SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। इदमप्यत्र विचार्यते- द्वित्वादिकमपेक्षाबुद्धिजन्यं व्यङ्गयं वेति, तत्र जन्यमेवेति नैयायिकाः, व्यङ्गय. मिति प्राभाकराः । तत्र नैयायिकानामयमाशयः- द्वित्वस्य व्यङ्गयत्वनयेऽपेक्षाबुद्धेर्द्वित्वत्वप्रकारकलौकिकप्रत्यक्षत्वं कार्यतावच्छेकं वाच्यम् , जन्यत्वनये तु द्वित्वत्वमेवेति लाघवम्। न च व्यङ्गयत्वनयेऽपि लौकिकप्रकारतासंबन्धेन द्वित्वत्वमेव तत्कार्यतावच्छेदकं वक्तुं शक्यम् , गुणत्व-संख्यात्व-तव्यक्तित्वादिना विनाऽप्यपेक्षाबुद्धिं तत्प्रत्यक्षप्रसङ्गात् , तेन रूपेण तत्प्रत्यक्षं प्रति तस्या हेतुत्वकल्पने चातिगौरवात् । न च स्वाश्रयविषयतया द्वित्वत्वस्य कार्यतावच्छेदकतया न दोष इति वाच्यम्, तथापि व्यङ्गयत्वनये स्वाश्रयविषयत्वं कार्यतावच्छेदकतावच्छेदकः संबन्धः, जन्यत्वनये तु समवाय इति जन्यत्वपक्ष एवं लाघववान् । अथ द्वित्वप्रत्यक्षेऽपि प्रत्यक्षत्वमेव कार्यतावच्छेदकं द्वित्ववृत्तिविषयतायाः कार्यतावच्छेदक अत्र शिष्यबुद्धिवेशद्याय नैयायिक-प्रभाकरयोर्मन्तव्यभेदमुपदर्शयति-इदमपीति । अत्र द्वित्वादिस्वरूपपयालोचनायाम् । इदम् 'द्वित्वादिकम्' इत्याद्यनन्तरमेव वक्ष्यमाणम् । व्यङ्गयं वा अपेक्षाबुद्धिव्यङ्गयं वा। तत्र जन्य-व्यङ्गथयोर्मध्ये । जन्यमेव अपेक्षाबुद्धिजन्यमेव द्वित्वादिकम् । व्यङ्गयम् अपेक्षाबुद्धिव्यङ्गयं द्वित्वादिकम् । प्रथमं नैयायिकाभिप्रायं प्रकटयति-तत्रेति- द्वित्वादेरपेक्षाबुद्धिव्यङ्गयत्वं नामापेक्षाबुद्धिजन्यप्रत्यक्षविषयत्वमिति द्वित्वत्वप्रकारकलौकिकप्रत्यक्षत्वावच्छिन्नं प्रत्यपेक्षाबुद्धेः कारणत्वम् , अतो द्वित्वस्यापेक्षबुद्धिव्यङ्गयत्वमिति प्रभाकरमते द्वित्वत्वप्रकारकलौकिकप्रत्यक्षत्वमपेक्षाबुद्धेः कार्यतावच्छेदकमुररीकरणीयम्, द्वित्वमपेक्षाबुद्धिजन्यमिति नैयायिकमते तु द्वित्वत्वावच्छिन्नं प्रत्यपेक्षाबुद्धेः कारणत्वमिति द्वित्वत्वमेवापेक्षाबुद्धेः कार्यतावच्छेदकमिति लाघवम् , अतो द्वित्वस्यापेक्षाबुद्धिजन्यत्वमेव स्वीकरणीयमित्याशयः । ननु लौकिकप्रकारतासम्बन्धेन द्वित्वत्वावच्छिन्नं प्रत्येवापेक्षाबुद्धेः कारणत्वं द्वित्वस्य व्यङ्गयत्वपक्षेऽपि वाच्यम्, तथा च मतद्वयेऽपि कार्यतावच्छेदकं द्वित्वत्वमेवेति न लाघवं न्यायमतेऽपि प्रकारतायाश्च संसर्गतानियामकः सम्बन्धो निरूपकत्वम् , तथा च लौकिकप्रकारतासम्बन्धेन द्वित्वत्वावच्छिन्नं द्वित्वत्वप्रकारकलौकिकप्रत्यक्षमिति तस्यापेक्षाबुद्धिकार्यतया तद्विषये द्वित्वेऽपेक्षाबुद्धिव्यङ्गयत्वलाभ इत्याशङ्कय प्रतिक्षिपति- न चेति- अस्य 'शक्यम्' इत्यनेनान्वयः। तत्कार्यतावच्छेदकम् अपेक्षाबुद्धिकार्यतावच्छेदकम् । निषेधे हेतुमाह - गुणत्वेति- लौकिकप्रकारतासम्बन्धेन द्वित्वत्ववत्प्रत्यक्षमपेक्षाबुद्धिकार्यमिति तदपेक्षाबुद्धिं विना मा भवतु, गुणत्वादिना तु द्वित्वप्रत्यक्षं नापेक्षाबुद्धिकार्यमिति तदपेक्षाबुद्धिं विनाऽप्यापद्येत, यदि च गुणत्वादिना द्वित्वप्रत्यक्षं प्रत्यप्यपेक्षाबुद्धेः कारणत्वं स्वीकृत्य तद्वारणं क्रियते तदाऽतिगौरवमित्यतो व्यङ्गयत्वपक्षो न समीचीन इत्यर्थः। तत्प्रत्यक्षति- द्वित्वप्रत्यक्षेत्यर्थः । तेन रूपेण गुणत्वादिरूपेण । तत्प्रत्यक्षं प्रति द्वित्वप्रत्यक्ष प्रति । तस्याः अपेक्षाबुद्धेः । ननु स्वाश्रयविषयतासम्बन्धेन द्वित्वत्वावच्छिन्नं प्रत्यपेक्षाबुद्धेः कारणत्वम् , द्वित्वत्वप्रकारकप्रत्यक्षं यथा स्वाश्रयविषयतासम्बन्धेन द्वित्वत्ववत् तथा गुणत्वादिना द्वित्वप्रत्यक्षमपि स्वाश्रयविषयतासम्बन्धन द्वित्वत्ववद् भवतीति तदपि निरुक्तकार्यतावच्छेदकाक्रान्तमित्यपेक्षाबुद्धिं विना न तत्प्रसञ्जनसम्भव इत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेन सम्बन्धः । न्यायमते समवायेन द्वित्वत्वं कार्यतावच्छेदकमिति द्वित्वत्वनिष्टायाः कार्यतावच्छेदकताया अवच्छेदकः सम्बन्धः समवायः, स च व्यङ्गयत्वपक्षीयकार्यतानिरूपितद्वित्वत्वनिष्टावच्छेदकतावच्छेदकस्वाश्रयविषयत्वसम्बन्धापेक्षया लघुभूत इत्येवं लाघवाद् व्यङ्गथत्वपक्षो न युक्त इति निषेधहेतुमुपदर्शयति-तथापीति-स्वाश्रयविषयत्वस्य द्वित्वत्वनिष्ठकार्यतावच्छेदकतावच्छेदकसम्बन्धत्वमुपगम्यापेक्षाबुद्धि विना गुणत्वादिना द्वित्वप्रत्यक्षापत्तेारणेऽपीत्यर्थः । निषेधहेत्ववबोधाय 'लाघववान्' इति स्थाने 'लाघवात्' इति पाठो युक्तः । ननु नैयायिकमते यथा द्वित्वत्वमपेक्षाबुद्धेः कार्यतावच्छेदकं तथा प्रभाकरमते प्रत्यक्षत्वमेव तत्कार्यतावच्छेदकम् , द्वित्ववृत्तिविषयता च कार्यतावच्छेदकसम्बन्धः, तेन सम्बन्धेन द्वित्वप्रत्यक्षमेव द्वित्वे वर्तते नान्यप्रत्यक्षमिति तस्यैव प्रत्यक्षत्वेन रूपेणापेक्षाबुद्धिकार्यत्वमिति नातिप्रसङ्गो नवा गौरवमिति शङ्कते-अथेति ।
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy