SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । वच्छेदकः संबन्धो द्वित्वनिष्ठविषयता, कारकतावच्छेदकश्च तादात्म्यम्, अत एव चैत्रमैत्रापेक्षा बुद्धिभ्यां तुल्यविषयाभ्यां युगपदुत्पन्नाभ्यामुत्पादितं द्वित्वमेकमेवेति मतेऽपि न क्षतिरिति कल्पनायामधिकं गौरवमिति चेत् ? न-तगौरवस्य फलमुखत्वेनादोषत्वात् । यद्यपि द्वित्वादावपेक्षाबुद्धेनैकत्वावगाहिबुद्धित्वेन हेतुता 'अयं घट एक:' इति बुद्धितोऽपि द्वित्वोत्पत्स्यापत्तेः, नापि नानैकत्वावगाहिबुद्धित्वेन 'अयमेकश्विरविनष्टो घः' इति बुद्धितोऽपि तदापत्तेः, तथापि द्वित्वादिजनकतावच्छेदिका मानसत्वव्याच्या नाना जातयो वाच्याः, अन्यथा कदाचिद् द्वित्वं, कदाचिच्च त्रित्वमिति नियमो न स्यात् । न च स्मृतित्वव्याप्यत्वमेव तासां न कुत इति वाच्यम्, यद्व्यक्तिविशेष्यकैकत्वस्मरणं कस्यापि न जातं तत्र स्मरणानुभवकार्यद्वित्वभेदस्य देवदत्तीयाद्यपेक्षा बुद्धिजन्यद्वित्वभेदस्य च कारणत्वं कल्पनीयमिति गौरवमित्यर्थः । तादात्म्यमिति- चैत्रीयापेक्षाबुद्धिजन्यं द्वित्वं तादात्म्येन चैत्रीयापेक्षाबुद्धिजन्यद्वित्व एव वर्तते, न तु मैत्रीयापेक्षा बुद्धिजनितद्वित्वे इति तद्रूपकारणाभावान चैत्रीयद्वित्वप्रत्यक्षं द्वित्वनिष्टविषयतासम्बन्धेन मैत्रीयापेक्षा बुद्धिजन्यद्वित्वे समुत्पद्यत इति । 'अत एव' इत्यस्य 'न क्षतिः' इत्यनेनान्वयः, अत एव चैत्रीयद्वित्वप्रत्यक्षं प्रति चैत्रापेक्षाबुद्धिजन्यद्वित्वेन हेतुत्वकल्पनलक्षणद्वितीय कल्पस्याऽऽदरणादेव । चैत्र-मैत्रेति - यदैव चैत्रस्य 'घटचैकः पटश्चैकः' इत्यपेक्षाबुद्धिस्तदैव मैत्रस्यापि 'घटश्चैकः पचैकः' इति तत्समानविषयाऽपेक्षा बुद्धिः, ताभ्यामुत्पादितं घट-पटगत द्वित्वमेकमेवेति मते द्वित्वनिष्टविषयतासम्बन्धेन चैत्रीयप्रत्यक्षे मैत्रीया - पेक्षाबुद्धिजन्यद्वित्वादिभेदस्य कारणत्वमिति प्रथमकल्पे द्वित्वनिष्टविषयतासम्बन्धेन चैत्रीयप्रत्यक्षं चैत्रीयापेक्षा बुद्धिजन्यद्वित्वे समुत्पद्यते, तच्च द्वित्वं मैत्रीयापेक्षा बुद्धिजन्यद्वित्वरूपमपीति तद्भेदस्य तत्रासत्त्वा चैत्रस्यापि तत्प्रत्यक्षं न स्यादिति दोषो न भवति, चैत्रीयद्वित्वप्रत्यक्षं द्वित्वनिष्टविषयतासम्बन्धेन चैत्र-मैत्रापेक्षा बुद्धिद्वयजनितद्वित्वे वर्तते तत्र तादात्म्यसम्बन्धेन चैत्रापेक्षा बुद्धिजन्यं तदेव द्वित्वं समस्तीति, एवं कल्पनायां नैयायिकस्य मते प्रभाकरमतापेक्षयाऽधिकं गौरवमित्यर्थः । समाधत्ते - नेति । तद्गौरवस्य नैयायिकमतेऽनन्तरदर्शित गौरवस्य । फलमुखत्वेनेति - व्यङ्गयत्वपक्षे अपेक्षाबुद्धेर्द्वित्वप्रत्यक्षत्वं कार्यतावच्छेदकम् जन्यत्वपक्षे द्वित्वत्वमपेक्षाबुद्धेः कार्यतावच्छेदकमिति लाघवाज्जन्यत्वपक्षव्यवस्थितौ तत्र यस्यैवापेक्षा बुद्धया जन्यं यद् द्वित्वं तत्पुरुषस्यैव तदूद्वित्वप्रत्यक्षं नान्यपुरुषस्येत्येतदर्थं कल्पनीयस्य निरुक्तगौरवस्य फलमुखत्वेनादोषत्वादित्यर्थः । द्वित्वादिकं प्रति अपेक्षाबुद्धेर्यत् कारणत्वं तदवच्छेदकनिर्वचनाय विचारमारभते - यद्यपीत्यादिना । द्वित्वं प्रत्यपेक्षाबुद्धे रेकत्वावगाहिबुद्धित्वेन कारणत्वस्य प्रतिक्षेपे हेतुमुपदर्शयति- 'अयं घट एकः' इतीति । नापीतिद्वित्वादिकं प्रत्यपेक्षाबुद्धेर्नानेकत्वावगाहिबुद्धित्वेन कारणत्वे 'अयं घट एक:' इति बुद्धेर्नानेकत्वावगाहिबुद्धित्वाभावात् कारणात्वाभावेन न ततो द्वित्वोत्पत्त्यापत्तिः, परन्तु 'अयमेकश्विरविनष्टो घटश्चैकः' इति बुद्धेर्निरुक्तकारणावच्छेदकाक्रान्ताया द्वित्वोत्पत्त्यापतेर्न नानैकत्वावगाहिबुद्धित्वेनापेक्षाबुद्धेः कारणत्वमित्यर्थः । तथाऽपि एकत्वावगाहिबुद्धित्वेन नानैकत्वावगाहिबुद्धित्वेन वाऽपेक्षाबुद्धेः कारणत्वाऽसम्भवेऽपि । द्वित्वादीति - आदिपदात् त्रित्वादीनामुपग्रहः, तथा द्वित्वजनकतावच्छेदिकापेक्षाबुद्धिगता मानसत्वव्याप्या जातिरेका, तदन्या त्रित्वजनकतावच्छेदिका, तदन्या च चतुष्वजनकतावच्छेदिकेत्येवमपेक्षाबुद्धिगता मानसत्वव्याप्या नानाजातयो वाच्या इत्यर्थः । अन्यथा एकैवापेक्षाबुद्धिगता मानसत्वव्याप्या जातिर्द्वित्वादिकारणतावच्छेदिकेत्येवमुपगमे । कदाचिदिति- 'घटश्चैकः परश्चैकः' इत्येवम पेक्षा बुद्ध यनन्तरकाले द्विमुत्पद्यते, 'घटचैकः पटचैको मठश्चैकः' इत्येवमपेक्षा बुद्धयनन्तरकाले त्रित्वमुत्पद्यत इत्येवं नियमो न स्यात्, यैव द्वित्वकारणतावच्छेदिका मानसत्वव्याप्यजातिः ‘घटश्चैकः पटश्चैकः' इति बुद्धौ वर्तते सैव त्रित्वकारणतावच्छेदिकाऽपीति तद्रूपेण द्वित्वकारणापेक्षाबुद्धेरेव त्रित्वं प्रति कारणीभूताया अपि सत्त्वाद् द्वित्वोत्पत्तिकाले त्रित्वोत्पत्तिरपि स्यादित्यर्थः । ननु भवन्तु जातयो द्वित्वादिजनकतावच्छेदिका अपेक्षाबुद्धिगता विभिन्नाः, तासां स्मृतित्वव्याप्यत्वमेव कुतो नाङ्गीक्रियते ? इत्याशङ्कय प्रतिक्षिपति- न चेतिअस्य ‘वाच्यम्' इत्यनेनान्वयः । तासां द्वित्वादिजनकतावच्छेदकजातीनाम् । निषेधे हेतुमाह - यद्वयक्तीति - द्वित्वा दिजनकतावच्छेदकजातीनां स्मृतित्वव्याप्यत्वे स्मरणात्मकापेक्षा बुद्धित एव द्वित्वाद्युत्पत्तिर्न ज्ञानान्तरादिति ययक्तिविशेष्यकैकत्वस्मरणं कस्यापि प्रमातुन जातं तद्व्यक्तिगतद्वित्वादिकं कथमुत्पद्येतेति तदर्थं तद्व्यक्तिविशेष्यकैकत्वानुभव-तत्समरणयोः कार्य-कारण २७
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy