात्मकमहावाक्यार्थजज्ञाने एकाविशिष्टा प्रमाणाकारता, अनेकाश्चांशिक्यो नयविषयताः परस्परसंयोगजाश्च बढ्योऽनुभूयन्ते ।
नैयायिका स्तु-विशेष्ये विशेषणं तत्र च विशेषणान्तरम् १, विशिष्टस्य वैशिष्ट्यम् २, एकविशिष्टेऽपरवैशिष्ट्यम् ३, एकत्र द्वयम् ४ इत्येवं चतुर्धा विशिष्टवैशिष्ट्यबुद्धिः, तत्र मध्यमद्वये विशेषण-विशेष्यताविशेष्ययोः सम्बन्धे विषयता संसर्गतापदवाच्या, प्रकारत्वादिकं प्रकारतादिनिरूपितावच्छेकत्वाख्यविषयताया अप्युपलक्षणम् , प्रकारता-विशेष्यत्व-संसर्गत्वानां परस्परनिरूपकभावाङ्गीकारात् परनिरूपितत्वं यद्यप्यस्ति तथापि यत्र यत्र निरूपितत्वं तत्र तत्र स्वनिरूपितत्वं न भवत्येव किन्तु, परनिरूपितत्वमेवेत्यव्यावर्तकत्वात् 'पर' इति नोपादेयमेव स्यात्, परस्परनिरूपितानामिति तु स्यादपि, यतो निरूपितत्वमेकस्य निरूपकत्वमपरस्य निरूप्यत्वमिति कृत्वाऽपि भवति, तत्र यदपेक्षया निरूपितत्वं यस्य तदपेक्षया निरूपकत्वमपि तस्येति निरूपितत्वमात्रोक्त्या न लभ्यते परस्परनिरूपितानामित्युक्तया च लभ्यत इति, तथापि शुद्धानां चेत्यत्रापि चकारान्नानाप्रकारता-विशेष्यता सांसर्गिकविषयतानामेवानुकर्षः स्यात्, न च तासां शुद्धत्वं परस्परनिरूप्यनिरूपकभावरहितत्वरूपं सम्भवति, परस्परनिरूपितानामित्यनन्तरमुक्तस्य शुद्धानामित्यस्य परस्परनिरूपितत्वविरोधिस्वरूपस्यैव शुद्धत्वस्यार्थत्वं भवितुमर्हतीत्यन्यादृशस्य शुद्धत्वस्य वक्तुमशक्यत्वमेव, ततः परनिरूपितानामित्येव पाठो युक्तः, 'परनिरूपितानाम्' इत्यनेन पारतन्त्रीयाणां प्रकारतादीनां ग्रहणम् , यथा तद्धर्मविशिष्टे भासमानं सत् तत्रापि सामानाधिकरण्येन भासत इति नियमात् पर्वतत्वविशिष्टे भासमानो वह्निः पर्वतत्वेऽपि सामानाधिकरण्येन भासत इति पारतन्त्रीया या वह्निनिष्टप्रकारता पर्वतत्वनिष्टविशेष्यता सामानाधिकरण्यनिष्ठसांसर्गिकविषयता सा सर्वा पर्वते वह्निभानप्रयुक्त पर्वतत्वे वह्निमानसापेक्षत्वात् परनिरूपिता, स्वातन्त्रीया तु या प्रकारतादिका विषयता सा निरुक्तसापेक्षत्वाभावाच्छुद्धेति । अनुलोमेति- अनुलोम-प्रतिलोमभावेन या समानसंवेद्यता तन्नियामकं यद् वैचित्र्यं तच्छालिनीनामित्यर्थः, तत्रानुलोमभावेन समानसंवेद्यत्वम् , यथा वह्नित्वविशिष्टस्य पर्वते भाने वह्नित्वस्यापि तत्र स्वाश्रयसंयोगेन भानमित्येवं वह्निवैशिष्ट्यवह्नित्ववैशिष्ट्ययोः समानसंवित्सवेद्यत्वम् , प्रतिलोमभावेन समानसंवेद्यत्वम् , यथा-पर्वते संयोगेन वह्निः प्रकारतया भासत इति वावपि पर्वतः संयोगसम्बन्धावच्छिन्नाधेयतासम्बन्धेन भासते. एवं वहित्वं स्वाश्रयसंयोगसम्बन्धन पर्वते भासत इति वह्नित्वेऽपि पर्वतः स्वाश्रयसंयोगसम्बन्धावच्छिन्नाधेयत्वसम्बन्धेन भासते, एवं वह्निः पर्वतत्वे सामानाधिकरण्यसम्बन्धेन भासत इति सामानाधिकरण्यसम्बन्धावच्छिन्नाधेयतासम्बन्धेन पर्वतत्वं वह्नौ भासत इत्येवं प्रतिलोमभावेन समानसंवित्संवेद्यत्वम् , तन्नियामकं यत् स्वातन्त्र्य-पारतन्त्र्यलक्षणवैचित्र्यम् , तच्छालिनं नां बह्वीनां विषयतानामनुभवाज्ज्ञानेऽपि चित्रस्वभावत्वमित्यर्थः। अत एव ज्ञाने एकाकारताया अनेकविषयत्वानां च भावतश्चित्रस्वभावत्वस्यानुभवसिद्धत्वादेव । सावज इति- “ सावद्ययोगविरतस्त्रिगुप्तः षदसु संयतः। उपयुक्तो यतमान आत्मा सामायिकं भवति"॥ इति संस्कृतम् । इति एवंस्वरूपसप्तनयात्मकमहावाक्यार्थजज्ञाने, एका अविशिष्टा अखण्डस्वरूपा प्रमाणाकारता अनेकाश्चांशिक्योंऽशेषु वर्तमाना नयविषयताः, परस्परसंयोगजाश्च नयद्वय-नयत्रयादिसंयोगजाश्च बह्वयो विषयता अनुभूयन्त इत्यर्थः ।
प्रसङ्गाद् विशिष्टवैशिष्ट्यबोधविचारमधिकृत्य तत्र नैयायिकानां मतमुपदर्शयति-नैयायिकास्त्विति । तत्र निरुकेषु विशिष्टवैशिष्ट्यबोधस्य चतुष्प्रकारेषु मध्ये । मध्यमद्वये विशिष्टस्य वैशिष्ट्यमित्येवं विशिष्टवैशिष्ट्यबोधे एकविशिष्टेऽपरस्य वैशिष्ट्यमित्येवं विशिष्टवैशिष्टयबोधे च । विशेषणेति- विशिष्टस्य वैशिष्ट्यमित्येवं विशिष्टवैशिष्टयबोधे विशेषणतावच्छेदकप्रकारकनिश्चयत्वेन हेतुत्वम् , एकविशिष्टेऽपरवैशिष्ट्यमित्येवं विशिष्टवैशिष्ट्यबोधे विशेष्यतावच्छेदकप्रकारकनिश्चयत्वेन हेतुत्वमित्यर्थः । इतरद्वये तु विशेष्ये विशेषणं तत्र च विशेषणान्तरमित्येवं विशिष्टवैशिष्ट्यबोधे, एकत्र द्वयमित्येवं विशिष्टवैशिष्ट्यबोधे पुनः । विशेषणेति एकत्र द्वयमित्येवं विशिष्टवैशिष्ट्यबुद्धपक्षे किं कार्यतावच्छेदकं किं च तत्कारणमिति विचारोऽग्रे उपदर्शयिष्यते, इदानीं विशेष्ये विशेषण तत्र च विशेषणान्तरमित्येवं विशिष्टवैशिष्टयबुद्धिपक्षे कारणं कार्यतावच्छेदकं चावेदयति, विशेषण ज्ञानमसंसर्गाग्रहश्च तत्र कारणम्, तयोः कार्यतावच्छेदकं विशेष्ये विशेषणमिति रीत्या