________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
देशे दह्यमाने 'शाटी दग्धा' इति वचनं कथं भगवदुक्त सूत्रानुवादेन समर्थितम् ? तदानीं शाटीदाहक्रियाकालसंवलितस्य तन्निष्ठाकालस्याभावादिति जिज्ञासायामाह
दह्यमानेऽपि शाट्येकदेशे स्कन्धोपचारतः ।
शाटी दग्धेति वचनं ज्ञेयमेतन्नयाश्रयम् ॥ ३२ ॥ नयामृत-दह्यमानेऽपीति । शाट्येकदेशे दह्यमानेऽपि तत्र, स्कन्धोपचारतः-शाटीस्कन्ध. वाचकशाटीपदोपचारात्, 'शाटी दग्धा' इति वचनम् , एतन्नयाश्रयम्-ऋजुसूत्राभिप्रायकं ज्ञेयम , तदाह भाष्यकार:" उजुसुअणयमयाओ वीरजिणिंदवयणावलंबीणं । जुज्जेज डज्झमाणं डढें वोत्तुं न तुज्झ त्ति " ॥
[विशेषावश्यकभाष्यगाथा-२३२९] जमालिमतव्युद्वाहितां प्रियदर्शनां प्रति भगवद्वचनवासितचेतसो ढंकस्योक्तिरियम् , तथा चात्रोपचारमूलव्यवहारनयोपगृहीतस्यर्जुसूत्रनयस्य प्रवृत्तिरित्युक्तं भवति । इदं तु ध्येयम् , एवं सति दीर्घः क्रियाकाल आंशिककार्यक्षणकोटिविषयोऽभ्युपगन्तव्यः, तत्र च यद्यपि कारणक्षणस्य पूर्ववर्तितयेव शाट्येकदेशे दह्यमाने न शाटी दह्यत इति न स शाटीदाहकाल इति कुतः शाटीदाहक्रियाकालसंवलितस्तनिष्ठाकाल इति तदानीं 'शाटी दग्धा' इति वचनमभिधेयशून्यमेवेति भावः । - विवृणोति-दह्यमानेऽपीतीति । तत्र शाट्येकदेशे । उक्तार्थे भाष्यसम्मतिमुपदर्शयति- तदाहेति । उजुसुअ० इति- ऋजुसूत्रनयमताद् वोरजिनेन्द्रवचनावलम्विनाम् । युज्यते दह्यमाने दग्धे वक्तुं न तवेति" इति संस्कृतम् । दह्यमाने शाठ्ये कदेशे 'शाटी दग्धा' इति वचनं को प्रति कस्यैत्यपेक्षायामाह-जमालीति- जमालि:- क्रियमाणं कृतमिति सिद्धान्तमश्रद्दधानो मुनिविशेषः, य. प्रागवस्थया भगवतो जामाता, प्रियदर्शना- जमालिमतमनुसरन्ती साध्वी, या प्रागवस्थया जमालिजाया, ढङ्क:-प्रियदर्शनासाध्वी प्रतिबोधनोद्यतो ढङ्कनामा कुम्भकारः श्रावकः। इयं या भाध्यकारेणानन्तरगाथारूपेण संगृहीता। उपचारं व्यवहारनय एवाभ्युपैति न तु ऋजुसूत्र इति कथमुपचाराश्रयेण ऋजुसूत्रनयाश्रिता निरुक्कोक्तिरित्यपेक्षायामाह-तथा चेति- उपचाराश्रयेणोक्तवचनव्यवस्थितौ चेत्यर्थः । अत्र शाटी दग्धेति वचने। अत्र शेमुषीविशेषमाधातुं किञ्चिद्विशेषमुपदर्शयति- इदं तु ध्येयमिति- एवं सतीत्यादिनाऽनन्तरमेव वक्ष्यमाणं विचारणीयमित्यर्थः। एवं सति उक्तवचनस्य व्यवहारनयोपगृहीतर्जुसूत्रनय प्रवृत्तिकत्वे सति । दीर्घः एकतन्तुप्रवेशादिसमयमारभ्य चरमतन्त्वादिप्रवेशनिष्पन्नपटस्वरूपसमयपर्यन्तस्थायी। आंशिकेति- सहस्रतन्तुकपटस्य द्वितन्तुकपटादिकमांशिकम्, तत्क्षणकोटिविषयः-स्वरूपसन्निविष्टो यस्य तादृशः स्वरूासम्बन्धविशेषरूपविषयत्वस्य ज्ञानेच्छायत्नेष्वेव भावादन्यादृशस्य विषयत्व स्योपदर्शितरूपस्यैवात्र योग्यत्वात् , क्षणश्चात्र कार्यखरूप एव, ऋजुसूत्रनये क्षणमात्रस्थायिनो वस्तुन एव क्षणत्वात् , तथा च ऋमिकानल्पकार्यप्रवाहविशेषस्वरूपः क्रियाकलो दीर्घोऽभ्युपगन्तव्य इत्यर्थः। तत्र च उक्तदीर्घकालाभ्युपगमे च । कारणक्षणस्य कारणात्मकक्षणस्य । पूर्ववर्तितयैव अव्यवहितपूर्ववर्तितयैव । व्यापारात् क्रियायामुपयोगात् । क्रियाकाल: आद्यतन्तुप्रवेशादिलक्षणक्रियाकालः, तदव्यवहितपूर्ववर्तितयैव कारणक्षणस्योपयोगः, तस्य च चरमतन्तुप्रवेशनिष्पन्नपटस्वरूपात्मकनिष्ठाकालाव्यवहितपूर्ववर्तित्वं नास्ति किन्तु तदन्यस्यैव कारणक्षणस्य तदव्यवहितपूर्ववर्तितया तत्रोपयोग इति कारणभेदात् क्रिशकाल-निष्ठाकालयो द एवेत्यर्थः, अस्य व्यवहारनयसम्मतत्वं च प्रतिक्षणमन्यान्यभावेऽप्येकतयैव व्यवहियमाणत्वम् . तद् यद्यप्यौपचारिकम् , एवमप्युपचारप्रधानस्य व्यवहारनयस्य सम्मतत्वमासादयत्येव, तथा च व्यवहास्नयोपगृहीतस्यर्जुसूत्रस्य मते न सम्भवति क्रियाकाल-निष्ठाकालयोरेक्यमित्येकं सीव्यतोऽपरप्रच्युतिरित्यर्थः । तथापि आद्यतन्त्वादीनां द्वितीयादितन्तुभिः सह संयोजनलक्षणप्रवेशनलक्षणं पटस्य करणं क्रिया, तत्कालः क्रियाकालः, चरमतन्तुप्रवेशनतो निष्पन्नपटखरूपं निष्ठाकालः, तयोरुक्तदिशा भेदस्य व्यवहारनयसम्मतत्वेऽपि । “भूतिर्येषाम्" इति स्थाने