________________
२५२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
केन द्रव्यग्रहे द्रव्यार्थिकस्यान्तर्ग/त्वप्रसक्तः, एकस्मिन् द्रव्यपक्षे पर्यायार्थिकनयमतेऽपि द्रव्यं सामायिकमित्यस्याविरोधप्रसङ्गाच्चैतन्मतस्य भाष्यकृतैव निरस्तत्वाचेति चेत् ?
अत्रेदं पर्यालोचयामः-अविशुद्धानां नैगमभेदानां नामाद्यभ्युपगमप्रवणत्वेऽपि विशुद्धनैगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगन्तृत्वान्न तत्र भावनिक्षेपानुपपत्तिः, न चैवमस्य पर्यायार्थिकत्वापत्तिः, इतराविशेषणत्वरूपप्राधान्येन पर्यायानभ्युपगमात् , शब्दादीनां पर्यायाथिकानां तु नैगमवदविशुद्ध्यभावान्न नामाद्यभ्युपगन्तृत्वमिति, नन्वेतदपि पर्यालोचनं न पर्यालोचनान्तरसहम् , स्वविषयविशुद्धिकृतापर्यायविषयताशालित्वस्य स्वविषयविशुद्धिकृतापर्यायाविषयत्वविनिर्मोकस्य वा भावनिक्षेपसहत्वस्य सङ्ग्रहर्जुसूत्रयोरव्यापकत्वात् तज्जातीयेऽविशुद्ध्यभावेनोपसर्जनीकृतपर्यायविषयतया तच्छोधनस्य दुःसाध्य. वात् , ईदृशस्य भावविषयत्वस्य सर्वानुगतत्वेन " सेसा इच्छंति सवणिक्खेवे" [
] इत्यस्य व्याघातापातादिति चेत् ? न-भावार्थानवबोधात्, ‘अन्त्यनैगमेनेतरविशेषणतया पर्यायो विषयीक्रियते' इत्यस्य ह्ययमर्थः-पाश्चात्यनयात् विशेषोपयोगेन विशेषमनुभवताऽन्त्यनैगमेन
सह भेदाभ्युपगमः कथं सङ्गच्छेतेति पर्यायार्थि कमतेऽपि गुणप्रतिपन्नमात्मद्रव्यं सामायिक स्यादेवेति पर्यायार्थिकमते गुणः सामायिकं नात्मद्रव्यमिति न सङ्गतं स्यादित्याह - पर्यायाथिकनयमतेऽपीति। एतन्मतस्य अनन्तराभिहितमतस्य ।
अत्र उक्तप्रश्ने इदम् अनन्तराभिधीयमानमेव समाधानम् , पर्यालोचयामः सम्यग्विचारयामः, इदं समाधानमपि नवं मयैव परिभावितमतः सम्यगभ्यसनीयं ग्रन्थान्तरेऽनवाप्तेरित्यावेदयितुमुत्तमपुरुषादरः, अविशुद्धानामिति-पर्यायवियुतस्य द्रव्यस्याभावान्न शुद्धो नैगमस्तद्विषयकः, किन्तु अविशुद्धनैगमविशेषा एव केवलं द्रव्यमसदपि ग्रहीतुं प्रभविष्णव इत्यविशुद्धानां नैगमविशेषाणां कञ्चित् कालं स्थिरत्वेन द्रव्यात्मकानां नाम-स्थापना-द्रव्याणां पर्यायवियुतानामभ्युपगमे समर्थत्वेऽपि विशुद्धनैगमविशेषस्य पर्यायाकलितदव्याभ्युपगन्तुर्दव्यविशेषणतया पर्यायाभ्युपगन्तृत्वान्न विशुद्धनैगमभेदे भावनिक्षेपस्यानुपपत्तिरतो द्रव्यार्थिकनयस्य निक्षेपच तुष्टयाभ्युपगन्तृत्वं सुसातमित्याशयः। नन्वेवं विशुद्धनैगमभेदस्य भावनिक्षेपाभ्युपगन्तृत्वे पर्यायाभ्युपगन्तृत्वात् पर्यायार्थि कत्वमपि स्यादित्याशय प्रतिक्षिपति-न चेति । एवं विशुद्धनैगमविशेषस्य भावनिक्षेपसहत्वाभ्युपगमे । अस्य विशुद्धनगमविशेषस्य । निषेधे हेतुमाह- इतरेति-प्राधान्येन पर्यायविषयकत्वमेव पर्यायार्थिकत्वे तन्त्रम् , प्राधान्यं चेतरा विशेषणत्वम् , विशुद्धनगमस्तु द्रव्यविशेषणतया पर्यायं गृह्णाति न तु द्रव्याविशेषणतयेतीतराविशेषणतालक्षणप्राधान्येन पर्यायविषकत्वस्य विशुद्धनैगमेऽभावान्न तस्य पर्यायार्थिकत्वापत्तिरित्यर्थः। शब्दादीनामितिशब्द-समभिरूडैवम्भूतानां पर्यायार्थिकनयानां नैगमवद् विशुद्धयविशुद्धिभेदाभावात् केवलस्य पर्यायस्य द्रव्याविशेषितस्यासतोऽपि समस्त्येव विषयत्वम् , तेषां तदेव विशुद्धत्वमिति नाम-स्थापना-द्रव्यात्मकद्रव्यविषयकत्वस्य तेषु सर्वथैवाभावान्न नामादिनिक्षेपाभ्युपगन्तृत्वं किन्तु केवलभावनिक्षेपभ्युपगन्तृत्वमेवेत्यर्थः । नैगमस्य भावनिक्षेपसहत्वमसहमानः पुनरपि शङ्कते- नन्विति । एतदपि विशुद्धनैगमविशेषस्य द्रव्यविशेषणतया पर्यायविषयकत्वेन भावनिक्षेपसहत्वस्य समर्थकमपि । पर्यालोचनमपि विचारणमपि । पर्यालो वनान्तरमेव दर्शयति- स्वविषयेति- अत्र स्वपदेन यस्मिन् नये भावनिक्षेपसहत्वमुपपादनीयं तस्य प्रहणम् । “विशुद्धिकृतापर्याय" इत्यस्य स्थाने " विशुद्धिकृतपर्याय" इति पाठः सम्यग् । निरुकभावनिक्षेपसहत्वस्य सङ्ग्रहर्जुसूत्रयोरव्यापकत्वमेव व्यवस्थापयति- तज्जातीय इति-सङ्ग्रहजातीये ऋजुसूत्रजातीये चेत्यर्थः । तच्छोधनस्य अविशुद्धिशोधनस्य । ईदृशस्य स्वविषयविशुद्धिकृतपर्यायविषयताशालित्वरूपस्य स्वविषयविशुद्धिप्रयुक्तपर्यायायाविषयत्वविनिमों कलात्वस्य वा । "सर्वानुगतत्वेन" इत्यस्य स्थाने "सर्वाननुगतत्वेन" इति पाठो युक्तः, सङ्घहर्जुसूत्रयोरव्यापकत्वात् सर्वाननुगतत्वम् , सेसा० इति - " शेषा इच्छन्ति सर्वनिक्षेपान्" इति संस्कृतम्। समाधते-नेति । स्वोक्त्यभिप्रेतार्थमेवोपदर्शयति- अन्त्यनेगमेनेति। पाश्चात्यनयादिति- नैगमनयान्तरं सङ्कहनयः प्रवर्तत इति नैगमनयात् पाश्चात्यो नयः सङ्कहनयस्तस्मादित्यर्थः, अस्य विशेषम्' इत्यनेनान्वयः । विशेषो