________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । २९१ तस्याः फले व्यभिचारात्, अशाश्वता नां - कृत्रिमप्रतिमानां पूजायाम् , प्रतिष्ठितां प्रतिमां पूजयेदिति विधिः कः ? अप्रतिष्ठितं न पूजयेदिति निषेधनं च किम् ? प्रतिष्ठा-तदभावयोरिष्टानिष्टसाधनतया व्यभिचारात्, अभावेन तत्र विधि-निषेधार्थान्वयस्यायोग्यत्वादिति भावः ॥ १०५ ॥ कथमेतन्निरस्तम् ? इत्याह
पूजादिविधयो ज्ञानविध्यङ्गित्वं यदाश्रिताः ।
शाश्वताऽशाश्वतार्चासु, विभेदेन व्यवस्थिताः ॥ १०६ ॥ नयामृत-पूजादीति । पूजादिविधयः-प्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणाः, ज्ञानविधेः-प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाध्यारोपये दित्यागमवाक्यात्मकस्य, अङ्गित्वं-प्रधानत्वम् , आश्रिताः, शाश्वता-ऽशाश्वतार्चासु, विभेदेन-भिन्नरूपेण व्यवस्थिताः । तथा च प्रतिष्ठाया न पूजासह. कारित्वम्, किन्तु स्वकर्तव्यताबोधकविध्यङ्गता। यत्र विधिविषयनिर्वाहकत्वेन प्रयोजकत्वम् , तचा. " इदं प्रथमतो" इत्यस्य स्थाने "इदं प्राथम्ये तेन प्रथमतो" इति पाठो भवितुमर्हति, इदमादिपदं प्राथम्यरूपार्थे वर्तते, तेन आदी- इत्यस्य प्रथमत इत्यर्थः । शाश्वतप्रतिमा सर्वदेव व्यवस्थितैव, तत्र प्रतिष्ठा प्रथमतो नास्त्येव, अतस्तत्र प्रतिष्ठामन्तरेण शाश्वतप्रतिमार्चनतः फलं भवतीति तत्रैव शाश्वतप्रतिमार्चन एव, तस्याः प्रतिष्ठायाः, फले प्रतिमाऽर्चनजन्यफले, व्यभिचारात् व्यतिरेकव्यभिचारात् , प्रतिष्ठाया अभावेऽपि प्रतिमापूजनजन्यफलस्य भावात् । अशाश्वता पूजायामित्यस्य विवरणम्- अशाश्वता नां-कृत्रिमप्रतिमानां पूजायामिति । को विधिरित्यस्य विवरण- प्रतिष्ठितां प्रतिमा पूजयेदिति विधिः क इति । किं निषेधनमित्यस्य विवरणम्- अप्रतिष्ठितं न पूजयेदिति निषेधनं च किमिति । विधि-निषेधयोरभावे हेतुमुपदर्शयति-प्रतिष्ठेति- शाश्वतप्रतिमायां प्रतिष्ठाया अभावेऽपि तत्पूजनत इष्टफलस्य भावेन व्यतिरेकव्यभिचारात् प्रतिष्ठाया इष्टं प्रति न कारणत्वम् , एवं शाश्वतप्रतिमायां प्रतिष्ठाभावस्य सत्त्वेऽपि न भवत्यनिष्टफलमित्यन्वयव्यभिचारात् प्रतिष्ठाभावस्य नानिष्टफलं प्रति कारणत्वमित्येवं प्रतिष्ठाप्रतिष्ठाऽभावयोर्व्यभिचारादिष्टानिष्टसाधनत्वयोरभावेन प्रतिष्ठितां प्रतिमां पूजयेदित्यत्र प्रतिष्ठितप्रतिमापूजने विध्यर्थेष्टसाधनत्वान्वयस्यायोग्यत्वात् , अप्रतिष्ठितं न पूजयेदित्यत्र अप्रतिष्ठितप्रतिमापूजने निषेधविध्यर्थानिष्टसाधनत्वान्वयस्यायोग्यत्वादित्यैवमत्र भावार्थ इत्यर्थः । "प्रतिष्ठा तदभावयोरिष्टानिष्टसाधनतया व्यभिचारात्, अभावेन" इत्यस्य स्थाने " प्रतिष्ठातदभावयोरिटानिष्टसाधनत्वयोर्व्यभिचारादभावन" इति पाठः समीचीनः, एतत्पाठानुसारेणैवानन्तरमुपवर्णितोऽर्थ इति ॥१०५ ॥
षड्डुत्तरशततमपद्यमवतारयति- कथमिति- केन प्रकारेणेत्यर्थः, एतत् आध्यात्मिकाभासानां मतम्, निरस्त खण्डितम् , इत्याह एवं प्रश्ने सत्युत्तरं कथयति । विवृणोति-पूजादीतीति । पूजादिविधयः किंस्वरूपा इत्यपेक्षायामाहप्रतिष्ठितां प्रतिमां पूजयेदित्यादिवाक्यलक्षणा इति । ज्ञानविध्यङ्गित्वमिति समस्तं व्यासार्थोपदर्शनेन विवृणोतिज्ञानविधेरिति । किंस्वरूपस्य ज्ञानविधेरित्यपेक्षायामाह-प्रतिष्ठितां प्रतिमां भगवदभिन्नत्वेनाध्यारोपयेदित्यागमवाक्यात्मकस्येति । अङ्गित्वमित्यस्य विवरणं-प्रधानत्वमिति । आश्रिताः आश्रित्य प्रवृत्ताः । अतो ज्ञानविधिः प्रधान पूजाविधिस्तु तदङ्गमिति प्रधाने न भवति विकल्पः किन्तु तदङ्ग एवेति यथा प्रधानविध्युपपत्तिस्तथा तदनविधिर्विकल्पनीय इत्याशयेनाह-शाश्वताऽशाश्वता स्विति- शाश्वतप्रतिमाऽशाश्वतप्रतिमास्वित्यर्थः । विभेदेनेत्यस्य विवरण-भिन्नरूपेणेति । तथा च ज्ञानविध्यज्ञानां पूजादिविधीनां भिन्नरूपेण व्यवस्थितौ सत्यां च । प्रतिष्ठाया न प्रजासहकारित्वं प्रतिमापूजाफले प्रतिष्ठाया न कारणत्वम् । एवं सति प्रतिष्ठा निरर्थिकैव स्यादिति पृच्छतिकिन्विति। उत्तरयति- स्वकर्तव्यतेति- " स्वकर्तव्यताबोधकविध्यङ्गता । यत्र विधि" इत्यस्य स्थाने " स्वकर्तव्यताबोधकविध्यङ्गतापन्नविधि" इति पाठः समीचीनः, तस्यायमर्थः- स्वस्या:- प्रतिष्ठायाः, कर्तव्यताबोधको यो विधिः-प्रतिष्ठितां प्रतिमा भगवदभिन्नत्वेनाध्यारोपयेदिति, तस्याङ्गतापन्नो विधिः- प्रतिष्ठितां प्रतिमा पूजयदिति, तद्विषयः