________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । [प्रमाण० परि० सू० ८, ९, १०.] इति, अत्र हि प्रधानोपसर्जनभावो विशेष्य-विशेषणभावेन न तु कल्पिततया, न चैवमस्य प्रमाणात्मत्वानुषङ्गः, धर्म-धर्मिणोः प्राधान्येनात्र ज्ञप्तेरसम्भवात् , तयोरन्यतर एव हि नैगमेन प्रधानतयाऽनुभूयते, प्राधान्येन द्रव्य-पर्यायद्वयात्मकं चार्थमनुभवद् विज्ञानं प्रमाणं ज्ञेयम् , नान्यत् , इत्यस्यार्थस्य तद्वन्थ एव व्यक्तत्वात् , नवा नये विशेषणं कल्पितमेवेति प्राचीनमतेऽपि नियमः, "सावजजोगविरओ" [
] इत्यत्र सङ्ग्रहनयस्वीकृतात्मसामान्यसामायिकविधिनियमनाय प्रवृत्तानां पर्यायशुद्धिमतां व्यवहारादिनयानां यावदेवम्भूतमुत्तरोत्तरपर्यायकदम्बकविशेषणोपरागे. गैव प्रवृत्तिदर्शनात् , न च तत्र पर्यायनयानां सङ्ग्रहस्वीकृतविधिविशेषपर्यवसानार्थ पर्यायविशेषणमुद्रया प्रवृत्तावपि 'सविशेषण' इत्यादिन्यायाच्छुद्धपर्यायविधावेव तात्पर्यात् , स्वविषये अन्यनयार्थविशेषणस्य
सर्जनभावेन विवक्षणम् । धर्म-धर्मिणोः प्रधानोपसर्जनभावन विवक्षणरूपतृतीयनगमभेदस्य निदर्शनमाह-क्षणमेकं सुखी विषयासकजीव इति धर्म-धभिगोरितीति-क्षगमेकं सुखी विषयासक्तजीव इति वाक्यस्य विषयासक्तजीवस्य क्षणमात्रं सुखमित्यत्र पर्यवसानम् , तत्र सुखरूपधर्मस्य विशेष्यत्वेन प्राधान्येन विवक्षणं विषयासक्तजीवरूधर्मिणो विशेषणत्वेनोपसर्जनतया विवक्षणमिति । अत्राकाल्पतत्वेन प्राधान्यं कल्पित्वेनोपसजनत्वमित्येवं प्रधानोपसर्जनभावो न, किन्तु विशेष्यत्वेन प्राधान्यं विशेषणत्वेनोपसर्जनत्वमित्येवं प्रधानोपसर्जनभाव इत्याह- अत्र हीति । “न तु कल्पिततया" इत्यस्य स्थाने “न तु कल्पिताकल्पिततया" इसी पाठो युक्तः । ननु धर्मिगो द्रव्यस्य सामान्धात्मनो धर्मस्य पर्यायात्मनो विशेषस्य च प्राहित्वात् सामान्य-विशेषोभयग्राहिण एकस्य नैगमनयस्य प्रमाणात्मकत्वं प्रसज्यत इत्याशङ्कय प्रतिक्षिपतिन चेति । एवं धर्म-धर्म्युभयग्राहिये । अस्य नैगमनयस्य । प्राधान्येन सामान्यविशेषोभयग्राहिये सत्येव सामान्यविशेषोभयात्मकवस्तुग्राहित्वाज्ज्ञानस्य प्रामाण्य मिष्टम् , नैगमस्थ वेकस्य प्राधान्येन न निरुकोभयग्राहित्वमिति न प्रमाणात्मकत्वप्रसङ्ग इति निषेधहेतुमुपदर्शयति-धर्म-धर्मिणोरिति । अत्र नैगमे । तयोः धर्म-धर्मिणोः । प्राधान्येन तयोग्रहणं नैगमेन मा भूत्, प्रधानोपसर्जनभावेन तयोर्ग्रहणादपि किं न नैगमस्य प्रमाणत्वं प्रसज्यत इत्याकाङ्कायामाहप्राधान्येनेति । नान्यदिति-प्राधान्येन द्रव्य पर्या पदयात्मकााग्राहकं ज्ञानं न प्रमागमित्यर्थः । न चायमर्थो मयैव परिभावितः किन्तु श्रीमद्भिदेवसूरिभिरेव प्रकटितोऽयं विवेक इत्याह-इत्यस्यार्थस्थति-उक्तस्वरूपस्य प्रमाण-तदन्यविवेकरूपार्थस्येत्यर्थः। तन्थ एव देवसूरिनिर्मितरत्नाकराख्यग्रन्थ एव । ननु नये विशेषणं कल्पितमेवेति नियमादकल्पितस्य विशेष्यत्वात् प्राधान्यं कल्लितस्य विशेषणत्वादुपसर्जनत्वमिति प्रधानोपसर्जनभावस्य विशेष्य-विशेषणभावरूपत्वेऽपि विशेषणस्य कल्पितत्वमायातमेवेत्याशङ्का प्रतिक्षिपति-नवेति-प्राचीनमतेऽपि नये विशेषणं कल्पितमेवेति नियमो नेत्यन्वयः । निषेधे हेतुमाहसावजेति- “सावद्ययोगविरतः" इति संस्कृतम् । इत्यत्र इत्यस्यां गाथायाम् , सङ्गहेति- सङ्ग्रहनयेन स्वीकृतो य आत्मसामान्यं सामायिकमिति विधिस्तस्य नियमनाय नियमनाथ प्रवृत्तानां पर्यायशुद्धनता- शुद्धशद्धतरशुद्धतमपर्यायावगाहिना व्यवहारादिनयाना- व्यवहारर्जुसूत्रसाम्प्रतादिनयानामेवम्भूतनयपर्यन्तमुत्तरोत्तरपर्यायकदम्बकरू यत् सङ्ग्रहनयविषयीभूतात्मसामान्यरूपविशेष्ये विशेषणं तदुपरागेणैव प्रवृत्तिदर्शनादित्यर्थः, तथा च सङ्ग्रहनयविषयात्मसामान्यस्य तत्तत्पर्यायविशेष. विशिष्टात्मसामान्यरूपतोपपादकानां व्यवहारादिनयानां विषयास्तत्तत्पर्याया विशेषणीभवन्तोऽप्यकल्पिता एव, अन्यथा तेषां कल्पितत्वे तद्विशिष्टात्म सामान्यस्वरूपपर्यवसितस्य सङ्ग्रहनयविषयस्यापि कल्पितत्वं स्यादित्याशयः । 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । तत्र "सावजजोगविरओ" इत्यादिगाथायाम् । पर्यायनयानामित्यस्य प्रवृत्तावपीत्यनेनान्वयः। सहेति- सङ्ग्रहनयेन स्वीकृतो य आत्मसामान्यलक्षणसामायिकस्य विधिस्तस्य विशेषे व्यवहारनयादिविषयीभूततत्तत्पर्याय विशिष्टात्मसामान्यसामायिकविधिस्वरूपे पर्यवसानार्थम् , पर्यायविशेषणमुद्रया प्रवृत्तावपि - पर्यायस्य विशेषणविधयाऽवगाहने प्रवृत्तावपि, *सविशेषणौ विधि निषेत्रौ विशेष्यबाधे विशेषणमुपसङ्कामत:* इति न्यायाच्छुद्धपर्यायविधावेव तात्पर्यात्, एवकारेण पर्यायविशिष्टसामान्यविधौ पर्यायस्य व्यवच्छेदः, तथा च स्वविषये सङ्ग्रहनयविषये आत्मसामान्ये, अन्यनयार्थविशेषणस्य व्यवहारादिनयविषयीभूततत्तत्पर्यायरूपविशेषणस्य, कल्पितत्वमेव एवकारेणाकल्पितत्वव्यवच्छेदः । प्रतिक्षेप