________________
नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
१७५
11
" उत्पज्ज माणकालं उत्पन्नं ति विगयं विगच्छंतं । दवियं पण्णवयंतो तिकालविसयं विसेसेइ " [ सम्म तितृतीय काण्डे गाथा - ३७ ] ॥ ३२ ॥
शब्दनये लक्षयति
विशेषिततरः शब्दः प्रत्युत्पन्नाश्रयो नयः । तरप्रत्ययनिर्देशाद् विशेषिततमेऽगतिः ॥ ३३ ॥
नयामृत० - विशेषिततर इति । विशेषिततरः प्रत्युत्पन्नाश्रय ऋजुसूत्राभिमतग्राही नयः शब्द इत्याख्यायते, यत् सूत्रम् - " इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सहो " [ विशेषावश्यक निर्युक्तिगाथा - २१८४ ]त्ति, तत्र तरप्रत्ययनिर्देशाद् विशेषितत माधोवर्तिविषयत्व लाभाद् विशेषिततमे समभिरू एवंभूते चाऽगतिः - नातिव्याप्तिः ॥ ३३ ॥
ऋजुसूत्राद् विशेषमस्य स्पष्टयति
ऋजुसूत्राद् विशेषोऽस्य भावमात्राभिमानतः ।
सप्तभङ्गधर्पणालिङ्गभेदादेवार्थभेदतः ॥ ३४ ॥
नयामृत० - ऋजुसूत्रादितिते - अस्य - शब्दनयस्य ऋजुसूत्राद्, विशेषः - उत्कर्ष:, भावमात्रस्यायति - सर्वैरेभिरिति । उक्तार्थे सम्मतिसंवादमुपदर्शयति तदिदमाद्देति । उपज्ज० इति - " उत्पद्यमान कालमुत्पन्नमिति विगतं विगच्छत् । द्रव्यं प्रज्ञापयंस्त्रिकालविषयं विशेषयति " ।। इति संस्कृतम् ।। ३२ ।। इति ऋजुसूत्रनय निरूपणम् ।। अथ शब्दनयनिरूपणम् । त्रयस्त्रिंशत्तमपद्यमवतारयति - शब्दनयमिति । विवृणोति- विशेषिततर इतीति । प्रत्युत्पन्नाश्रय इति मूलम् तद्विवरणमर्थगत्या - ऋजुसूत्राभिमतग्राहीति प्रत्युत्पन्नं वर्तमानेकक्षणवृत्ति वस्तु ऋजु सूत्राभिमतं तदाश्रयितुं प्रहीतुं स्वभावो यस्य स तदा त्रयस्तग्राहीति, अमुमर्थमुपादायोक्तव्याख्यानम् । ' इत्याख्यायते ' इंति पूरणम्, एवंविधो नयः शब्द इति नाम्ना गीयत इत्यर्थः । निरुक्तशब्दनयलक्षणे सूत्रसम्मतिमुपदर्शयति-यत् सूत्रमिति । इच्छइ इति- " इच्छति विशेषिततरं प्रत्युत्पन्नं नयः शब्दः " इति संस्कृतम् । ' विशेषिततर ' इत्यत्र तरप्प्रत्ययोपादानप्रयोजनीभूत विशेषिततमसमभिरूढैवम्भूतातिव्याप्तिवारण प्रदर्शनपरमुत्तरार्द्ध सङ्गमयति- तत्रेति- उक्तलक्षणे इत्यर्थः । यः खलु विशेषिततमविषयको न भवति स एव विशेषिततर विषयकः, विशेषित-विशेषिततर-विशेषिततम इत्येवं क्रमेणैव विशेषितादीनां निर्देशो भवति, ततस्तरप्प्रत्ययस्तमप्प्रत्ययादपकृष्टार्थप्रत्यायकत्वादधोवर्ती, तत उत्कृष्ठार्थप्रतिपादकत्वात् तमप्प्रत्यय ऊर्ध्ववर्तीति वस्तुस्थितावुक्तलक्षणे तरप्प्रत्ययनिर्देशतोऽधो वर्तिविषयत्वस्य लाभेन तस्य विशेषिततमविषयकत्वाद् विशेषिततमयोः समभिरूढैवम्भूतयोरभावेन न तयोरुक्तलक्षणस्यातिव्याप्तिरित्याह तरप्रत्ययनिर्देशादिति । अलक्ष्ये लक्षण गतिरतिव्याप्तिः, तदभावे नातिव्याप्तिरित्यनुसन्धाय ' अगति: ' इत्यस्य व्याख्यानम् - 'नातिव्याप्तिः ' इति ॥ ३३ ॥ चतुस्त्रिंशत्तमपद्यमवतारयति - ऋजुसूत्रादिति । अस्य शब्दनयभ्य । विवृणोति - ऋजुसूत्रादितीति । भिमानित्वमेव शब्दनयस्य स्पष्टयति- अयं हृीति हि यतः अयं शब्दनयः, ' इच्छति' इत्यनेनान्वयः । भावघटमात्राभ्युपगन्तृत्वे हेतुमाह- शब्देति शब्दनयस्य शब्दार्थप्राधान्येऽपि कथं भावघटमात्राभ्युपगन्तृत्वमित्यपेक्षायामाद' घट चेष्टायाम् ' इतीति । शब्दार्थस्य घटरूपशब्दार्थस्य चेष्टालक्षणस्य चेष्टा चात्र जलाहरणादिक्रियारूपैव । भावघट एव पृथुबुनाद्याकारकलितमृन्मय पात्रविशेष एव । न त्विति नाम- स्थापना द्रव्यरूपं त्रयं न तु नैव, 'इच्छति' इत्यस्यानुकर्षेण सम्बन्धः । तत्र हेतुमाह- तत्रेति - नाम - स्थापना- द्रव्येत्रित्यर्थः । उक्तार्थेति - जुलाहरणादिक्रियारूपघटशब्दार्थैत्यर्थः । उक्तार्थे भाष्य संवादमाह - तथा चेति- शब्दनयस्य शब्दार्थप्रधानत्वेन नामादिषु त्रिषु शब्दार्थाघटनाच्छन्दनयाविषयत्वव्यवस्थितौ चेत्यर्थः । एतत्संवादि " ऋजुसूत्राद् विशेषोऽस्य " इति पयसंवादि । णामादयो० इति -
भावमात्रा