________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
स्वप्राचीस्थपुरुषीयोक्तवैजात्यसाक्षात्कारत्वावच्छिन्न एव स्वप्रतीच्यवच्छिन्नावारकसंयोगत्वेन प्रतिबन्धकत्वे तु द्रव्यचाक्षुषेऽप्येवं भित्त्यादिसंयोगप्रतिबन्धकत्वेन निर्वाहे व्यवहितार्थाऽदर्शनान्यथानुपपत्त्या चक्षुःप्राप्यकारित्वसाधनप्रयासस्य वैफल्यापत्तिरिति न किञ्चिदेतत् ।
एतेन 'ताहशवैलक्षण्यसाक्षात्कारप्रयोजकतया चक्षुरादिसंयोगे तिष्ठति वैजात्यान्तरस्वीकारेणैव निर्वाहः' इति कल्पनाऽपि तेषामपास्ता, 'तद्धेतोः' इति न्यायेनाऽऽभिमुख्यविशेषेणावरणाभावविशेषेण वा निर्वाहे तादृशवैजात्यकल्पनायां महागौरवात्, अन्यापेक्षयेव स्वदेशापलेयाऽपि न्यूनाधिकतारूपवैजात्यानुभवस्यापेक्षां विनाऽनुपपत्तेश्चेति दिक् ॥ ३ ॥
भावकल्पनाऽपि परस्य न युक्ता, स्वाभ्युपगमहानिप्रसक्तरित्याह-स्वप्राचीस्थेति-एतच्च 'प्रतीच्या वस्तु, तदनन्तरं प्राच्यामावरणम् , ततः प्राच्या प्रमाता पुरुषः, तत्रावरणप्राचीस्थस्य प्रमातुरावरणप्रतीचीस्थितवस्तुपरिमाणगतवैजात्य साक्षात्कारो न भवति' तदुपपादकम् , तत्सङ्गमना चेत्थम्-स्वमावरणम् , तदवधिकप्राचीस्थः पुरुषः, तदीयवस्तुपरिमाणवैजात्यसाक्षात्कारत्वावच्छिन्ने, स्वमावरणम् , तदवधिकप्रतीच्यवच्छिन्नो य आवरकसयोगस्तत्त्वेन प्रतिबन्धकत्वम् , अत आवरणप्राचीस्थपुरुषस्य तद्वैजात्यप्रत्यक्षं न भवति, तदन्यदिगवस्थितस्य तु पुरुषस्य तत्प्रत्यक्षं भवत्येव, परमेवमभ्युपगमे अप्राप्यकार्यपि चक्षुः स्वसम्मुखस्थितं वस्तु गृह्णाति, यत् क्वचिद् भित्त्यादिव्यवहितस्य वस्तुनो न चक्षुषा ग्रहणम् , तत् स्वप्राचीस्थपुरुषीयचाक्षुषसाक्षात्कारं प्रति स्वप्रतीच्यवच्छिन्नावारकभित्त्यादिसंयोगस्य प्रतिबन्धकत्वमित्येवं दिशा प्रतिबध्यप्रतिबन्धकभावं प्रकल्प्य निर्वाह्यमिति व्यवहितार्थादर्शनस्य चक्षुषः प्राप्यकारित्वमन्तराऽप्युपपन्नत्वेन व्यवहितार्थादर्शनान्यथानुपपत्त्या चक्षुषः प्राप्यकारित्वसाधनप्रयासस्य वैफल्य पत्तिः स्यादिति ।
'एतेन' इत्यस्य 'अपास्ता' इत्यनेनान्वयः । 'चक्षुरादिसंयोगे तिष्ठति वैजात्या०' इत्यस्य स्थाने 'चक्षुरादिसंयोगनिष्ठवैजात्या०' इति पाठो युक्तः, अर्द्धनिखातादिस्थले अर्द्धनिखातवंशादिपरिमाणगतवैलक्षण्याप्रत्यक्षत्वोपपत्तये आवारकसंयोग-तादृशवलक्षण्यप्रत्यक्षयोः प्रतिबध्य-प्रतिबन्धकभावो न कल्पनीयः, किन्तु विजातीयचक्षुस्संयोग एव तादृशवैलक्षण्यसाक्षात्कारं प्रति कारणम् , अर्द्धनिखातवंशादौ चक्षुस्संयोगस्तु न विजातीय इति विजातीयचक्षुःसंयोगाभावादेव नार्द्धनिखातवंशादिपरिमाणवैलक्षण्यसाक्षात्कार इति, तथा च तादृशवलक्षण्यसाक्षात्कारप्रयोजकतया चक्षुरादिसंयोगनिष्ठवेजात्यान्तरस्वीकारेणैव तत्र चक्षुस्संयोगगतवैजात्यान्तराभावात् , तादृशलक्षण्यप्रत्यक्षाभावस्य निर्वाहः, एवकारेण निरुक्तप्रतिबध्य-प्रतिवन्धकभावकल्पनस्य व्यवच्छेदः । इति कल्पनाऽपि एवंस्वरूपा कल्पनाऽपि । तेषां परेषाम् । अपास्ता निरस्तेत्यर्थः । एतेन' इत्यतिदिष्टं निरास हेतुमुपदर्शयति- 'तद्धेतोः' इति न्यायेनेति- 'तस्य हेतुत्वकल्पनापेक्षया तद्धेतोरेव हेतुत्वं न्याय्यम्' इति सम्पूर्ण न्यायस्वरूपम्, प्रकृते चक्षुषो विषयाभिमुख्यविशेषेणाऽऽवरणाभावविशेषेण वा तादृशविजातीयचक्षस्संयोगकारणतया भवद्भिरवश्यं कल्पनीयेन, तादृशाभिमुख्यविशेषसत्त्वे आवरणाभावविशेषसत्त्वे वा तादृशवलक्षण्यसाक्षात्कारः, तयोरन्यतरस्याभावे तादृशवैलक्षण्यसाक्षात्काराभाव इत्येवं निर्वाहे सति, ताशवेजात्यकल्पनायां तादृशवैलक्षण्यसाक्षात्कारप्रयोजकतया चक्षुस्संयोगगतवैजात्यकल्पनायाम् । महागौरवात् चक्षुःसंयोगः कल्पनीयः. तद्वतं निरुक्तवैजात्यं च कल्पनीयमित्येवं महागौरवादित्यर्थः । यथा चाऽऽम्रवृक्षो निम्बवृक्षापेक्षयाऽल्पो महान् वेत्येवमनुभूयते, तथाऽऽम्रवृक्षः स्वदेशैवशाखापेक्षयाऽन्यशाखावच्छिन्नोऽल्पो महान् वेत्येवमप्यनुभूयते, तादृशानुभवस्यापेक्षा विना नोपपत्तिरित्यपेक्षात्मकान्वयबोधरूपनयसिद्धिरित्याह-अन्यापेक्षयेवेति ॥ ३ ॥
चतुर्थपद्यमवतारयति-नन्विति । 'मतभेदोऽध्यवसायः' इति स्थाने 'मतभेदाध्यवसायः' इति पाठः समुचितः । यत्र बौद्धादिदर्शने, मतभदोऽध्यवसीयते, वस्तुस्थित्या बौद्धाद्यभ्युपगतैकान्तक्षणिकादिपदार्थानामेवाभावाद् 'अमुकापेक्षया बाह्यमाभ्यन्तरं च वस्तु क्षणिकम् , अमुकापक्षया विज्ञानमांत्रमेव क्षणिक वस्तु, तथाऽमुकापेक्षया शून्यमेव तत्वम्' इत्यस्य.