________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
चित्ररूपपक्षेऽप्येतावन्त एव, चित्ररूपे नीलेतररूपादिषट्कस्य, नीलादौ च नीलादिषट्कस्य हेतुत्वम्, नीले दिषट्कस्य च नीलादौ प्रतिबन्धकत्वमित्यादिनाऽऽधिक्याभावात् वस्तुतोऽवच्छेदकतया नीलादौ स्वसमवायिसमवेतद्रव्यसमवायिसमवेतत्वसम्बन्धेन नीलेतररूपादिविशिष्टनीलत्वादिनैव हेतुत्वम्, न च नीतरत्वाद्यवच्छिन्नं प्रति नीलविशिष्टनीलेतरत्वादिना हेतुत्वेन विनिगमकाभावः, नीलत्वापेक्षया नीलेतरत्वस्य गुरुत्वात्, इत्थं च, अभिनिष्कर्षेऽस्माकं द्वादशैव कार्यकारणभावा इति लाघवाद्" इत्याहुः, तद्सत् - चित्ररूपस्वीकारपक्षेऽपि नीलादौ नीलेतरादिप्रतिबन्धकत्वेनैव शुक्लावयवमात्रारब्धे नीलाद्यनुत्पत्तिपीतरूपस्य तत्र सत्त्वात् उक्तदिशा त्रयाणां षट्कार्यकारणभावानां सम्मेलने अवयविगताव्याप्यवृत्तिनानारूपाभ्युपगमपक्षेऽष्टादश कार्यकारणभावा भवन्तीत्याह - इत्यव्याप्यवृत्तित्वपक्ष इति । चित्ररूपपक्षेऽप्यष्टादश कार्यकारणभावा इति नाव्याप्यवृत्तिरूपाभ्युपगमापेक्षया तत्पक्षे लाघत्रम्, किन्त्वतिरिक्त चित्ररूपमभ्युपगन्तव्यमिति तत्कल्पनप्रयुक्त गौरव मित्युपदर्श - यति - चित्ररूपपक्षेऽपीति । एतावन्त एव अष्टादश एव कार्यकारणभावाः । कथं तत्राष्टादश कार्यकारणभावा इत्यपेक्षायामाह - चित्ररूप इति । 'नीलेतररूपादि' इत्यादिपदात् पीतेतररूपादेरुपग्रहः । ' नीलेतररूप। दिषट्कस्य' इत्यस्य ' हेतुत्वम्' इत्यनेन सम्बन्धः । ' नीलादौ ' इत्यादिपदात् पीतादेरुपग्रहः, एवं ' नीलादि' इत्यत्रापि । नीलपीतकपालद्वयारब्धघटे नोलाद्युत्पत्तिवारणाय नीलादौ नीलेतररूपादिषट्कस्य प्रतिबन्धकत्वमिति नीलेतररूपाभावादिषट्कस्य नीलादौ कारणत्वमित्याह - नीलेतरादिषट्कस्य चेति- अत्र 'नीलेतररूपादिषट्कस्य च' इति पाठो युक्तः । अन्या - प्यवृत्तिरूपवादी स्वपक्षे द्वादश कार्यकारणभावा एवेत्युपदर्शनेन अष्टादशकार्यकारणभावाभ्युपगन्तृ चित्ररूपवाद्यपेक्षया लाघवमावेदयितुमाह-वस्तुत इति । 'नीलादो' इत्यत्रादिपदात् पीतादेरुपग्रहः, 'नीलेतररूपादि ' इत्यादिपदात् पीतेतर - रूपादेरुपग्रहः, यत्रैकस्मिन् कपाले नीलरूपमपरस्मिन् कपाले पीतरूपम्, तादृशकपालद्वयारब्धघटे जायमाननीलस्यावच्छेदकतया नीलकपाले उत्पत्तिरुक्त कार्यकारणभावबलात् सम्भवति, यतः स्त्रं नीलेतररूपं पीतरूपम्, तत्समवायि पीतकपालम्, तत्समवेतद्रव्यं तदुभयारब्धघटः, तत्समवायि नीलकपालम्, तत्समवेतत्वं तत्कपालनीले समस्तीति तेन सम्बन्धेन नीलेतररूपविशिष्टं नीलं तत् त्कपालनोलम्, तत् समवायसम्बन्धेन तस्मिन् कपाले वर्तत इति तद्रूपकारणबलात् तद्घटनीलरूपं तत्रावच्छेदकतयोत्पद्यत इति तद्घटनीलस्य भवत्यव्याप्यवृत्तित्वम्, यत्र तु नीलकपालद्वयादेव नीलघट उत्पद्यते तत्र तदारम्भके कपाले नैकस्मिन्नपि निरुक्तसम्बन्धेन नीलेतररूपविशिष्टनीलरूपमिति न तत्रावच्छेदकतया नीलोत्पत्तिसम्भव इति तद्घटन लरूपस्य भवति व्याप्यवृत्तित्वमिति । अत्र विनिगमकाभावात् कार्यकारणभावमा शङ्कय प्रतिक्षिपति - न चेति । 'नीलेतरत्वाद्यवच्छिन्नम् ' इति स्थाने 'नीलेतररूपत्वाद्यवच्छिन्नम् ' इति पाठो युक्तः, आदिपदात् पीतेतररूपत्वाtore: | 'नीलविशिष्टनीलेतरत्वादिना ' इति स्थाने ' नीलविशिष्टनीलेतररूपत्वादिना ' इति पाठो युक्तः, अत्रा. दिपदात् पीतविशिष्टपीतेतररूपत्वादेर्ग्रहणम्, यत्रावयवद्वये एकजातीयमेव नीलादिरूपं तत्रावयविन्यप्येकमेव नीलादिकम्, तस्याप्यव्याप्यवृत्तित्वं न सम्भवति, यतोऽवयविनि यदि नीलरूपं तस्य पीतेतररूपत्व - रक्तेतररूपत्वाद्यन्यतमलक्षण कार्यतावच्छेदकाक्रान्तत्वं सम्भवति तत्र पीतविशिष्टपीतेतररूपाद्यन्यतमस्यैव कारणत्वं स्यात् न च पीतविशिष्टपीतेतररूपाद्यन्यतमस्य तत्र सत्वमिति, यत्र तु नील- पीतावयवाभ्यामारब्धेऽवयविनि नील-पीतोभयरूपं तत्र नीलरूपं पतितररूपत्वलक्षण कार्यतावच्छेदकावच्छिन्नं भवति, तत् प्रति पीतविशिष्टपीतेतररूपं यत् कारणं तदपि समस्तीति तस्याव्याप्यवृत्तित्वमुपपद्यते, एवमुक्तदिशा पीतरूपस्यापि तत्राव्याप्यवृत्तित्वमुपपन्नमिति, एवमुक्तदिशा विनिगमकाभावात् षण्णां कार्यकारणभावान्तराणां प्राप्तावष्टादश कार्यकारणभावा अव्याप्यवृत्तित्वपक्षेऽपि स्युरिति शङ्कितुरभिप्रायः । निषेधे हेतुमाह - नीलत्वापेक्षयेति । ' नीलेतरत्वस्य ' इति स्थाने नीलेतररूपत्वस्य ' इति पाठो युक्तः । नव्यमतवादी स्वमतमुपसंहरति- इत्थं चेतिवस्तुतः ' इत्यादिग्रन्थोक्तदिशा कार्यकारणभावोररीकारे चेत्यर्थः ।
"
૬૪
प्राचीनमतानुयायी नवीनमतं प्रतिक्षिपति तदसदिति । ' नीलादौ ' इत्यत्रादिपदात् पतिदिग्रहणम् । 'नीलेतरादि ' इति स्थाने ' नीलेतररूपादि ' इति पाठो युक्तः, तत्रादिपदात् पीतेतररूपादेः परिग्रहः, अत्र प्रतिबध्यतावच्छेदकसम्बन्धः समवायः, प्रतिबन्धकतावच्छेदकसम्बन्धश्च स्वसमवायिसमवेतत्वम्, समवायेन नीलं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन यदि नीलं न कारणं तर्हि शुक्लमात्रावयवारब्धे घटे शुक्लमेव रूपं भवति कथं न नीलमिति नाशङ्कनीयम्, तत्र