SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । १७३ 'भगवद्ववनसंसर्गितया सम्बन्धित्व व्यापारात् क्रियाकाल निष्ठाकालयोभैद एव व्यवहारनय सम्मत आपलति, तथापि " भूतियेषां क्रिया सैव." [ ] इत्याश्रयणादुत्पत्तिरूपक्रियायास्तनिष्ठा याश्च योगपद्यमविरुद्धमिति । ] इत्या " कल्नमाणे कडे " [ ]त्ति भगवद्वचनं तूत्पादादीनामेकर्मिसंसर्गितया त्रैकाल्यविषयत्वेन प्रमाणार्थकतया व्याख्येयम् , तथाहि-आद्यतन्तुप्रवेशक्रियासमये पटद्रव्यं यदि तेन रूपेण नोत्पन्नं त . त्तरत्रापि नोत्पन्नमित्यन्ता(न्तेऽप्य )नुत्पन्नं स्यात् , उत्पन्नांशेनैव चोत्पत्तौ फलान्तराभावप्रसङ्गः, इत्या"भूतियेषाम्" इति पाठो युक्तः, अत्र “करणं सैव चोच्यते", इति द्वितीयचरणम् , एषां घटपटादिकार्यक्षणानां या भूतिर्भवनमुत्पत्तिरिति यावत् , सैव क्रिया, करणमप्येषां सैव उत्पत्तिरेवेत्यर्थः । इत्याश्रयणात इति वचनाभिप्रेतार्थाभ्युपगन्तृमतस्य क्रियाकाल-निष्ठाकालयोरैक्यसंसिद्धये आश्रयणात् । तनिष्ठायाः उत्पत्तिक्रियासिद्धत्वस्य । सर्वेषां घटादीनां क्षणमात्रस्थायित्वेन पूर्वपूर्वकार्यस्योत्तरोत्तरकादित्यन्तभिन्नत्वेन विनाशस्य तुच्छरूपतयाऽतिरिकस्य कारणजनितस्याभावेन यदैव वस्तुन उत्पत्तिस्तदैव तस्य परिनिष्पत्तिस्वरूपोत्पत्तिरूपा स्थितिर्या निष्ठार्थतया गीयत इत्यैक्यादेव तयोः कालस्याप्यैक्यमृजुसूत्रनये इत्यर्थः । ननु भगवद्भिस्तीर्थकृद्भिः सर्वज्ञैरपि क्रियमाणं कृतमित्युपेयते तत् कथं सुसङ्गतम् ? तेषामृजुसूत्रनयमात्राभ्युपगन्तृत्वाभावैन क्रियाकाल-निष्ठाकालयोर्भेदस्याप्युपगन्तृत्वादित्यत आह-कजमाणे-इति क्रियमाणं कृतमिति संस्कृतम् । 'भगवद्वचनं तु' इत्यस्य 'व्याख्येयम्' इत्यनेनान्वयः। 'उत्पादादीनाम' इत्यत्रादिपदात् स्थिति-विगमयोरुपग्रहः। एकर्मिसंसर्गितयेति- यदैव यस्योत्पादस्तस्य तदेव स्थितिर्विगमश्चेत्येवमेकधर्मिसंसर्गितयेत्यर्थः । त्रकाल्यविषयत्वेनेति- उत्पतेर्विद्यमान काल सम्बन्धित्वं यदशादुत्पत्तिमत उत्पद्यमानत्वम्, उत्पत्तेरतीतकालसम्बन्धित्वं यदशादुत्पत्तिमत उत्पन्नत्वम्, उत्पत्तेर्भविष्यत्कालसम्बन्धित्वं यदशादुत्पत्तिमत उत्पत्स्यमानत्वम्, एवं स्थितेविद्यमानकालपम्बन्धित्वं यतः स्थितिमतः स्थीयमानत्वम् ; स्थितेरतीतकालसम्बन्धित्वं यतः स्थितिमतः स्थितत्वम् , स्थितेभविष्यत्कालसम्बन्धितं येन स्थितिमतः स्थास्यमानत्वम्, एवं विगमस्य वर्तमानकालसम्बन्धित्वं यतो विनाशप्रतियोगिनो विगच्छद्भावः, विगमस्य भूतकालसम्बन्धित्वं यतो भवति विनाशिनो विगतत्वम. विगमस्य भविष्यकालसम्बन्धित्वं येन विनाशिनो विगमिष्यद्भावः, इत्येवं त्रैकाल्यविषयत्वेनेत्यर्थः । प्रमाणार्थकतया प्रमाणविषयीभूनोत्पादादित्रयात्मकवस्तुविषयत्वेन । अत्र उत्पद्यमानस्य उत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिकालोत्पत्तिसम्बन्धकृतेन त्रिप्रकारत्वम् , एवमुत्पत्स्यमानस्योत्पत्स्यमानोत्पद्यमानोत्पन्नस्वरूपेण त्रिकालोत्पत्तिसम्बन्धकृतेन त्रिप्रकारत्वम् , एवमुत्पन्नस्योत्पन्नोत्पद्यमानोत्पत्स्यमानस्वरूपेण त्रिकालोत्पत्तिसम्बन्धकृतेन त्रिप्रकारत्वम् इत्येवमुत्पत्तिमतस्त्रिकालोत्पत्तियोगेन नव भेदाः, तथोत्पद्यमानस्य स्थित-स्थीयमान स्थास्यमानस्वरूपेण त्रिप्रकारत्वम् , उत्पद्यमानस्य स्थितस्थीयमान स्थास्यमानस्वरूपेण त्रिप्रकारत्वम् , उत्पन्नस्य स्थित- स्थीयमान-स्थास्यमानस्वरूपेण त्रिप्रकारत्वम्, इत्येवं त्रिकालस्थितियोगेनोत्पत्तिमतो नव भेदाः; तथोत्पद्यमानस्य विगत विगच्छद्-विगमिष्यत्स्वरूपण त्रिप्रकारत्वम् , उत्पत्स्यमानस्य विगत-विगच्छद् विगमिष्यत्स्वरूपेण त्रिप्रकारत्वम् , उत्पन्नस्य विगत-विगच्छद्विगमिष्यत्स्वरूपेण त्रिप्रकारत्वम्, इत्येवं त्रिकालविगमयोगेनोत्पत्तिमतो नव भेदाः,ते चोत्पत्तिकृतप्रकारा मिलिताः सप्तविंशतिभेदाः; एवं स्थीयमानस्य स्थीयमान-स्थास्यमान स्थितस्वरूपेण त्रिकालस्थितिसम्बन्धकृतेन त्रिप्रकारत्वम् । एवं स्थितस्य स्थित-स्थीयमान-स्थास्यमानस्वरूपेण त्रिकालस्थिति सम्बन्धकृतेन त्रिप्रकारत्वम् , स्थास्यमानस्य च स्थास्यमान-स्थीयमान-स्थितस्वरूपेण त्रिप्रकारत्वम् , इत्येवं स्थितिमतस्त्रिकालस्थितियोगेन नव भेदाः; तथा स्थीयमानस्योत्पद्यमानोत्पत्स्यमानोत्पलस्वरूपेण त्रिप्रकारत्वम. स्थास्यमानस्योत्पद्यमानोत्सत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम् , स्थितस्योत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम्, इत्येवं त्रिकालोत्पत्तियोगेन' स्थितिमतो नव भेदाः; तथा स्थीयमानस्य विगत-विगच्छद् विगमिष्यद्रूपेण त्रिप्रकारत्वम्, स्थास्यमानस्य विगत विगच्छद्-विगमिष्यदूषण त्रिप्रकारत्वम् , स्थितस्य विगत-विगच्छद्-विगमिष्यद्रूपेण त्रिप्रकारत्वम् , इत्येवं त्रिकालविगमयोगेन स्थितिमतो नव भेदाः, ते च स्थितिकृतप्रकारा मिलिताः सप्तविंशतिभेदाः, एवं विगच्छतो विमच्दुविगमिष्यद्-विगतस्वरूपेण त्रिकालविगमसम्बन्धकृतेन त्रिप्रकारत्वम् , विगमिष्यतो विगमिष्यद्-विगच्छद्-विमतरूपेण त्रिप्रकारत्वम् , विगतस्य विगत विगच्छद् विगमिष्यद्रूपेण त्रिप्रकारत्वम् , इत्येवं विगमवतस्त्रिकालविगमयोगेन नव भेदाः: क्गिच्छत उत्पद्यमानोत्पत्स्यमानोत्पनस्वरूपेण त्रिप्रकारत्वम्, विगमिष्यत उत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम्, विमत
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy