________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
पाषाणत्वादिना भेदप्रत्यक्षे सति स्वरसतो नोदयतीत्याहार्य एव सम्पादनीयः, आहार्यत्वं चेच्छाजन्यत्वम्, इच्छा चेष्टसाधनताज्ञानसाध्ये तीष्टसाधनताज्ञानसम्पादनाय प्रतिष्ठितां प्रतिमां भगवदभेदेनाध्यारोपयेदिति विधिः कल्पनीयः । तथा चाहार्य भगवदध्यारोपविषयप्रतिमापूजनत्वादिना फलविशेषहेतुत्वे आहार्यत्वप्रयोजकेच्छा जनकज्ञानजनक विशेष्यतावच्छेदककुक्षिप्रविष्टत्वेन प्रतिष्ठाया अपि परम्परया प्रयोजकत्व - मित्युक्तं भवति, प्रतिष्ठितं पूजयेदित्यत्रापि क्तप्रत्ययस्य खण्डशः शक्त्या लक्षणादिना वा प्रतिष्ठाप्रयुक्तातत्र काष्ठत्व - पाषाणत्व-मृत्त्वज्ञाने सति परमात्मस्वरूपाद् भगवतो भेदप्रत्यक्षमेव जायते सति च तस्मिन् प्रतिमायां भगवदभेदज्ञानमनाहार्यरूपं न सम्भवति, अनाहार्य तद्भेदज्ञानस्यानाहार्यतदभेदज्ञानं समानधर्मिकं प्रति प्रतिबन्धकत्वादतो बाधकाले आहार्यज्ञानमेव सम्पादयितुं शक्यमित्याह - काष्ठ-पाषाणत्वादिनेति । स्वरसतः इच्छादिकमनपेक्ष्य स्वभावतः । नोदयति नोत्पद्यते, अत्रापि स चेत्यस्यान्त्रयः । आहार्यत्वं किमित्यपेक्षायामाह - आहार्यत्वं चेच्छाजन्यत्वमितिसमानविषयक प्रत्यक्षाऽनुमितिसामग्र्योः सत्योः समानविषयकप्रत्यक्षमेव भवति न त्वनुमितिरिति समानविषयकानुमितिं प्रति समानविषयकप्रत्यक्षसामग्री प्रतिबन्धिका एवं भिन्नविषयकानुमितिप्रत्यक्षसामग्योः सत्योर्भिन्नविषयकानुमितिरेव भवति न तु भिन्नविषयकप्रत्यक्षमिति भिन्नविषयकप्रत्यक्षं प्रति भिन्नविषयकानुमितिसामग्री प्रतिबन्धिकेत्येवं प्रतिबध्यप्रतिबन्धकभावे व्यवस्थितेऽपि समानविषयकप्रत्यक्षसामग्रीसत्त्वेऽपि समानविषयकानुमितीच्छायां सत्यां समानविषयकानुमितिसामग्रीतः समानविषय कानुमितिरुपजायत इति तां प्रतीच्छा कारणम्, एवं विभिन्नविषयकानुमितिसामग्रीसत्त्वेऽपि विभिन्नविषयक प्रत्यक्षेच्छाबलाद् विभिन्नविषयकप्रत्यक्ष सामग्रीतो विभिन्नविषयकप्रत्यक्षमुपजायत इति तत् प्रतीच्छा कारणम्, तथा च तादृशानुमितिप्रत्यक्षयोरिच्छाजन्यत्वेऽपि नाऽऽहार्यत्वमतो नेच्छाजन्यत्वमात्रमाहार्यत्वम्, किन्तु बाघकालीनेच्छाजन्यत्वमाहार्यत्वमिति, यद्यपि खविरोधिधर्मितावच्छेदककस्वप्रकारकज्ञानमाहार्यमितीच्छाजन्यत्वाघटितमप्याहार्यलक्षणं सम्भवति तथापि तादृशलक्षणलक्षितमप्याहार्यज्ञानं नेच्छामन्तरेणेतीच्छाजन्यत्वं तस्यावश्यकमिति बोध्यम् । इच्छा चेष्टसाधनताज्ञानसाध्येति- इच्छा द्विविधा - फलेच्छा उपायेच्छा चेति, तत्र फलेच्छां प्रति फलज्ञानं कारणम्, उपायेच्छां प्रति चेष्टसाधनताज्ञानं कारणम्, प्रतिमायां भगवदभेदाध्यारोपात्मकज्ञानं च न सुखं नापि दुःखाभाव इति न फलं सुख-दुःखाभावान्यतरस्यैवान्येच्छानधीनेच्छाविषयत्वेन फलत्वात् किन्तु सुख-दुःखाभावान्यतरात्मक फलसाधनत्वेनोपायरूपं तदिति तदिच्छा इष्टसाधनताज्ञानसाध्ये - त्यर्थः । इति एतस्माद्धेतोः । इष्टसाधनताज्ञानसम्पादनाय प्रतिमायां भगवदभेदारोपे इष्टसाधनताज्ञानसम्पादनाय, प्रतिमायां भगवदभेदाध्यारोपो मदिष्टसाधनमित्याकारकज्ञानसम्पत्तये इति यावत् । इष्टसाधनत्वं विधेरर्थ इति विधिवाक्यादेवेष्टसाधनताज्ञानं भवितुमर्हतीति यादृशविधिवाक्यं प्रतिमायां भगवदभेदाध्यारोपस्येष्टसाधनत्वं बोधयितुं समर्थं तादृशं विधिवाक्यं कल्पनीयमित्याशयेन कल्पनीयविधिस्वरूपमुल्लिखति- प्रतिष्ठितां प्रतिमामिति । तथा च निरुक्तविधिकल्पनया प्रतिष्ठितप्रतिमागतभगवदभेदाध्यारोपस्येष्टसाधनत्वबोधने तत्प्रभवेच्छाजन्यत्वेन निरुक्ताभेदारोपस्याहार्यत्वव्यवस्थितौ च । आहार्येतिआहार्यो यो भगवतोऽभेदेन प्रतिमायामध्यारोपस्तद्विषयीभूता या प्रतिमा तत्पूजनत्वादिनेत्यर्थः, आदिपदात् तद्दर्शनत्व-तद्वन्दत्वादीनामुपग्रहः । फलविशेषहेतुत्वे फलविशेषं प्रति निरुक्तप्रतिमापूजनादीनां कारणत्वे सति । आहार्यत्वेति- प्रतिष्ठितप्रतिमायां भगवदभेदाध्यारोपस्य यदाहार्यत्वं तत्प्रयोजिका येच्छा प्रतिष्ठित प्रतिमायां भगवदभेदाध्यारोपो जायतामित्याकारिका, तज्जनकं यज्ज्ञानं प्रतिष्ठितप्रतिमाविशेष्यकभगवदभेदाध्यारोपो मदिष्टसाधनमित्याकारकम्, तज्जनकं प्रतिष्ठित प्रतिमा विशेष्यकभगवदभेदप्रकारकज्ञानम्, तन्निरूपितविशेष्यता प्रतिष्ठितप्रतिमात्वावच्छिन्नविशेष्यता, तदवच्छेदककुक्षौ - तदवच्छेदकशरीरे प्रविष्टत्वेने - त्यर्थः, प्रयोजकत्वं प्रतिमापूजनादिफलं प्रति प्रयोजकत्वम् । यदपि प्रतिष्ठितं पूजयेदिति विधिः कल्पितश्चिन्तामणिकुद्भिस्तत्राप्युक्तदिशैव फलहेतुतेत्याह- प्रतिष्ठितं पूजयेदित्यत्रापीति । कप्रत्ययस्य प्रतिष्ठितमित्येतदुद्घटक क्तप्रत्ययस्य, खण्डशः शक्त्या प्रयुक्ते आहार्ये आरोपविषये च तप्रत्ययस्य पृथगेव शक्तिस्तथा, वा अथवा, लक्षणादिना प्रयुक्तहार्यारोपविषये कप्रत्ययस्य लक्षणादिना । प्रतिष्ठेति - सूत्रबोधितसविधिप्रतिष्ठया प्रयुक्तो जनितो यः प्रतिमायां भगवतो - Sमेदेनाहार्य आरोपस्तद्विषयप्रतिमापूजनत्वादिनैव फलहेतुतेत्यर्थः, प्रतिमापूजनत्वादिनैवेत्येवकारेण प्रतिष्ठाकालीन यावदस्पृश्य
३७
२८९