________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
त्पत्तिशालिनाम्, विनोद :- सम्यग्नयार्थ व्युत्पादकत्व परामर्शजनितः प्रशंसा - पुलकोद्भेदादिव्यङ्ग्यः प्रमोदः, तदर्थम् । न चाज्ञखेद -खलपीडाद्यनुबन्धित्वेनास्य तुल्याऽऽय-व्ययत्वादकामत्वम्, तद्दोषापेक्षयाऽस्य गुणस्यानन्तगुणोत्कृष्टत्वात्, तदाहुः श्रीहरिभद्राचार्याः प्रथमविंशतिकायाम् -
" इक्को उण इह दोसो, जं जायइ खलजनस्स पीडति ।
तह विपयट्टो इत्थं, दहुं सुयणाण मइतोसं " ॥ १ ॥ [
]ति ।
इदमुपलक्षणम्, 'बालानां व्युत्पत्तये' इत्यपि द्रष्टव्यम्, बालव्युत्पत्ते-रेव सर्वत्र ग्रन्थप्रयोजनत्वात्, बालश्चात्राधीतान्यतर्कः सम्यगनभ्यस्तनय प्रमाणविभागो द्रष्टव्यः, इतरस्यानधिकारित्वात् " नाऽत्यततदज्ञो नातदज्ञः स एवाधिकारवान् " [ ] इति श्रवणात् ॥ १ ॥ तत्रादौ नयलक्षणं तत्त्वस्वरूपोपपत्तिं चाह -
६
सत्त्वाऽसत्त्वाद्युपेतार्थेष्वपेक्षावचनं नयः ।
न विवेचयितुं शक्यं विनाऽपेक्षां हि मिश्रितम् ॥ २॥
नया सवासवेति- सत्वाऽसत्त्वादयो ये धर्माः, आदिना नित्याऽनित्यत्व-भेदाऽभेदादि
धारणम्, तच्छालिनाम्- तद्वतामित्यर्थः । सम्यगिति - 'अयं नयोपदेशः सम्यग् नयार्थव्युत्पादक ः' इत्या कारकनिर्णयजनित इत्यर्थः । ननु यथैतद्भन्थात् सुधियां प्रमोदस्तथाऽतिमूढानामुपाध्यायादिसकाशादध्ययनेनाप्येतदर्थं विज्ञातुमयोग्यानां खेदः, परगुणद्वेषिणां खलानां चैतदपूर्वग्रन्थदर्शनतः पीडैव भविष्यतीत्येकस्योपकारकत्वमन्यस्यापकारत्वमित्येवं तुल्याऽऽयव्ययान्न काम्योऽयं प्रन्थ इत्याशङ्कय प्रतिक्षिपति - न चेति - अनुबन्धित्वेन कारणत्वेन । अस्य नयोपदेशस्य । निषेधे हेतुमाहतदोषापेक्षयेति- अज्ञखेदजनकत्व - खलपीडादिजनकत्वलक्षणदोषापेक्षयेत्यर्थः । अस्य गुणस्य सुधीप्रमोदजनकत्व
लक्षणगुणस्य ।
उक्तार्थे श्रीहरिभद्राचार्यवचनसंवादमाह - तदाहुरिति । इक्को० इति - " एकः पुनरिह दोषो यज्जायते खलजनस्य पीडेति । तथाऽपि प्रयत्नोऽत्र दृष्ट्वा सुजनानां मतितोषम् " ॥ इति संस्कृतम् ।
इदं 'सुधियां विनोदाय' इति सुधी गतविनोदफलार्थत्वम् । ननु स्तनन्धयो लोके बालशब्दव्यपदेश्यः, न च तस्यैतस्माद् प्रन्थान्नयव्युत्पत्तिः सम्भवतीत्यत आह- बालश्चेति । अधीतान्यतर्क इति - यद्यन्यशास्त्रार्थं परिज्ञानशून्यः स्यात्, तर्हि स कथमवगच्छेत् ? — सङ्ग्रहनयाद् वेदान्तदर्शनप्रवृत्तिः, नैगमनयाद् वैशेषिकादिदर्शनप्रवृत्तिरित्यादिकम्, सामान्यादिपदार्थस्वरूप (परिज्ञाने 'सामान्यमात्रमा हिपरामर्शः सङ्ग्रहः' इत्यादेरपि परिज्ञानं यथावन्न भवेत्, अतोऽधीतान्यतर्कत्वमावश्यकम् । सम्यगनभ्यस्तनय-प्रमाणविभाग इति - यस्य नय-प्रमाणविभागस्य सम्यगभ्यासः स नयस्वरूपं प्रमाणस्वरूपं च विवेकेन जानात्येवेति प्रथमत एव नयव्युत्पन्नस्य तस्य नातो नयव्युत्पत्तिः, अतो युज्यते 'सम्यगनभ्यस्त - नय-प्रमाणविभागः' इति । इतरस्य अनधीतान्यतर्कस्याभ्यस्तनय प्रमाणविभागस्य च । अनधिकारित्वात् प्रस्तुत - नयोपदेशप्रन्थाध्ययन श्रवणाद्यधिकारित्वाभावात् । उक्तार्थे प्राचां वचनं प्रमाणयति नात्यन्तेति यः प्रकृतप्रन्थार्थात्यन्ताज्ञानशून्यः, यश्च प्रकृतप्रन्थार्थातिरिक्तप्रन्थार्थाज्ञानशून्यः स एव प्रकृतग्रन्थाध्ययनादावधिकारीत्यर्थः ॥ १ ॥
नयलक्षणप्रतिपादकमाद्यपद्यमवतारयति - तत्रेति नयोपदेश इत्यर्थः । तस्वेति- नयलक्षणेत्यर्थः । सत्वेति पूर्वार्द्ध नयलक्षणप्रतिपादकम् उत्तरार्द्ध तदुपपादकम् । विवृणोति - सत्वाऽसत्त्वेतीति । आदिना 'सत्त्वासत्वादि०' इत्येतद्घटकादिपदेन 'भेदादिरिति परिग्रहः' इत्यस्य स्थाने 'भेदादेः परिग्रहः' इति पाठो युक्तः । तैः सत्त्वासत्त्वादिधर्मैः । 'पुत्रोत: [ पुत्रेण सह ] पिता समागतः' इत्यादौ भेदे उपेतशब्दप्रयोगो दृश्यत इति प्रकृतेऽपि सत्त्वा - सत्त्वादिधर्मैः समं जीवादिधर्मिणो भेदः प्रतीयेत, तथा चानन्तधर्मात्मकत्वं जीवादीनां न लभ्येत, विवक्षितं च तत्, तथा सत्येवा