SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ २६ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । संबन्धत्वेनैवानतिप्रसङ्गात्, अन्यथा द्वित्वप्रत्यक्षस्य विषयतया द्वित्वत्वादावपि जायमानत्वेन व्यभिचारात् । अपेक्षाबुद्धित्वं कारणतावच्छेदकम् , तच्च मानसत्वव्याप्यो जातिविशेषः, कारणतावच्छेदकसंबन्धः स्वविषयपर्याप्तत्वम् , तेन ‘घट पटैकत्वबुद्धित्वेनापेक्षाबुद्धेर्घट-पटद्वित्वप्रत्यक्षहेतुत्वेऽनन्तकार्यकारणभावापत्तिः, द्वित्वप्रत्यक्षत्वावच्छिन्नेऽपेक्षाबुद्धित्वेन सामान्यतो हेतुत्वेऽपि घट-पटद्वित्वप्रत्यक्षकाले घट-कुध्यद्वित्वप्रत्यक्षापत्तिः, स्वविषयवृत्तित्वसंबन्धेनापेक्षाबुद्धेस्तत्रापि सत्त्वाद्, इत्यादिदूषणानवकाशः, घट-पटैकत्वबुद्धेर्घट-कुड्यद्वित्वे स्वविषयपर्याप्तत्वसंबन्धेनासत्त्वादिति व्यङ्गयत्वनयेऽपि न गौरवमिति चेत् ? न- एवं सति प्रत्यक्षवं कार्यतावच्छेदकम् , ज्ञानत्वं वा, अनुभवत्वं वेत्यादौ विनिगमकाभावात् । किञ्च, व्यङ्गयत्ववादिना मैत्रीयापेक्षाबुद्ध्या सन्निकर्षादिवशाद् द्वित्वे चत्रीयप्रत्यक्षोत्पत्तिवारणाय चैत्रीयापेक्षाबुद्धित्व-चैत्रीयप्रत्यक्षत्वादिना कार्यकारणभावो वाच्य इति गौरवमेव। अथ तव पुरुषान्तरापेक्षाबुद्धिजनितद्वित्वस्य पुरुषान्तराप्रत्यक्षत्वाय द्वित्वनिष्ठविषयतासंबन्धेन चैत्रीयप्रत्यक्षे मैत्रीयद्वित्वादिभेदस्यापि हेतुत्वं कल्पनीयम् , यद्वा चैत्रीयद्वित्वप्रत्यक्षं प्रति चैत्रापेक्षाबुद्धिजन्यद्वित्वेन हेतुता कल्पनीया, कार्यता द्वित्वप्रत्यक्षत्वस्यापेक्षाबुद्धिकार्यतावच्छेदकत्वोपगमेऽपि द्वित्ववृत्तिविषयतायाः कार्यतावच्छेदकसम्बन्धत्वमवश्यमभ्युपेयम् , विषयतामात्रस्य कार्यतावच्छेदकसम्बन्धत्वे द्वित्वप्रत्यक्षस्य तेन सम्बन्धेन द्वित्वत्वादावपि जायमानत्वेन तत्र स्वविषयपर्याप्तत्वसम्बन्धेनापेक्षाबुद्धेरभावेन व्यभिचारापत्तेरित्याह- अन्यथेति- द्वित्ववृत्तिविषयतायाः कार्यातावच्छेदकसम्बन्धत्वानभ्युपगम इत्यर्थः । तच्च अपेक्षाबुद्धित्वं च । तेन मानसत्वव्याप्यजातिविशेषरूपस्यापेक्षाबुद्धित्वस्य कारणतावच्छेदकतया स्वविषयपर्याप्तत्वस्य कारणतावच्छेदकसम्बन्धतया चाभ्युपगमेन, अस्य 'इत्यादिदूषणानवकाशः' इत्यत्रान्वयः । घट-कुड्यद्वित्वप्रत्यक्षापत्तिरिति- 'घटश्चैकः पटश्चकः' इत्याकारकापेक्षाबुद्धितो घट-पटद्वित्व प्रत्यक्षं यदोपजायते तदा घट-कुड्यद्वित्वप्रत्यक्षमपि स्यात्, द्वित्वप्रत्यक्षत्वरूपकार्यतावच्छेदकस्य घट-पद्वित्वप्रत्यक्ष इव घट-कुड्यद्वित्वप्रत्यक्षेऽपि सत्त्वात् , अपेक्षाबुद्धित्वलक्षणकारणतावच्छेदकस्य घड-कुड्यद्वित्वप्रत्यक्षं प्रति कारणे 'घटश्चैक: कुड्यं चैकम्' इत्याकारकापेक्ष बुद्धिविशेष इव 'घटश्चैकः पटश्चैकः' इत्याकारकापेक्षाबुद्धिविशेषेऽपि सत्त्वेन तद्रपेण तस्यापि घट-कुड्यद्वित्वप्रत्यक्षं प्रति कारणत्वात् , अपेक्षा. बुद्धेः कारणतावच्छेदकसम्बन्धतयाऽभ्युपगतस्य स्वविषयवृत्तित्वस्यापि 'घटश्चैक: पटश्चैकः' इत्यपेक्षाबुद्धेः स्वविषयघटवृत्तित्वमुपादाय घट-कुख्यद्वित्वे सत्त्वादित्यर्थः । स्वविषय पर्याप्तत्वस्य कारणतावच्छेदकसम्बन्धतयाऽभ्युपगमे तु घट-पटैकत्वबुद्ध्यात्मकापेक्षाबुद्धेः स्वविषयपर्याप्तत्वसम्बन्धेन घट-कुड्यद्वित्वेऽसत्त्वान्न घट-पटैकत्वबुद्धितो घट-कुड्य द्वित्वप्रत्यक्षापत्तिरित्याह-घटपटैकत्वबुद्धेरिति । समाधत्ते-नेति । एवं सति द्वित्ववृत्तिविषयत्वस्य वार्यतावच्छेदकसम्वन्धतया मानसत्वव्याप्यजातिविशेषात्मकापेक्षाबुद्धित्वस्य कारण तावच्छेदकतया स्वविषयपर्याप्तत्वस्य कारणतावच्छेदकसम्बन्धतया चाभ्युपगमेनाऽतिप्रसङ्गव्यभिचारवारणे सति । प्रत्यक्षत्वमिति- प्रत्यक्षत्वस्य कार्यतावच्छेदकत्वे यथा न कोऽपि दोषस्तथा ज्ञानत्वानुभवत्वयोरपि कार्यतावच्छेदकत्वेऽपि न कोऽपि दोष इति प्रत्यक्षत्वमेव कार्यतावच्छेदक मिति विनिगन्तुमशक्यत्वेनानेककार्य-कारणभावप्रसङ्गादित्यर्थः । व्यङ्गयत्वपक्षे गौरवान्तरमप्याह- किश्चति- चैत्रस्य चक्षुःसंयुक्तसमवायो द्वित्वे वर्तते, मैत्रस्यापेक्षाबुद्धिरस्ति, सा चापेक्षाबुद्धिः स्वविषयपर्याप्तत्वसम्बन्धेन द्वित्वे वर्तते इति तद्बलाचैत्रस्य द्वित्वप्रत्यक्षमापाद्यतेति तद्वारणाय चैत्रीयप्रत्यक्षत्वावछिन्नं प्रति चैत्रीयापेक्षाबुद्धित्वेन कारणत्वम, मैत्रीय प्रत्यक्षत्वावछिन्नं प्रति मैत्रीयापेक्षावुद्धित्वेन कारणत्वमित्येवं पुरुषभेदेनानन्तकार्य-कारणभावकल्पनगौरवं व्यङ्गयत्वपक्षे इत्यर्थः । प्रभाकरमतानुयायी शङ्कते- अथेति । तव अपेक्षाबुद्धिजन्यं द्वित्वमितिवादिनो नैयायिकस्य, मत इति शेषः; यत्पुरुषीयापेक्षाबुद्धया यद् द्वित्वं जन्यते तद्वित्वस्य तेनैव पुरुषेण प्रत्यक्षं भवति, चक्षुःसंयुत्तासमवायसन्निकर्षस्तु यथा तत्पुरुषस्य तत्र समस्ति तथा पुरुषान्तरस्यापि तत्र समस्तीति त(लात् पुरुषान्तरस्य तत्प्रत्यक्षं स्यात् , तद्वारणाय द्वित्वनिष्टविषयतासम्बन्धेन चैत्रीय प्रत्यक्ष प्रति मैत्रीयापेक्षाबुद्धिजनित
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy