________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
निर्वाहात् ,नीलादौ नीलादिहेतुत्वाकल्पनात् कार्यकारणभावसङ्घयासाम्यात्, अव्याप्यवृत्तिनानारूप-तत्प्रागभाव.ध्वंसादिकल्पने परं परस्यैव गौरवात्। किन्च, अव्याप्यवृत्तिरूपपक्षेऽवच्छेदकतासम्बन्धेन रूपे उत्पन्ने पुनस्तेनैव सम्बन्धेनावयवे रूपोत्पत्तिवारणायाऽवच्छेदकतासम्बन्धेन रूपं प्रत्यवच्छेदकतासम्बन्धेन रूपं प्रतिबन्धकं कल्पनीयमिति गौरवम्, न चावयविनि समवायनोत्पद्यमानमेवावयवेऽवच्छेदकतयोत्पत्तुमर्हतीत्यवयविनि रूपस्य प्रतिबन्धकस्य सत्त्वेन रूपसामग्र्यभावादेव नावयवेऽवच्छेदकतया तदा रूपोत्पत्तिरिति वाच्यम् , एवं ह्यवयविनिष्ठरूपाभावोऽवच्छेदकतासम्बन्धेन रूपं प्रति हेतुर्वाच्यः, तथा च नानारूपवत्कपालारब्धघटस्य नीलरूपादेलकपालिकावच्छेदेनाऽनुत्पत्तिप्रसङ्गात् , तदवयविनि कपाले रूपसत्त्वात् , अपि च, नील पीतवत्यग्निसंयोगान् कपालनीलनाशात् तदवच्छेदेन रकं न स्यात् समवायेन रूपं प्रति तेन रूपस्य प्रतिबन्धकत्वात् , तदवच्छिन्नरूपे तदवच्छिन्नरूपस्य प्रतिबन्धकत्वकल्पने चातिगौरवम् । नीलप्रतिबन्धकस्य नीलेतररूपस्य सत्त्वेन तदभावरूपकारणाभावादेव नीलोत्पत्तेस्तत्रासम्भवात् , एवं पीतेतररूपादेः पीतरूपादिप्रतिबन्धकस्य तत्र सत्त्वेन तदभावरूप कारणाभावान्न पीताद्युत्पत्तिरपि, श्वेतरूपप्रतिबन्धकस्य श्वेतेतररूपस्य तत्राभावादेव तद्बलाच्छेतरूपोत्पत्तिस्तत्र सम्भवति, तथा च नीलादौ नीलादिषदकस्य हेतुत्वाकल्पनाच्चित्ररूपपक्षेऽपि द्वादशैव कार्यकारणभावा इति वादद्वयेऽपि कार्यकारणभावसङ्ख्यासाम्यमित्याह-कार्यकारणभावसङ्ख्यासाम्यादिति । ननु भवतु मतद्वयेऽपि कार्यकारणभावसङ्खयासाम्यम् , तथाऽपि चित्ररूप-तत्त्रागभाव-तद्धंसादिकल्पनगौरवं प्राचीनमते समस्तीत्यत आह-अव्याप्यवृत्तीति- यत्र प्राचामेकं चित्रं तत्प्रागभावादि तत्र नव्यानामनेकान्यव्याप्यवृत्तिरूपाणि तत्प्रागभावध्वंसादयश्चेति नव्यानामेव गौरवम् । परमित्यस्य किन्त्वित्यर्थः । परस्य नव्यमतानुयायिनः । नव्यमते गौरवान्तरमप्युपदर्शयति-किञ्चति । तेनैव सम्बन्धेन अवच्छेदकतासम्बन्धेनैव । ननु यदेव रूपं समवायेनावयविन्युत्पद्यते तदेव तदवयवेऽच्छेदकतासम्बन्धेनोत्पद्यते नान्यत् . अवयविनि समवायेन रूपस्योत्पत्त्यनन्तरं च न पुना रूपस्य समवायेनोत्पत्तिः, तदर्थं च समवायेन रूपं प्रति समवायेन रूपस्य प्रतिबन्धकत्वं तदभावस्य च कारणत्वम् , तथा च समवायेन रूपोत्पत्तिकारणस्य समवायसम्बन्धावच्छिन्नप्रतियोगिता करूपाभावस्य समवायेन रूपोत्पत्त्यनन्तरमभावात् पुनः समवायेन रूपं नोत्पद्यत इत्यत एवावच्छेदकतासम्बन्धेनाप्यवयवे रूपं पुनर्नोत्पत्तुमर्हतीति नावच्छेदकतासम्बन्धेन रूपं प्रत्यवच्छेदकतासम्बन्धेन रूपस्य प्रतिबन्धकत्वं कल्प्यत इति न तत्कल्पनाप्रयुक्तगौरवमित्याशङ्कय प्रतिक्षिपति-न चेति । तदा रूपोत्पत्त्यनन्तरम् । समवायसम्बधेन रूपं प्रति कारणीभूतस्य समवायसम्बन्धावच्छिन्नप्रतियोगिताकरूपाभावस्यावयविनिष्ठस्यैवावच्छेदकतासम्बन्धेन रूपं प्रत्यपि कारणत्वमायातम् , तथा च नानारूपवत्कपालद्वयारब्धे घटे यद् नील-पीतादि नानारूपं तस्याव्याप्यवृत्तित्वं तदैव स्याद् यदि नीलकपालिकावच्छेदेन घटे नीलरूपं पीतकपालिकावच्छेदेन पीतरूपमित्युपगम्येत, कपाले तूभयरूपस्यैव भावेन तदवच्छेदे. नैकैकरूपसमावेशस्य कर्तुमशक्यत्वात् , तथा च घटे जायमानं नीलादि यदि अवच्छेदकतया कपालिकायामप्युपजायेत तदा स्यात् तस्य कपालिकावच्छिन्नत्वम् , तच्च न सम्भवति घटे नीलाद्युत्पत्तितः प्रागेव कपाले समवायेन नीलादेः सत्त्वेन समवायसम्बन्धावच्छिन्नप्रतियोगिताकनीलाभावस्य कपालरूपावयविनिष्टस्य तदानीमभावेन तद्रूपकारणाभावात् कपालिकायामवच्छेदकतासम्बन्धेन नीलायुत्पत्तरसम्भवेन तद्घटेऽपि नीलरूपादेर्नीलकपालिकाद्यवच्छेदेनोत्पत्त्यसम्भवादिति निषेधहेतुमुपदर्शयति-एवं हीति । 'निष्ट' इति स्थाने 'निष्ठ' इति पाठः । 'नीलकपालिकावच्छेदेन' इति स्थाने 'नीलकपालिकाद्यवच्छेदेन ' इति पाठो युक्तः । तदवयविनि नील कपालिकाद्यवयविनि । दोषान्तरमाह- अपि चेति । नील-पीतवतीति- यत्र नील-पीतकपालद्वयारब्धे नील-पोतोभयवति घटेऽग्निसंयोगाद् नीलकपालस्य नीलनाशात् पीतकपालावच्छेदेन विद्यमानपीतरूपवत्येव घटे विनष्टनीलकपालावच्छेदेन रक्तरूपमुपजायते तद् न स्यात् , समवायसम्बन्धेन रूपं प्रति समवायसम्बन्धेन रूपं प्रतिबन्धकमिति रूपत्वेन रूपेण रक्तरूपस्यापि प्रतिबध्यतया समवायेन तत् प्रति रूपत्वेन रूपेण प्रतिबन्धकीभूतस्य नीलरूपस्य समवायेन तस्मिन् घटे सत्त्वेन समवायसम्बन्धावच्छिन्न प्रतियोगिताकरूपाभावलक्षणकारणस्य तत्राऽभावादित्यर्थः । तदवच्छिन्नरूप इति- समवायेन तदवच्छिन्नरूपं प्रति समवायेन तदवच्छिन्नरूपं प्रति