SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । अथावच्छिन्ननीलादौ नीलाभावादिषट्कमवयवगतमवयविगतं च हेतुः, रक्त-नीलारब्धे रक्तनाशक - पाकेन व्याप्यवृत्तिनीलोत्पत्तौ चावयविनि नीलाभावाभावान्नावच्छिन्न नीलोत्पत्तिः, केवलनीले पाकेन कचिद् रक्तोत्पत्तौ च प्राक्तननीलनाशादेवावच्छिन्ननीलोत्पत्तिरिति चेत् ? न - नील- पीत- श्वेताद्यारब्धे श्वेताद्यवच्छेदेन नीलजनकपाके सति प्राक्तननीलनाशेन तत्तदवच्छिन्ननानानीलकल्पनापेक्षया, एकचित्रकल्पनाया एव लघुत्वात् । अथ व्याप्यवृत्तिरूपस्याप्यवच्छेदकतया नीलादिकं प्रत्येव समवायेन नीलादेर्हेतुत्वम्, न चैवं घटेऽपि तया नीलाद्युत्पत्तिः, अवयवनीलत्वेन द्रव्यविशिष्टनीलत्वेन बन्धकम्, तदभावस्तदवच्छिन्नरूपं प्रति कारणम्, तथा च यस्मिन् नीलकपाले नीलरूपविनाशस्तत्कपालावच्छिन्नघटीयरूपे रक्तात्मके तत्कपालावच्छिन्नस्यैव रूपस्य समवायेन प्रतिबन्धकत्वेन तस्य तस्मिन् घटेऽभावात् तद्रूपकारणसत्त्वेन तत्कपाला. वच्छिन्नरक्तरूपं समवायेन घटे स्यादेवेत्युपगमे चातिगौरवमित्यर्थः । ६६ नव्यमतानुयायी शङ्कते - अथेति । अत्र समवायसम्बन्धेनावच्छिन्ननीलं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलाभावस्य कारणत्वमित्येतावताऽवयवगतस्य नीलाभावस्य कारणत्वं लभ्यते, समवायसम्बन्धेनावच्छिन्ननीलं प्रति विशेषणतासम्ब न्धेन नीलाभावस्य कारणत्वमित्यतश्चावयविगतस्य नीलाभावस्य कारणत्वम् एवं समवायसम्बन्धेनाऽवच्छिन्नपीतादिकं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन पीताभावादीनां विशेषणतासम्बन्धेन च पीताभावादीनां कारणत्वमित्येवं द्वादश कार्यकारणभावाः, तथा च यत्रावयवद्वयगतं नीलरूपमेव तत्रावयविनि नावच्छिन्ननीलेोत्पत्तिः सम्भवति, अवयवगतनीलाभावरूपकारणस्याऽभावात्, यत्र त्वेकस्मिन्नवयवे नीलमपरस्मिन् पीतम्, तदुभयारब्धे घंटे पीतक पालगत नीलाभावस्य नीलकपालगतपीताभावस्य सत्त्वादवच्छिन्ननीलस्यावच्छिन्नपीतस्य चोत्पत्तिः सम्भवति, यत्र तु नील- पीतवत्यग्निसंयोगात् कपालनीलनाशात् तत्कपालावच्छिन्नरकस्योत्पत्तिस्तत्रावयव गत रक्ताभावोऽपि विद्यतेऽवयविगतरक्ताभावोऽपीति । अवयविगतनीलाभावादिषट्कस्य कारणत्वाभ्युपगमस्य प्रयोजनमुपदर्शयति- रक्त नीलारब्ध इति यत्रैकं कपालं रकमपरं च नीलम्, तदुभयारब्धरक्त-नीलघटे रक्तनाशकपकिन कपालगतस्य घटगतस्य च रक्तस्य नाशतो घटे व्याप्यवृत्तिनीलस्योत्पत्तिस्तत्र तदुत्पत्तितः प्राग् रक्तनाशकाले एकस्मिन् कपाले नीलरूपस्य सत्त्वेऽप्यपरस्मिन् कपाले न किञ्चिद्रूपमिति तद्गतनीलाभावस्य स्वाश्रयंसमवेतत्वसम्बन्धेन घटे सत्त्वेऽपि कपालान्तरावच्छेदेन तत्र समवायेन नीलस्यैव सत्त्वेनावयविगतनीलाभावस्याभावान्नावच्छिन्ननीलोत्पत्तिः, अवयविगतनीलाभावस्य कारणत्वाभावे त्ववयवगतनीलाभावस्य तत्र सत्त्वादवच्छिन्ननीलोत्पत्त्यापत्तेः, अतोऽवयविगतनीलाभावस्यापि कारणत्वमित्यर्थः । केवलनीलकपालाभ्यामारब्धे केवलनीलघटे एकस्मिन् कपाले पाकेन नीलनाशतो यत्र रक्तोत्पत्तिस्तत्रावयविनि रक्तमप्यव्याप्यवृत्ति नीलमप्यव्याप्यवृत्ति भवति, परं तत्रैकस्मिन् कपाले नीलनाशे तद्गतनीलाभावस्य सत्त्वेऽप्यपरस्मिन् कपाले नीलस्य सत्त्वतो घटेऽपि नीलस्य सत्तया घटगतनीला भावस्यावच्छिन्ननीलकार णस्याऽभावेन तद्रूपकारणाभावात् कथं तत्रावच्छिन्ननीलोत्पत्तिरिति न वाच्यम्, तत्र घटगतस्य नीलस्य नाशादेवावच्छिन्नोत्पत्तिरित्यवय विगतनीलाभावस्यापि तत्र सत्त्वमस्त्येवेत्यर्थः । उक्ताशङ्कां प्राचीनमतानुयायी प्रतिक्षिपति नेति । नीलपीतेति- नील- पीत - श्वेतकपालैरारब्धे नील- पीत- श्वेतरूपवति घटे श्वेतावच्छेदेन नीलजनकपाके सति तदवयवावच्छेदेनापि तत्र नीलमुत्पद्यते तदर्थं पूर्वनीलस्य नाशो घटेऽप्युपेयः, अन्यथाऽवयविगतनी लाभावस्याभावात् तदवयवावच्छिन्नं नीलं न स्यात् एवं च यस्मिन्नवयवे नीलमस्त्येव तदवयवावच्छिन्नमपि नीलं घटे उत्पन्नम्, यस्मिन्नवयवे श्वेत नाशतो नीलमुत्पन्नं तदवयवावच्छिन्नमपि घटे नीलमुत्पन्नमित्येवं नानानीलबल्पनापेक्षयैकचित्ररूपकल्पनाया एव लघुत्वादित्यर्थः । ननु व्याप्यवृत्तिरूपस्याप्यवच्छेदकतयाऽवयवे सत्त्वमुपेयत एव, नीलकपालद्वयारब्धनीलघटस्यापि व्याप्यवृत्तिनीलरूपमवच्छेदकतया कपाले उत्पद्यत एव एवं च नील - पीतकपालद्वयारब्धनील- पीतरूपद्वयवद्घटस्य यद् नीलरूपं तद् नीलकपालेऽवच्छेदकतयोत्पद्यते, न पीतकपाले, पीतरूपं चावच्छेदकतया पीतकपाले, न नीलकपाले इत्यस्योपपत्तये अवच्छेदकतासम्बन्धेन नीलं प्रति समवायसम्बन्धेन नीलं कारणम्, एवमवच्छेदकतासम्बन्धेन पीतादिकं प्रति समवायसम्बन्धेन पीतादिकं कारणमित्येवोररीक्रियते इत्याशङ्कते - अथेति । ' व्याप्यवृत्तिरूपस्याध्यचच्छेदकतया नीलादिकं प्रत्येव' इति स्थाने ' व्याप्यवृत्तिरूपस्याप्यवच्छेदकतया सत्त्वाभ्युपगमेनावच्छेदकतया नीलादिकं प्रत्येव ' इति पाठो युक्तः । ' नीलादिकम् ' इत्यात्रादिपदात् पीतादेरुपग्रहः, एवं ' नीलादेः' इत्यत्रापि ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy