________________
१७४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
दित एव प्रबन्धेनोत्पद्यमानं तद्रूपतयोत्पन्नमभिप्रेतरूपतया चोत्पत्स्यते, एवमुत्पन्नमप्युत्पद्यमानमुत्पत्स्यमानं च, तथोत्पत्स्यमानमप्युत्पद्यमानमुत्पन्नं च, इत्येकैकं त्रैकाल्यं प्रतिपद्यते, एवं विगच्छदादिकालत्रयेणाप्युत्पद्यमानादिरेकैककाल्यं प्रतिपद्यते, यदेवोत्पद्यमानं तदैव विगतं विगच्छद् विगमिष्यश्चेत्या. दिरीत्या, (एवं विगमोऽपि त्रिकाल उत्पादादिना दर्शनीयः ( सम्मतिवृत्तितः, ) एवं स्थित्याऽपि त्रिकाल एव सप्रपञ्चकम् , एवं स्थितिरप्युत्पाद विनाशाभ्यां सप्रपञ्चाभ्यां त्रिकालस्पर्शिनी प्रदर्शनीयेति सर्वैरेभिः धर्मः त्रिकालस्पर्शिभिरविनाभूतं द्रव्यं प्रतिपादयद् वाक्यं प्रमाणमेवेति, तदिदमाह सम्मतिकारः
स्योत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम्, इत्येवं त्रिकालोत्पत्तियोगेन विगमवतो नव भेदाः, विगच्छतः स्थीयमान-स्थास्यमान स्थितस्वरूपेण त्रिप्रकारत्वम्, विगमिष्यतः स्थीयमान-स्थास्यमान-स्थितस्वरूपेण त्रिप्रकारत्वम्, विगतस्य स्थीयमान स्थास्थमान-स्थितस्वरूपेण त्रिप्रकारत्वम् , इत्येवं त्रिकालस्पर्शिस्थितियोगेन विगमवतो नव भेदाः; ते च विगमकृतप्रकारा मिलिनाः सप्तविंशतिभेदाः; उपदर्शिताश्चोत्पत्ति-स्थिति-विगमप्रकारा एकत्र मिलिता एकाशीतिसङ्ख्यका भवन्ति, तद्युक्तं च द्रव्यं प्रमाणविषयः, तदर्थकं च "कजमाणे कडे" इति भगवद्वचनमित्येतद्भावयति-तथाहीति । तेन रूपेण एकतन्त्वाद्यात्मकपटत्वेन रूपेण । उत्तरत्रापि द्वितीयादितन्तुप्रवेशसमयेऽपि । 'नोत्पन्नम' 'अनुत्पन्नम्' इत्युभयत्र 'तेन रूपेण' इत्यस्यानुकर्षेण सम्बन्धः, तत्र 'तेन रूपेण' इत्यस्य द्वितन्त्वाद्यात्मकपटरूपेणेत्यर्थः । अन्तेऽपि चरमतन्तुप्रवेशसमयेऽपि । उत्पन्नांशेनवेति- आद्यतन्तुप्रवेशसमये यद्रपेणोत्पन्नं तद्रूपेणैव द्वितीयादितन्तु प्रवेशसमयमारभ्य चरमतन्तुप्रवेशपर्यन्तमुत्पत्तौ स्वीक्रियमाणायां फलान्तरस्य प्रथमतन्तुप्रवेशसमयोत्पन्नकार्यरूपफलव्यतिरिक्तफलस्याभावप्रसङ्ग इत्यर्थः। मादित एवं प्रथमतन्तुप्रवेश नमयादारभ्यैव । प्रबन्धन क्रमिकपूर्वापरपर्यायस्वरूपप्रवाहात्मना। उत्पद्यमानं घटादि द्रव्यमिति दृश्यम् । तद्रूपतयोत्पन्नं यत्प्रबन्धेनोत्पद्यमानं पटादि द्रव्यं तद् यद्यदेकतन्त्वात्मत्व- द्वितन्त्वात्मत्वादिरूपं निष्पन्नं तत्तद्रूपतयोत्पन्नम् । अभिप्रेतरूपतया चोत्पत्स्यते प्रबन्धेनोत्पद्यमानमेव पटादि द्रव्यमभिप्रेतं यत्सहस्रतन्त्वाद्यात्मकपटादिस्वरूपं तद्रूपेणोत्पत्स्यत इत्यर्थः । एवमिति- यथोत्पद्यमानमुत्पन्नमुत्पत्स्यमानमिति कृत्वा त्रैकाल्यं प्रतिपद्यते तथेत्यर्थः । तथेति- यथोत्पन्नमुत्पद्यमानमुत्पत्स्यमानं चेति कृत्वा त्रैकाल्यं प्रतिपद्यते तथेत्यर्थः । एवमिति- यथा त्रिकालोत्पत्तियोगेन त्रैकाल्यं प्रतिपद्यते तथेत्यर्थः। 'विगच्छदादि इत्यादिपदाद् विगत- विगमिष्यतोरुपग्रहः। विगच्छदादिकालत्रयेणोत्पद्यमानादित्रिकं. यथा त्रैकाल्यं प्रतिपद्यते तथोपदर्शयति-यदेवोत्पद्यमानमिति । 'इत्यादिरीत्या' इत्यत्रादिपदाद् 'यदेवोत्पन्नं तदेव विगतं विगच्छत् विगमिष्यच, यदैवोत्पद्यमानं तदैव विगतं विगच्छद् विगमिष्यच' इत्यनयोरुपग्रहः। 'इत्यादिरीत्या' इत्यनन्तरम् - " एवं स्थीयमानादिकालत्रयेणाप्यत्पद्यमानादिरेकैककाल्यं प्रतिपद्यते, यदेवोत्पद्यमानं तदेव स्थितं स्थीयमानं स्थास्यमानं चेत्यादिरीत्या" इति पाठो यज्यते. अस्य भावना पूर्ववत् । यथा च त्रिकालस्पर्शिन उत्पत्तिमत उक्तदिशा त्रिकालस्पर्शिविगमयोगेन त्रिकालस्पर्शिस्थितियोगेन च सप्तविंशतिविधत्वं तथा विगमवतोऽपीत्याह-एवं विगमोऽपीति । त्रिकालः विगच्छद्-विगमिष्यद्विगतरूपः प्रत्येकं विगतादित्रिकरूपतापन्नः। उत्पादादिना अत्र “ उत्पन्नादिना" इति पाठो युक्तः, तस्योत्पन्नादिकालत्रयेणेत्यर्थः । दर्शनीय इति - यदैव विगच्छत् तदैवोत्पन्नमुत्पद्यमानमुत्पत्स्यमानं चेत्यादिरीत्या दर्शनीय इत्यर्थः । 'सप्रपञ्चकम्' इत्यनन्तरं 'दर्शनीयः' इत्यनुषज्यते । स्थित्यापीत्यस्य त्रिकालस्पर्शिन्या स्थित्यापीत्यर्थः, तथा च विगत- विगच्छद् विगमिष्यपस्य विगमयोगिनः स्थित्या त्रिकालस्पर्शिन्या प्रदर्शनम्, यदैव विगतं तदैव स्थितं स्थीयमानं स्थास्यमानं च, यदैव विगच्छत् तदैव स्थितं स्थीयमानं स्थास्यमानं च, यदैव विगमिष्यत् तदैव स्थितं स्थीयमान स्थास्यमानं चेति रीत्येत्यर्थः । यथा चोक्कदिशा विगमवतः सप्तविंशतिविधत्वं तथा स्थितिमतोऽपीत्याहपवं स्थितिरपीति- त्रिकालस्पर्शिनी स्थितिरपि सप्रपञ्चाभ्यामुत्साद-विनाशाभ्यां प्रदर्शनीयेत्यन्वयः, तथा च स्थित. स्थीयमान स्थास्यमानत्रिकं प्रत्येकं स्थितादित्रिकरूपतापनमुत्पन्नादिकालत्रयेण विगतादिकालत्रयेण च त्रैकाल्यं प्रतिपद्यते. यथा यदेव स्थास्यमानं तदैवोत्पन्नमुत्पद्यमानमुत्पत्स्यमानं चेत्यादिरीत्या, यदैव स्थास्यमानं तदैव विगतं विगच्छद्-विगमिष्यचेत्यादिरीत्या च एकाशीतिभेदभाग्भिरुत्पादादित्रिकै रविनाभूतस्य द्रव्यस्य प्रतिपादकत्वाद् वाक्यस्य प्रामाण्यमित्युपदर्श