SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । " ननु यद्येवं पर्यायार्थिके भावनिक्षेप एव, शेषेषु चत्वारोऽपि निक्षेपा अभिमतास्तदा मङ्गलवादे यदुक्तं भाष्यकृता - " णामाइतियं दबट्ठिअस्स भावो अपज्जवणयस्स [ विशेषावश्यकभाष्यगाथा७५ ]त्ति, तत् कथं सङ्गच्छते ? तत्राह - द्रव्यार्थिके भिदां त्रये - नाम-स्थापना - द्रव्य लक्षणे मङ्गलवादेऽभिहिते, अन्यन्मतं पुरस्कृतमिति विशेषः, स्वातन्त्र्येणापि नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येति तदभिप्रायेण मतान्तरेण तत्र तथोक्तिरित्यर्थः, अत एवोक्तं तत्त्वार्थवृत्तावपि - " अत्र चाद्या नामादयस्त्रयो विकल्पा द्रव्यार्थिकस्य, तथा सर्वार्षत्वात्, पाश्चात्यः पर्यायनयस्य तथापरिणति विज्ञानाभ्याम्" इति ॥ ८३ ॥ एतन्मतावष्टम्भकमाह - २५४ द्रव्यार्थे गुणवान् जीवः, पर्यायार्थे च तद्गुणः । सामायिकमिति प्रोक्तं, यद्दिशाऽऽवश्यकादिषु ॥ ८४ ॥ नयामृत० - द्रव्यार्थ इति । यद्दिशाssवश्यकादिषु ग्रन्थेषु द्रव्यार्थिकनये गुणवान् जीव: सामायिकम्, पर्यायार्थिकनये च जीवस्य गुणः सामायिकमिति प्रोक्तं तन्मतमेतदित्यर्थः, अत्र द्रव्य-पर्याय " इत्यादिना यः पाठः - कथनं ततः सिद्धस्य । तत्र द्रव्यार्थिके पर्यायार्थिके च भजनाकृतविशेषस्यो का पेक्षां विनाऽनुपपत्तेरित्यस्मात् कारणादेतदवश्यमभ्युपगन्तव्यमित्यर्थः । 66 "" उत्तरार्द्धं व्याख्यातुमवतारयति - नन्विति । एवम् उक्तप्रकारेण । पर्यायार्थिके साम्प्रतसमभिरूढैवम्भूताख्यशब्दनये । शेषेषु पर्यायार्थिकभिन्नेष्वखिलनयेषु । णामा० इति - “ नामादित्रिकं द्रव्यार्थिकस्य भावः पर्यवनयस्य " इति संस्कृतम् । तत्राह उक्ताशङ्कायां प्रतिविधानं कथयति । भिदां त्रये इति मूलस्य विवरणं- नाम स्थापना द्रव्यलक्षणे इति, 'अभिहिते' इति पूरणम्, 'पुरस्कृतमिति विशेष:' इत्यस्य स्थाने " पुरस्कृतमिति शेषः " इति पाठो युक्तः । " स्वातन्त्र्येणापि " इत्यस्य स्थाने " स्वातन्त्र्येण " इति पाठो युक्तः । तत्र मङ्गलवादे । तथोक्तिः 'णा माइतियं दव्वट्ठिअस्स भावो अ पजवणयस्स " इत्युक्तिः । इति एवम् अर्थः उत्तरार्द्धार्थिः । अत एव उक्तमतान्तराश्रयणादेव । तत्त्वार्थवृत्तिपाठमुल्लिखति - अत्र चेति चतुर्षु निक्षेपेषु मध्ये चेत्यर्थः । आद्या नामादयः नामस्थापना-द्रव्य-भावतस्तन्न्यासः " [ तत्त्वार्थ० अ० १ सू०५ ] इति सूत्रोक्तक्रमाक्षरान्नाम स्थापना द्रव्याख्याः । विकल्पाः निक्षेपभेदाः । द्रव्यार्थिकस्य नैगम-सङ्ग्रह-व्यवहारर्जुसूत्राख्यद्रव्यार्थि क नय चतुष्टयस्याभिमताः । " तथा सर्वार्षत्वात् " इत्यस्य स्थाने “ तथा तथा सर्वार्थत्वात् " इति पाठो युक्तः, तथा तथा तेन तेन रूपेण, नामत्व-स्थापनात्व- द्रव्यत्वभावत्वैरिति यावत्, सर्वार्थत्वात् - सर्वशब्दाभिधेयत्वात् घट इत्युच्चरिते घटनाम घटा कृति द्रव्यघट-भावघटानां सर्वेषामेवावगमादित्यर्थः । पाश्चात्यः उक्तसूत्रे सर्वतः पश्चात् पठितश्चरमो भावनिक्षेपः । पर्यायनयस्य साम्प्रतसमभिरूढैवम्भूताख्यत्रिविधशब्दनयस्याभिमतः । तत्र हेतुः तथापरिणति-विज्ञानाभ्यामिति क्षणिका एवार्थक्रियाकारित्वात् सन्त इति सर्वे पदार्थाः क्षणिका एवं पूर्वपूर्वघटादिक्षणिको भाव उत्तरोत्तरघटादिभावरूपेणैव परिणमते नहि पूर्वापरकालानुगतं किञ्चिदपि नामादिकं समस्ति, अर्थक्रियाकारित्वलक्षणसत्त्वस्य क्षणिकेषु सत्त्वात् प्रतिक्षणं भिन्नभिन्नस्खरूपा एव भावा भवन्ति, त एव चार्थक्रियाविदग्धाः, नहि जलाहरणादिकाऽर्थक्रिया नामघटादितो जायते किन्तु भावघटादेवेति उत्तरोत्तरक्षणकुर्वपात्मकपूर्वपूर्वघटाद् भावघट एवं समुपजायत इति भावघटस्य भावघटात्मिका या परिणतिः कार्यं तया भावघटस्यैव भाव इत्यस्य व्यवस्थितिः तथा च घट इत्युक्ते आपामरं भावघटस्यैव प्रतीतिरुपजायते न तु नामघटादीनामिति तथाविज्ञानतो घटशब्दाद् भावघटस्य विज्ञानाद् भावघटस्वरूप एवं घट इत्यर्थः ॥ ८३ ॥ चतुरशीतितमपद्यमवतारयति एतन्मतेति द्रव्यार्थिकस्य नामादयस्त्रयो निक्षेपाः पर्यायार्थिकस्य भावनिक्षेप इत्यभ्युप• गन्तृमतेत्यर्थः । अवष्टम्भकम् उपोद्वलकं समर्थकमिति यावत् । विवृणोति - द्रव्यार्थ इतीति । द्रव्यार्थ इत्यस्य विवरण- द्रव्यार्थिकन ये इति, पर्यायार्थे चेत्यस्य विवरणं- पर्यायार्थिकनये चेति । तद्गुण इत्यस्य विवरणं
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy