________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः।
पेक्षणीयासन्निधेर्न करोतीति चेत् ? केयं सहकारिणामपेक्षा ? किं तैः सह करोतीत्यन्वयपर्यवसितः स्वभाव (वा)भेदः १ उत तैर्विना न करोतीति व्यतिरेकिनिष्टं स्वरूपम् २, आहोस्वित् तैरुपकृतः करोती. त्युपकारभेदः ३ १, न प्रथमः-सहकार्यभावकालेऽपि स्वभावस्य तादवस्थ्यात् तदा तत्कार्यकरणापत्तेः, तत्स्वभावताइवस्थ्य एव तैः सहैव करोतीति स्वभावहानिभिया तदा न कार्य करोतीति चेत् ? स तर्हि स्वभावाभेदः सहकारिसाहित्ये सति कार्यकरणनियतः सहकारिणो न जह्यात् , प्रत्युत स्वगल एव बनीयात् । अत एव न द्वितीयः- अकर्तृस्वभावापरावृत्तेः, स हि स्वभावः कालान्तरे उपनयतोऽपि सहकारिणः पराणुद्य कार्य प्रतिबध्नीयात्, तद्विरहादकर्तृशीलः खल्वयमिति; अथ सहकारिषु सत्सु कर्तृस्वभावस्तद्विरहे त्वकर्तृरूपोऽयमित्यभिप्रायः, विरुद्धधर्माध्यासस्तर्हि भावं भिन्द्यात् ; न चायं कालभेदेन
करोति तथाऽतीतानागतक्रिये प्रति समर्थोऽतीतानागते अपि कुर्यादेवेत्यर्थः, अतीतानागतेऽर्थक्रिये' इत्यस्य स्थाने 'अतीतानागते अर्थक्रिये' इति पाठो युक्तः, अतीता चानागता चेत्यतीता ऽनागते, ते अतीतानागते इति द्वितीयाया द्विवचनान्तमेतत् , एवमर्थक्रिये अपि । समर्थोऽपि भावो वर्तमानक्रियाकरणकाले अतीता-ऽनागते अर्थक्रिये न करिष्यतीत्युपगमो न सम्भवति, तत्प्रतिपन्थिन्या 'यत्काले यस्य यत्करणसामर्थ्य तत्काले तस्य तदुत्पादकत्वम्' इति व्याप्तेः सद्भावादित्याह-यत्काल इतिअत्र : यत्काले यस्य यत्करणसामर्थ्य तस्य तत्काले तदुत्पादकत्वमिति व्याप्तेः" इति पाठो युक्तः । ननु स्थिरस्थापि भावस्य वर्तमानक्रियाकरणकाले अतीतानागते अर्थक्रिये प्रति न सामर्थ्य मतो नातीतानागते अर्थक्रिये तदानीं विदधातीत्यत आह- असमर्थत्वे विति- यद् यत्कार्य प्रति न समर्थं तत् तत्कार्य कदाचिदपि न करोति, यथाऽङ्कुरं प्रत्यसमर्थ शिलाशकलं कदाचिदपि नाङ्करं करोति, अतीतानागते अर्थक्रिये प्रति असमर्थ च प्रकृतमिति प्रयोगोऽत्र ज्ञेयः। पूर्वेतिस्थिसे भावः पूर्वकाले पूर्वकालीनं कार्य करोति. उत्तरकाले उत्तरकालीन कार्य करोतीत्येवं पूर्वा-ऽपरकालयोः कार्ययोर्यत् करणं तदभावः प्रसज्यत इत्यर्थः । द्रव्यवादो शङ्कते- समर्थोऽपीति- वर्तमानक्रियाकरणकाले भावोऽतीता-ऽनागते अर्थक्रिये प्रत्यपि समर्थ एव, किन्तु तदुत्पादनेऽपेक्षणीयस्य सहकारिणो वर्तमानक्रियाकरणकालेऽसन्निधेस्तदानीमतीता-ऽनागते अर्थक्रिये न करोतीत्यर्थः । समाधत्ते-केयमिति । तैः सहकारिभिः, एवमग्रेऽपि । 'व्यतिरेकिनिष्टम्' इत्यस्य स्थाने 'व्यतिरेकनिष्ठम्' इति पाठो युक्तः, तस्य व्यतिरेकपर्यवसितमित्यर्थः । न प्रथम इति-तैः सह करोतीति प्रथमपक्षो न युक्त इत्यर्थः, तैः सह करोतीति योऽयमस्य स्वभावः स यदि सर्वदाऽस्य भवेत् तदैव स तस्य स्वभावः स्यात्, एवं च यदा न सहकारिसमवधानं तदापि स स्वभावस्तस्य समस्त्येवेति तद्वलादतीता ऽनागते अपि अर्थक्रिये तदानीं कुर्यादेवेत्यर्थः । द्रव्यबाढी आह-तत्स्वभावेति - यदा न सहकारिसमवधानं तदानीमपि तैः सह करोतीति स्वभावस्तस्य तदवस्थ एव, यदि तदानीं कार्य कुर्यात् तर्हि सहकारिणामभावेऽपि कार्यकारित्वमापतितमस्येति तैः सह करोतीति स्वभाव एव विलायतेत्युक्तस्वभावरक्षार्थमेव तदानीं कार्य न करोतीत्यर्थः, तैः सह करोतीति स्वभावो हि सहकारिसाहित्य सति यत् कार्यकरणं तेन नियतः, यश्च येन नियतः स तस्मिन् सत्येवावतिष्ठते, अन्यथा तन्नियतत्वमेव तस्य न स्यात् , एवं च सहकारिभिः सह करोतीति स्वभावस्य सर्वदाऽवस्थाने तय पकस्य सहकारित्वे सति कार्यकरणस्यापि सर्वदावस्थानमेव, तच तदा स्याद् यदि सहकारिसाहित्यमपि सर्वदा स्यात् , अन्यथा सहकारिसाहित्ये सति कार्यकरणमित्येव न भवेत् , तथा चोक्तस्वभावरक्षार्थ पलायमानानपि सहकारिणो गले बनीयादेव, न तु कदाचिदपि जह्यादित्यर्थः । अत एव स्वस्त्रभावापरित्यागादेव । न द्वितीय इति-तैर्विना न करोतीति द्वितीयपक्षोऽपि न सम्भवतीत्यर्थः । 'अत एव' इत्यतिदिष्टमेव हेतुमुपदर्शयति- अकर्तृस्वभावापरावृत्तेरिति- सहकारिसमवधाने सत्यपि सहकारिभिर्विना न करोतीति स्वभावस्यापरावृत्तरप्रच्यवादित्यर्थः । सहकारिराहित्ये तत्कार्याकरणं तन्नियतः खलु सहकारिभिर्विना न करोतीति स्वभावः, स च सर्वदा समस्तीति तद्व्यापकं सहकारिराहित्ये सति कार्याकरणमपि सर्वदा भवेत्, तत्स्वरूपसन्निविष्टं सहकारिराहित्यमपि सर्वदैव भवितुमर्हतीति स्वसन्निधापककारणबलादापततोऽपि सहकारिणो दूरीकृत्य स्वकार्य न कुर्यादेव, अन्यथा सहकारिभिर्विना न करोतीति स्वभाव एव तस्य न सुरक्षित इत्याह-स हीति । पर हादसास्य । तद्विरहात सहकारिविरहात् । अयं स्थिरो भावः। द्रव्यवादी स्वाभिप्रायमुद्घाटयति- अथेति । तद्विरहे
पक्रियेत
करोती गयकारितासह