________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
ननु सर्वत्र वास्तव्येवाऽपेक्षा नयप्रवृत्तिहेतुः ? उत वैज्ञानिक्यपि ? उच्यते-कचिद् वैज्ञानिक्यपि, यत्र मतभेदोऽध्यवसायः, तथा चाह
नानानयमयो व्यक्तो मतभेदो ह्यपेक्षया।
कोव्यन्तरनिषेधस्तु प्रस्तुतोत्कटकोटिकृत् ॥ ४ ॥ नया०-नानेति । हि निश्चितम् , मतभेदः बौद्धौपनिषदादिदर्शनभेदः, नानानयमयः स्वेच्छानिवेशितत्वेनाऽनेकनयविकाररूपः, वस्तुतः प्रकृतिरूपो वा, अपेक्षया व्यक्तः, शुद्धपर्याय विशुद्धद्रव्याद्यपेक्षयैव तत्तदर्थव्यवस्थितेः। नयविशेषतात्पर्यमेतद्, न त्वपेक्षेति चेत् ? न-तात्पर्यस्यापि वस्तुसंबन्धरूपापेक्षामालम्ब्य प्रवृत्तः, असति संबन्धे तात्पर्यस्य प्रामाण्याऽप्रसरात्, सा चेयमपेक्षा वैजातिकः संबन्धः, अत एव विकल्पसिद्धस्य धर्मिणः प्रतिषेधादिसाधनमामनन्ति सांप्रदायिकाः, 'ईश्वरो नास्ति, प्रकृतिर्नास्ति' इत्यादौ विशिष्टज्ञानाकारविषयत्वेन तत्र धर्मिणो विकल्पसिद्धत्वात् । विशिष्टवस्त्वसिद्धौ
तथा ब्रह्माद्वैतकान्तस्यैवाभावेन तत्र 'अमुकापेक्षया दृष्टिसृष्टिवाद एकजीववादानुगतः, व्यापकैजीववादः, परिच्छिन्नाऽनेकजीववादः' इत्यादेर्वास्तविकापेक्षाश्रितस्यासम्भवात् , किन्तु तत्र यथामतभेदः कल्पितस्तथाऽपेक्षाभेदोऽपि कल्पित एवेति वैज्ञानिक्यपेक्षा नयप्रवृत्तिहेतुरित्यभिसन्धिः।।
विवृणोति-नानेतीति । एकनयसमुत्थमेव यद्येकदर्शनं भवेत् तदा नानानयमयत्वं न स्याद्, अपि न चैवम् , किन्तु यस्य यद् यत् खरुचितं तत् तत् तत्र सन्निवेशितम् , अतोऽनेकनयविषयविषयकत्वानानानयमय इत्याह-स्वच्छानिवेशितत्वेनेति । प्रकृतिरूपो नानानयप्रकृतिरूपः, तस्मादपि मतभेदादवान्तरनयविशेषलक्षणमतभेदप्रवृत्तिसम्भवेन प्रकृतिरूपत्वमपि बौद्धोपनिषदादिदर्शनभेदे सम्भवतीति । नन्वपेक्षामन्तरेणैव बौद्धादिदर्शनभेदो व्यक्त एवानुभूयत इति रिकमुच्यते 'अपेक्षया व्यक्तः' इत्यत आह-शुद्धति-मतभेदो हि तत्तदर्थविषयकतयैवावभासते, तत्तदर्थश्च यद्यव्यवस्थितरूप: स्यात् कथं व्यवस्थितरूपो नयभेदो भवेत् ? अव्यवस्थितरूपत्वे च संदिग्धस्वरूपतयाऽवभासमानो दर्शनभेदो व्यक्तः कथमिव भवेत् ? अतः शुद्धपर्यायापेक्षया क्षणिकत्वरूपार्थव्यवस्थित्या तद्विषयकं बौद्धदर्शनं निर्णानार्थकत्वान्निर्णीतखरूपं व्यक्तम् , एवं विशुद्धद्रव्यापेक्षया नित्य-शुद्ध-सन्मात्ररूपब्रह्मार्थव्यवस्थित्या तद्विषयकं वेदान्तदर्शनं निर्णातार्थकत्वान्नितम्वरूप व्यक्तमिति 'अपेक्षया व्यक्तः' इति युज्यते । शङ्कते-नयविशेषेति- 'शुद्धपर्यायापेक्षया क्षणिकं वस्तु' इत्यस्य ऋजुसूत्रनयतात्पर्येण वस्तु क्षणिकमित्यर्थ:, शुद्धद्रव्यापेक्षया 'सदद्वितीयं ब्रह्म' इत्यस्य सङ्ग्रहनयतात्पर्येण सन्मात्रस्वरूपं ब्रह्मेत्यर्थः, इत्थं नयविशेषतात्पर्योपवर्णनमेवापेक्षाशब्देन क्रियते, न तु तात्पर्यविशेषातिरिक्तं किञ्चिदपेक्षावाच्यमिति शङ्कार्थः । प्रतिक्षिपति-नेति । सम्बन्धे वस्तुसम्बन्धे । 'वैजातिकः सम्बन्धः' इति स्थाने 'वैज्ञानिकः सम्बन्धः' इति पाठो युक्तः । अत एव वैज्ञानिकसम्बन्धस्यापेक्षाशब्दवाच्यस्य बलादेव । विकल्पसिद्धस्येति-विकल्पो विज्ञानविशेष एव, तत्सिद्धस्य, नामान्तरेण वैज्ञानिकसम्बन्धलक्षणापेक्षासिद्धस्येत्यर्थः । विकल्पसिद्धस्य धर्मिणः प्रतिषेधादिसाधनमुदाहरणोपदर्शनेन स्पष्टयति- ईश्वरो नास्तीति- ईश्वरो नाम जगत्कर्तृत्वविशिष्टात्मस्वरूपः, प्रकृति म साम्यावस्थापनसत्त्व-रजस्तमोगुणत्रयस्वरूपा, तथा च 'ईश्वरो नास्ति'- इत्यादौ धर्मिण ईश्वरस्य 'जगत्कत्मिा ' इति विशिष्ट कारज्ञानविषयत्वेन विकल्पसिद्धत्वात्. 'प्रकृतिर्नास्ति' इत्यादौ च धर्मिणः प्रकृतेः 'साम्यावस्थापन्नं सत्त्व-रजस्तमोगुणत्रयम् ' इति विशिष्टाकारज्ञानविषयत्वेन विकल्पसिद्धत्वात् , ईश्वर-प्रकृत्यादौ निरुक्तविशिष्टाकारज्ञानविषयत्वमेव विकल्पसिद्धत्वम्,. तदेव चापेक्षा यतो वैज्ञानिकसम्बन्धोऽपेक्षा, विज्ञानं विशिष्टाकारज्ञानम् , तत्कृतो विषयत्वलक्षणः सम्बन्ध इति । ननु जगत्कर्तृत्वादिविशिष्टात्मस्वरूपं साम्यावस्थापन्नत्रिगुणस्वरूपं विशिष्टवस्त्वेवासिद्धमिति कुतस्तदाकार ज्ञानम् ? येन तद्विषयत्वेन विकल्पसिद्धत्वं भवेदिति पृच्छति- विशिष्टवस्त्वसिद्धाविति । उत्तरयत्ति-यथेति । तव नैयायिकस्य, यथा नैयायिकस्य मते गुण-कर्मान्यत्वविशिष्टसत्त्वस्य शुद्धसत्त्वानतिरिकत्वमिति शुद्धातिरिक्तं विशिष्टं नाम नास्त्येव किञ्चितू, तथापि 'गणे