________________
२५३
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । शुद्धपर्यायविशिष्टं द्रव्यं विषयीक्रियते' इति, अयं च न्यायः सङ्ग्रहर्जुसूत्रयोरपि विषयविशेषे सम्भवतीति नाव्यापकत्वम् , स्वसजातीयेन वा शुद्धिप्रयुक्तविषय विशेषपर्यवसानसम्भावनाऽपीति न कश्चिद् दोषः, इत्थं चैतदवश्यमभ्युपगन्तव्यम् , उक्तापेक्षां विना " दवढिओ त्ति[ए]को" [ सम्मति० काण्ड० गाथा
__] इत्यादिना द्वयोरप्युभयरूपानेकानुप्रवेशपाठसिद्धस्य तत्र भजनाकृतविशेषस्यानुपपत्तेरिति दिक् । पयोगेनेति- सङ्कहनयो विशेषं न गृह्णाति किन्तु सामान्यमेव, नैगमनयपरम्परायां योऽन्त्यो नैगमः यत्पश्चात् सङ्ग्रहप्रवत्तिः सोऽपि यदि विशेषं न गृह्णीयान्न तर्हि तस्य सामान्यग्राहि सङ्ग्रहनयाद् विशेषः स्यात् , एवं च सङ्ग्रह एव तस्य प्रवेशो भवेदिति न नैगमस्यान्यप्रभेदः स स्यादतः स विशेषं गृह्णातीत्यभ्युपेयमिति विशेषोपयोगखरूपेणेत्यर्थः । अत एव तेन पाश्चात्यनयाद्, विशेषमनुभवता वैशिष्ट्यमाकलयतेत्यर्थः । अन्त्यनेगमेन विशेषग्राहित्वाद् विशुद्धेन नैगमस्यान्त्यप्रभेदेन, अस्य 'विषयीक्रियते' इत्यनेनान्वयः । किं विषयीक्रियत इत्यपेक्षायामाह-पर्यायविशिष्टं द्रव्यमिति- इत्थं च पर्यायविशिष्टद्रव्यमाहित्वे द्रव्यविशेषणतया पर्यायग्राहित्वान्नैगमस्य भावनिक्षेपसहत्वमायातमित्याशयः। सङ्ग्रहादीनामप्यक्तदिशा भावनिक्षेपसहत्वमित्याह-अयं च न्याय इति- पाश्चात्यनयाद् विशेषोपयोगेन वैशिष्ट्यशालिना पूर्वनयेन किञ्चिदिशेषविशिष्टद्रव्यविषयीकरणलक्षणो न्याय इत्यर्थः । “सङ्गहर्जुसूत्रयोरपि" अस्य स्थाने “सग्रहव्यवहारयो व्यवहारर्जसत्रयोरपि" इति पाठो युक्तः । उकन्यायसङ्गमनं चेत्थम्- परा-ऽपरभेदेन सङ्ग्रहस्य द्वैविध्यं प्रस्थकवसतिप्रदेशदृष्टान्ते समहस्याभ्युपगमवैचित्र्यमित्यादितः सामान्यतोऽवगम्यत एव, यदुत- सङ्ग्रहनयस्याप्यवान्तरबैलक्षण्यं समस्तीति, तथा च द्रव्यार्थिकस्यापि सङ्ग्रहस्य योऽन्त्यप्रभेदो यदनन्तरं व्यवहारनयस्य प्रवृत्तिः स पाश्चात्यव्यवहारनयेन यथाभूतं द्रव्यं विषयीक्रियते तथाभूतमेव द्रव्यं यदि गृह्णीयान्न तर्हि तस्य व्यवहारनयाद् विशेषो भवेदिति व्यवहारनयाविशिष्टः स व्यवहारनये प्रविशन्न सङ्ग्रहस्य प्रभेदो भवेदतो यद्विशेषविशिष्टं द्रव्यं व्यवहारनयो गृह्णाति तद्व्यतिरिक्तविशेषविशिष्टमेव द्रव्यं गृह्णाति, द्रव्यविशेषणतया विशेषं गृह्णतोऽपि तस्य इतराविशेषणत्वलक्षणप्राधान्येन पर्यायविषयकत्वाभावान्न पर्यायार्थिकत्वम् , द्रव्यविशेषणतया पर्यायविषयकत्वाच भावनिक्षेपसहत्वमपि युज्यते, तथा व्यवहारस्य पाश्चात्येन ऋजुसूत्रनयेन यद्विशेषविशिष्टं द्रव्यं विषयीक्रियते तद्विशेषविशिष्टमेव द्रव्यं यदि व्यवहारान्त्यप्रभेदेन विषयीक्रियेत तर्हि तस्य ऋजुसूत्रादविशिष्टत्वेन तत्रैव प्रवेशे न व्यवहारप्रभेदत्वं स्यादतस्तद्विशेषगातिरिक्तविशेषणविशिष्टमेव द्रव्यं तेन विषयीक्रियते, एवं चोक्तदिशा तस्यापि पर्यायार्थिकत्वाप्रसङ्गो भावनिक्षेपसहत्वं च घटतेतराम् , ऋजुसूत्रस्य तु कश्चिद् द्रव्यार्थिकत्वमभ्युपगच्छति, कश्चित् पुनः पर्यायार्थिकत्वं पूत्कुरुते, द्रव्यार्थिकत्वेऽपि तस्य किञ्चिद्विशेषविशिष्टद्रव्यग्राहित्वेनोपसर्जनतया पर्यायग्राहित्वाद् भावनिक्षेपसहत्वमुपपद्यतेतराम् , इत्थं चतुर्वपि द्रव्यार्थिकेषु भावनिक्षेपाभ्युपगन्तृत्वस्य सम्भवेन न तस्याव्यापकमिति युक्तमुक्तम्- ' निक्षेपा निखिलाः परैः,' इत्युपसंहरति- इति नाव्यापकत्वमिति। ननु नैगमादिप्रभेदानां सर्वेषामेकजातीयानां समानविषयत्वेन विषयभेदाभावात् प्रथमनैगमादितश्चरमनेगमादिप्रभेदेऽपि विषयविशेषसम्भावनैव नास्तीति कुत उक्तदिशा भावनिक्षेपसहत्व नैगमादीनामित्यत आह-स्वसजातीयेन वेति-प्रथमनैगमादिरविशुद्धोऽन्त्यनगमादिस्ततो विशुद्ध इत्यविशुद्धनैगमादिरेव विषयपरिशोधनव्यापृतविचारश्रेणिमारुह्योत्तरोत्तरशुद्धयाधानसमर्थपूर्वपूर्वस्वजातीयेन नेगमादिना शद्धिमासाद्य तन्निबन्धनविषयविशेषावगाहनस्वभावरूपस्य विषयविशेषपर्यवसानस्य सम्भावनाऽस्त्येवान्त्यनगमादिप्रभेदे इत्येकजातीयत्वे समानविषयत्वे च सत्यणि निरुक्तसम्भावनया भावनिक्षेपसहत्वमपि युक्तिमार्गमञ्चतीति न दोषकणिकाऽपीत्यर्थः । इत्थं च उक्तप्रकाराश्रयणतश्च । एतत् भावनिक्षेपसहत्वम्, उकापेक्षां विनेति- द्रव्यार्थिकस्यापि द्रव्यविशेषणतया पर्यायविषयत्वेन भावनिक्षेपसहत्वमिति भावनिक्षेपसहत्वे द्रव्यविशेषणतया पर्यायविषयत्वस्य याऽपेक्षा तां विनेत्यर्थः, अस्य 'भजनाकृतविशेषस्यानुपपत्तेः' इत्यत्रान्वयः । दवटिओत्ति- इयं च सम्मतिगता गाथा, अनया च गाथया इदं प्रतिपाद्यतेयदुत, केवलस्य द्रव्यस्य केवलस्य पर्यायस्य चाभावात् केवलद्रव्यग्राही द्रव्यार्थिकः केवलपर्यायग्राही पर्यायार्थिक इत्येवं शुद्धजातीयो द्रव्यार्थिकः पर्यायार्थिकश्च न विद्यते किन्तु द्रव्यार्थिकोऽपि पर्यायमवगाहते पर्यायार्थिकोऽपि द्रव्यमवगाहत इत्येवं समानविषयत्वे सति भजनाकृतो द्रव्यार्थि कपर्यायार्थिकयोर्विशेषः, भजना च तत्रोकापेक्षैवेति । द्वयोरपि द्रव्यार्थिकपर्यायाथिकनयद्वयस्यापि “उभयरूपानेकानुप्रवेश" इत्यस्य स्थाने " उभयरूपानेकान्तानुप्रवेश" इति पाठो युक्तः, उभयरूपस्य-द्रव्यार्थिकत्वपर्याथाथिकत्वोभयरूपस्यानेकान्तस्य, द्रव्यार्थिकपर्यायार्थिकनययोर्योऽनुप्रवेशस्तस्य, “दव्व.