________________
१२८ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । परिहर्तव्यः, प्रतीत्योत्पत्तिकधर्मसमुदायाद्धर्मिणोऽनतिरेकात्, अन्यथा तस्य सामर्थ्या-ऽसामर्थ्याभ्यां भिन्नस्य निरुपाख्यत्वापत्तेः; न च परं प्रत्यापाद्याप्रसिद्धिः, अयमकुरो यदि स्वधर्मभिन्नः स्यादकुरो न स्यात् पटवदित्यापादानार्थत्वात् । उपकारपक्षस्त्वनेकमुखानवस्थादुस्थतयोपन्यासानह एवेति । न च, क्षणिकपक्षेऽपि निरपेक्षत्वात् कदाचिदपि कार्यानुत्पत्तेः सापेक्षस्यैवार्थक्रियाकारित्वमाश्रयणीयम , तत्त्वं च नानुपकारपेक्षायामतिप्रसङ्गात्, उपकारापेक्षायां चानवस्थादौस्थ्यमेव, तथा पुञ्जात् पुञ्जोत्पत्तौ बीज. मपि पवनपाथस्तेजोऽइकुरान् जनयतीति पक्षे किं येनैव स्वभावेनाकुरं करोति तेनैव पवनादीन् अन्येन वा ? नाद्यः- एकस्वभावाधीनत्वेन कार्याणामभेदप्रसङ्गात्, पवनादिकं यदि यावदकुरप्रयोज्यं सहकारिविरहे। पर्यायवादी उत्तरयति-विरुद्धधर्माध्यास इति- 'अयमेव भेदो भेदहेतुर्वा, यदुत-विरुद्धधर्माध्यासः, स च चेन्न भेदको विश्वमेकं स्याद् ' इति वचनाद् विरुद्धधर्माध्यासस्य भेदकत्वमविगानेन मन्तव्यम् , तथा च सहकारिषु सस्सु कर्तृत्वं सहकारिविरहे त्वकर्तृत्वमित्येवं विरुद्धधर्माध्यासः स्थिरं भावं भिन्द्यादित्यर्थः। ननु यदा सहकारिसमवधानं तत्कालावच्छेदेन सहकारिषु सत्सु कर्तृत्वमित्ययं स्वभावः, यदा च न सहकारिसमवधानं तत्कालावच्छेदेन सहकारिविरहेऽकर्तृत्वस्वभाव इत्येवं कालावच्छेदकभेदे कत्रापि भावरूपधर्मिण्युक्तस्वभावदयस्य सम्भवेन न विरोध इति परिहृतविरोधस्य स्वभावदयस्थ सद्भावतो न भेदापत्तिरित्याशङ्कय प्रतिक्षिपति-न चेति । अयं निरुक्तकर्तृत्वाकर्तृत्वस्व. भावयोर्विरोधः, सहकारिसमवधाने सति कर्तृत्वस्वभावः सहकारिसमवधानादुत्पद्यते, सहकारिविरहेऽकर्तृत्वस्वभावः सहकारिविरहादुत्पद्यते इति स्वभाव-तद्वतोरभेदात् स्वभावोत्पादे स्वभाववतोऽप्युत्पत्तिरित्येवमपि भावस्य भेदः स्यादेवेति निषेधहेतुमुपदर्शयति-प्रतीत्येति- किच्चिदपेक्ष्योत्पत्तिको यो धर्मस्तत्समुदायाद्धर्मिणोऽनतिरेकादभेदात् , तथा च धर्मोत्पादे धर्मिण उत्पाद आवश्यक इति न नित्यत्वं तस्येत्यर्थः । अन्यथा धर्मसमुदायाद्धर्मिणोऽभेदानभ्युपगमें। तस्य कारणतयाऽभिमतस्य भावस्य । निरुपाख्यत्वापत्तेः अलीकत्वापत्तेः । ननु भावो यदि सामर्थ्या-ऽसामर्थ्याभ्यां भिन्नः स्यात् निरुपाख्यः स्यात् शशशृङ्गवदित्येवमापादनमत्राभिमतम् , तच्च द्रव्यवादिनं प्रति न सम्भवति, तन्मते असत्ख्यातेरनभ्युपगमेनासत आपादनासम्भवादित्याशङ्कय प्रतिक्षिपति-न चेति । परं प्रति द्रव्यवादिनं प्रति । आपाधाप्रसिद्धिरिति- यदेव क्वचित् प्रसिद्धं तस्यैवांपादनं भवति, अलीकं त्वसत्ख्यात्यनभ्युपगन्तद्रव्यार्थिकमते न क्वचित् प्रसिद्धमिति तस्यापादनं न सम्भवतीत्याशयः । निषेधहेतुमाह-अयमिति- अत्राङ्कुरभेद आपाद्यः, स च परमतेऽपि प्रसिद्ध एवेति । सहकारिभिरुपकृतः कार्य करोतीति तृतीयपक्षस्य दुष्टत्वमुपदर्शयति-उपकारपक्षस्त्विति । अनेक मुखेति- सहकारिभिराधीयमान उपकारो भावाद् भिन्नोऽभिन्नो वा?, आद्ये भेदे सम्बन्धायोगादुपकारसम्बन्धाभावादनुपकृत एव भावः स्यात्, भिन्नेनाप्युपकारेण भावे कश्चिदुपकारः क्रियत इत्युपकृतो भवति भाव इति याच्यते तदा सोऽप्युपकारो भावाद् भिन्न एवेति तस्मिन् जातेऽपि भावोऽविचलितरूप एवेत्यनुपकृत एव स्यात् , तेनाप्युपकारेणोपकारान्तराधानेऽनवस्था स्यादित्येवं दिशाऽनेकानवस्थादुःस्थत्वं बोध्यम् । द्रव्यवादिनः पर्यायवाद्यद्भावितं स्वपक्षगतदोषकदम्बकं तन्मतेऽपि संलग्नमित्याशङ्कामुद्भाव्य पर्यायवादी प्रतिक्षिपति - न चेति- अस्य ‘वाच्यम् ' इत्यनेन सम्बन्धः। तत्त्वं च सापेक्षस्वार्थक्रियाकारित्वं च । अनुपकारापेक्षायाम् उपकारेण जनकतया हीनोऽनुपकारः, अनुपकारी, एवम्भूतस्य सहकारिणोऽ. पेक्षायामित्यर्थः। अनुपकारिसहकार्यपेक्षयाऽर्थक्रियाकारित्वे बीजं यथा सलिलादिकमपेक्ष्याङ्करं करोति तथोपलखण्डादिकमपेक्ष्याप्यङ्करं विदध्यादित्येवमतिप्रसङ्गानानुपकारिसहकार्यपेक्षातः कार्यकारित्वं क्षणिकस्यापीत्याह- अतिप्रसङ्गादिति। उपकारिणं सहकारिणमपेक्ष्य क्षणिकः स्वकार्थमर्जयतीत्युपगमे उसकारेऽपि कर्तव्ये सहकारी उपकारिणं सहकारिणमपेक्षेत, अन्यथाऽतिप्रसङ्गस्यात्रापि प्रसङ्ग इत्येवमुपकारिसहकार्यपेक्षायामनवस्था क्षणिकेऽपि संलनैवेत्याह- उपकारापेक्षायां चेति। पुञ्जात् पुञ्जमुत्पद्यत इति क्षणिकवादिराद्धान्तोऽपि दोषग्रस्त एवेत्याह-तथेति । नाद्य इति- बीजं येनैव स्वभावेनाङ्करं करोति तेनैव स्वभावेन पवनादीन् करोतीति प्रथमपक्षो न युक्त इत्यर्थः । निषेधे हेतुमाह-एकस्वभावाधीनत्वेनेतिएकस्वभावेनानेककार्यकारित्वलक्षणमापादकं कारणे, आपाद्यं चाभेदः कार्येष्वित्यापाद्या ऽऽपादकयोवैयधिकरण्यादापाद्यापादकभावो न भवेदतः कार्येष्वेकस्वभावाधीनत्वस्यापादकत्वमभेदस्य चापाद्यत्वमाश्रित्येत्थमुक्तिः, तथा च कार्याणि यदि कारणैकस्वभावा