________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
हार्यारोपविषयपूजनत्वादिनैव फलहेतुता, क्तप्रत्ययस्य चौत्सर्गिकेन कृत्प्रत्ययेनैवार्थवत्तेत चिन्तामणिकारादृप्यतिसूक्ष्ममतिनिपुणं च वयमीक्षामहे ॥ १०३ ॥
उक्तमेव वक्ष्यमाणफलान्वयेनाह -
२९०
wwwwwwwwww..
तत्कारणेच्छाजनकज्ञानगोचरबोधकाः । विधयोऽप्युपयुज्यन्ते, तेनेदं दुर्मतं हतम् ॥ १०४ ॥
नयामृत० - तत्कारणेति । तस्य- आहार्यारोपस्य कारणं या इच्छा, तज्जनकं यत् प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपयेदिति विधिजनितं ज्ञानम्, तद्गोचरीभूत प्रतिष्ठाया बोधका :- इष्टसाधनत्वबोधनादिद्वारा तदुत्पत्तिहेतव इति यावत् विधयोऽपि - विधिवाक्यान्यपि, उपयुज्यन्ते - फलवन्तो भवन्ति, तैः प्रतिष्ठोत्पादने प्रतिष्ठित प्रतिमायामारोपविधिना भगवदभेदाध्यारोपोपपत्तौ पूजाफलप्रयोजकरूपसिद्धेः, तेनेदं - वक्ष्यमाणं दुर्मतम्, आध्यात्मिकाभासानां, हतं - निराकृतम् ॥ १०४ ॥
किं तद् इत्याह
प्रतिष्ठाद्यनपेक्षायां, शाश्वतप्रतिमार्चने ।
अशाश्वतार्चापूजायां, को विधिः किं निषेधनम् ? ॥ १०५ ॥
नयामृत० - प्रतिष्ठेति । शाश्वतप्रतिमार्चने, प्रतिष्ठाया आदाविदं प्रथमतोऽनपेक्षायां तत्रैव स्पर्शाभावविशिष्ट प्रतिष्ठा ध्वंसत्वेन तादृशध्वंस विशिष्टप्रतिमापूजनश्वेन वा फलं प्रति हेतुत्वस्य चिन्तामणिकारानुमतस्य व्यव च्छेदः । ननु कप्रत्ययस्य प्रयुक्ताहार्यारोपविषये लक्षणापक्षे तस्य शक्यार्थवत्ता न स्यादत आह- कप्रत्ययस्येति । औत्सर्गिकेन कृत्प्रत्ययविधायक सामान्यशास्त्रोपस्थापितेन । " कृत्प्रत्ययेनैवा" इत्यस्य स्थाने " कृत्प्रत्ययार्थेनैवा " इति पाठो युक्तः धात्वर्थस्वरूपमात्रेऽपि कृत्प्रत्ययविधानमस्तीति प्रकृते प्रतिष्ठालक्षणधात्वर्थस्वरूपेणैव शक्यार्थवत्त्वमपि कप्रत्ययस्य भविष्यति कृत्प्रत्ययार्थेनैवेत्येवकारेण ध्वंसप्रतियोगित्वलक्षणातीतत्वरूपविशेषशास्त्र स्मारितार्थेनार्थवत्त्वस्य व्यव च्छेदः, एतेन वर्तमानप्रतिष्ठात्मकपूजाया अपि फलवत्वमुपपद्यतेतरामित्यावेदितं भवतीति । इति एवंस्वरूपम् चिन्तामणिकारादपि गङ्गेशोपाध्यायादपि, अतिसूक्ष्मं विशिष्टशेमुषीशालिबुधैकगम्यम्, अतिनिपुणम् एतादृशार्थस्यावश्यमेव कार्यकारित्वमित्यत्यन्तकार्यनिर्वाहकम्, वयं श्रीयशोविजयोपाध्यायाः, ईक्षामहे विचारयामः ॥ १०३॥
चतुरुत्तरशततमपद्यमवतारयति उक्तमेवेति- अनन्तरपद्याभिहितमेवेत्यर्थः । वक्ष्यमाणफलान्वयेन वक्ष्यमाणं यद् दुर्मतखण्डनलक्षणं फलं तत्सम्बन्धेन । विवृणोति तत्कारणेतीति । अनेकस माससङ्घटितमूर्तेर्वाक्यस्यावान्तर समासस्फुटीकरणद्वाराऽर्थमुपदर्शयति - तस्येत्यादिना । तस्येत्यस्य विवरणम् - आहार्यारोपस्येति । तज्जनकम् इच्छाजनकम् । यदित्यस्य ज्ञानमित्यनेनान्वयः । तज्ज्ञानं किंजनितमित्यपेक्षायामाह - प्रतिष्ठितामिति । तद्गोचरीभूतेति तादृशज्ञानविषयीभूतेत्यर्थः । वोधका इति विधय इत्यनेनान्वितम् । कथं बोधका इत्यपेक्षायामाह - इष्टसाधनत्वबोधवादिद्वारेति । तदुत्पत्तिहेतवः प्रतिष्ठित प्रतिमाविशेष्य कभगवदभेदज्ञानं मदिष्टसाधनमिति ज्ञानजनकाः । विधयोऽपीत्यस्य विवरण- विधिवाक्यानीति प्रतिष्ठित प्रतिमां भगवदभेदेनाध्यारोपयेदित्यादीनीत्यर्थः । उपयुज्यन्ते इत्यस्य विवरण- फलवन्तो भवन्तीति । कथं फलवन्तो भवन्तीत्यपेक्षायामाह - तैरिति - विधिवाक्यैरित्यर्थः । प्रतिष्ठोत्पादने इति सति सप्तमी, अन्यत् स्पष्टम् । इदमित्यस्य विवरणं- वक्ष्यमाणमिति । केषां दुर्मतमित्यपेक्षायामाह - आध्यात्मिकाभासानामिति । छतमित्यस्य विवरणं- निराकृतमिति ॥ १०४ ॥
पश्चोत्तरशततमपद्यमवतारयति किं तदिति - आध्यात्मिकाभासानां मतं किंस्वरूपमित्यर्थः । विवृणोति प्रतिष्ठेतीति ।