________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। २५५ नययोः शुद्धद्रव्यपर्यायावेव विषयौ, तत्र पर्यायव्ययोभिन्नयोः ‘कुण्डलतापन्नं स्वर्ण, पत्रस्य नीलता' इत्यादाविव कल्पितयोर्विशेषणत्वं शब्दप्रयोगविषयत्वमिति भाष्यकृदभिप्रायः, मतान्तराभिप्रायेण तु पर्यायार्थिक एव द्रव्यस्य कल्पितस्य विशेषणत्वम् , द्रव्यार्थिके तु प्रागुपदर्शितदिशा पर्यायस्याकल्पित. स्यापि विशेषणत्वं न्याय्यमेव, उभयविषयग्राहिणा नैगमेनोभयविषयस्य सत्यताया एवाभिमानात्, घटस्य रूपादय इति प्रयोगे प्रामाणिकत्वस्यैतन्मतेनैवोपत्तेव्यवहारसङ्घहयोरुद्भूतत्वाऽनुद्भूतत्वाभ्यामे. तत्समर्थनस्य नैगमनयानतिरेकदृष्ट्यैव मलयगिर्यादिभिरुतत्वात् , अत एवोक्तं देवसूरिभिः- धर्मयो. धर्मिणोधर्म-धर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स नैकगमो नैगमः, सञ्चैतन्यमात्मनीति धर्मयोः १, वस्तु पर्यायवद्रव्यमिति धर्मिणोः २, क्षणमेकं सुखी विषयासक्तजीव इति धर्म धर्मिणोः ३"
जीवस्य गुण इति, इति यत् प्रोक्तं तदेतन्मतमवसेयमिति निरुक्तपद्यस्यार्थ इत्यर्थः। एतन्मतोपो(लकभाष्यकृदभिप्रायमुपदर्शयति- अत्रेति । द्रव्येति- द्रव्य थिकनयस्य द्रव्यमेव विषयः पर्यायार्थिकनयस्य पर्याय एव विषय इत्यर्थः । तत्रेतिद्रव्यार्थिकनये विषयोभूते द्रव्ये भिन्नस्य पर्यायस्य कलितस्य विशेषणत्वं शब्दप्रयोगविषयत्वलक्षणम् , यथा- कुण्डलतापन्नं वर्णमित्यत्र सुवर्णद्रव्ये भिन्नस्य कल्पितस्य कुण्डलतापर्यायस्य विशेषणत्वं शब्दप्रयोगविषयत्वम् , पर्यायार्थिकनये विषयीभूते पर्याये मिन्नस्य कलितस्य द्रव्यस्य विशेषणत्वं शब्दप्रयोगविषयत्वम् , यथा-पत्रस्य नीलतेत्यादौ नीलतालक्षगपर्याये भिन्नस्य कल्पितस्य पत्ररूपद्रव्यस्य विशेषणत्वं शब्दप्रयोगविषयत्वमिये भाष्यकृतोऽभिप्राय इत्यर्थः । “भावं चिय सद्दगया सेसा इच्छंति सव्वनिक्खेवे" [विशेषावश्यकभाष्यगाथा- 1 इति भाष्याभिप्रायमुपदर्थ द्रव्यार्थिकत्त्य नामादयस्त्रयो विकल्याः. भावः पर्यायार्थिकस्येति मतान्तराभिप्रेतार्थमुपदर्शयति-मतान्तराभिप्रायेण स्विति । पर्यायार्थिक एवेति-पर्यायाथिकनय एव विषयीभूते पर्याये कलितस्य द्रव्यस्य विशेषगत्वम् , द्रव्यार्थिकनये पुनः प्रागुपदर्शितदिशा 'पाश्चात्यनयाद् विशेषोपयोगेन विशेषमनुभवतोऽन्त्यनैगमेन शद्धपर्यायविशिष्टं द्रव्यं विषयीक्रियते' इति ग्रन्थोपदर्शितमार्गेण अकल्पितस्यापि-पारमार्थिकस्यापि पर्यायस्य द्रव्यार्थिकनयविषयीभूते द्रव्ये विशेषणत्वं युकोवेत्यर्थः । कथं द्रव्याथिके विषयीभूतद्रव्येऽकल्पितस्य पर्यायस्य विशेषणत्वमित्यपेक्षायामाह- उभयविषयग्राहिणेति- द्रव्यार्थिक-पर्यायार्थिकन योभयविषयसामान्यात्मकद्रव्य-विशेषात्मकार्यायोभयग्राहिणा नैगमनयेन द्रव्य-पर्यायनयोभयविषयद्रव्यपर्यायोभयस्य सत्यताया एवाभिमानादित्यर्थः । “स्यैतन्प्रतेनैवोपत्ते” इत्यस्य स्थाने “स्यैतन्मतेनैवोपपत्त" इति पाठो युक्तः । घटस्य रूपादय इत्यत्र घटोऽपि द्रव्यस्य पर्यायो रूपादयोऽपि गुणाः सहभाविपर्याया द्रव्यार्थिकस्य व्यवहारस्य विशेषविषयकस्योद्भतत्वादेव ते विषयाः, एते च व्यकपर्याय. स्वरूपेण न द्रव्यमाहिणः सङ्ग्रहस्य विषयाः, किन्त्वनुभूतं द्रव्यस्वरूपं तेषां समस्तीति तद्रूपेणानुभूतत्वादेव ते विषया इत्येवं व्यवहारसङ्ग्रहनययोरुद्भतत्वानुभूतत्वाभ्यां घटस्य रूपादय इत्यस्य समर्थनं यन्मलयगिरिप्रभृतिभिरुक्तं तदपि सामान्य-विशेषो भयविषयकस्य नैगमस्य यत् सामान्यावगाहिस्वरूपं तदभेदः सङ्घहस्य, यच्च विशेषावगाहिस्वरूपं तदभेदो व्यवहारस्येति कृत्वा नैगमनयानतिरेकाश्रयणतो नैगमनयनवेत्याह-व्यवहार-सहयोरिति । गौण-प्रधानभावेन नैगमस्य द्रव्यार्थिकस्यापि सामान्य-विशेषोभयविषयकत्वमित्यत्र देवसूरिवचनसंवादमाह-अत एवेत्ति-नेगमस्य सामान्य विशेषोभयविषयकत्वादेवेत्यर्थः । धर्मयोरिति-धर्मयोः प्रधानोपसर्जनभावेन यद् विवक्षणं स नैगमः, एवं धर्मिणोः प्रधानोपसर्जनभावेन यद् विवक्षणं स नैगमः । कथमेतत्रयाणां नैगमत्वमित्याकाडानिवृत्तये-नैकगम इति-नके अनेके गमा बोधप्रकारा यस्य स नैगम इति नैगमपदनिरुक्त्या अनेकप्रकारबोधजनकवाक्यानां नैगमत्वमिति तत्तद्वाक्यजन्यबोधस्यापि नैगमत्वमुपपद्यते । तत्र धर्मयोः प्रधानोपसर्जनभावेन विवक्षणरूपनगमस्य प्रथमस्य निदर्शनमाह- सच्चैतन्यमात्मनीति धर्मयोरिति- सच्चैतन्यमात्मनीति वाक्येन आत्मरूपधर्मिणि सत्त्वविशिष्टचैतन्यरूपधर्मस्य विधानम् , तत्र चैतन्यरूपधर्मस्य विशेष्यत्वेन प्राधान्येन विवक्षणं सत्त्वरूपधर्मस्य तत्र विशेष गत्वेनोपसर्जनतया विवक्षणमिति । धर्मिणोः प्रधानोपसर्जनभावेन विवक्षणरूपद्वितीयनैगमभेदस्य निदर्शनमाह-वस्तु पर्यायवाव्यमिति धर्मिणोरिति- अत्र वस्त्वात्मके धर्मिणि पर्यायवद्व्यरूपस्य धर्मिणस्तादात्म्येन विधानम्, तत्र द्रव्यरूपस्य धर्मिणो विशेष्यत्वेन प्राधान्येन विवक्षणम्, तत्र पर्यायरूपधर्मिणो विशेषणत्वेनोप