SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ नामृततरविणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । १२३ विरुध्यते, असतोऽप्युपसर्जनतयाऽऽश्रयणं च कर्णशष्कुल्यवच्छिमाकाशस्य शब्दप्राहकतां वदतां तार्किकाणाम् , आनुपूर्वीविशेषविशिष्टस्य शब्दस्य श्रोत्रप्राह्यतां वदतां मीमांसकादीनां च दृश्यत एवेति भावः । यद्वा घटादेव्यार्थिकेन पर्यायविनिर्मुक्तद्रव्याकारेणैव ग्रहः, पर्यायनयेन तत्र पर्यायत्वापादने च पर्यायविशिष्टतया ग्रहणमित्येवं सूक्ष्मैक्षिकायां शुद्धसङ्ग्रहाद् अन्त्यविशेषं यावद् अव्यवस्थितिः, अन्यविशेषविकल्पे च शुद्धर्जुसूत्रलक्षणे कारणाभावादेव द्रव्योपयोगो व्यवस्थितः स्यात्- उयुपरतः स्यादिति व्याख्येयम्, न चानया व्यवस्थयवैकस्यापि बोधस्यानापत्तिः, तत्तदवान्तरभेदप्रवृत्तौ वा विषयान्तरसचारानुपपत्तिः, पर्यायान्तरजिज्ञासोपरमे तद्बोधविश्रान्तः, इति विभावनीयम् , तदिमुक्तं सम्मतौ'अवगाहमानः' इत्यनेनान्वयः, तथा च घटाद्यवग ह्यपयोगो द्रव्यार्थिकनये घटाऽपेक्षया पर्यायः सन्नपि तस्योसर्जनतां गौणतामेवावगाहते, द्रव्यस्वरूपस्य तस्य मुख्यतामवगाहत इत्यतोऽवान्तरद्रव्यार्थिको भवन् घम ध्यत इत्यर्थः । ननु पर्यायो द्रव्यार्थिकनयेऽसन्नेवेति कथं तस्योपसर्जनतयाऽऽश्रयणमित्यत आह-असतोऽपीति । तार्किकाणां नैयायिकानाम्, नन्वाकाशे कर्णशष्कुल्यवच्छेदः समस्त्येवेति कथं कर्णशष्कुल्यवच्छिन्नाकाशस्य शब्दग्राहकत्वाभ्युपगमेऽसत उपसर्जनतयाऽऽश्रयणमायातीति चेत् ? इत्थम्-श्रोत्रेन्द्रियस्य शब्देन सह समवायः सन्निकर्षः शब्दप्रत्यक्ष कारण तरिष्यते, न च शब्दस्थ समवायः कणेशष्कुलीरूपोपाधौ किन्तु शुद्धाकाशस्वरूप एव, शुद्धाकाशस्तु तन्मते निष्प्रदेश एव व्यापकः, व्यापकत्वं च देशावच्छेदराहित्ये सत्येव सर्वमूर्तसंयोगित्वलक्षणं सम्भवति, ततो देशावच्छेदरहितस्य शब्द. समवायितया शब्दप्राहकस्याकाशस्य कर्णशष्कुल्यवच्छिन्नत्वमसदेव शन्दग्रहणोपयोगितयाऽऽश्रीयते, उपसर्जनत्वं तु तस्याकाशस्वरूपेऽवर्तमानत्वेऽप्यन्यतो व्यावर्तकत्वादेवेति, मीमांसकमते व्यापकनित्यद्रव्यरूपे शब्दे एकवर्णाव्यवहितोत्तरकालवृत्तित्व. रूपस्य कालकृतक्रमावस्थानलक्षणस्यैकवर्णदेशाव्यवहितदेशवृत्तित्वरूपस्य देशकृतक्रमावस्थानलक्षणस्य वाऽनुपूर्वीस्वरूपस्याभावेऽपि व्यजकध्वनिगतस्य तस्यारोपेण तद्विशिष्टस्य शब्दस्य श्रोत्रग्राह्यत्वमित्यसत एवानुपूर्वीविशेषवैशिष्ट्यस्य शब्दातिरिक्तस्य तस्य न श्रोत्रग्राह्यत्वमत उपसर्जनतयाऽऽश्रयणमिति बोध्यम् । सूक्ष्मेक्षिकामाश्रित्य व्याख्यानान्तरं दर्शयतियद्वेति । तत्र घटादौ । पर्यायत्वापादने चेति- यद्यपि द्रव्यार्थिकमते पर्यायाभावात् पर्यायत्वं कुत्रापि नास्ति, ततस्तदापादनमपि न सम्भवति, क्वचित् सत एवापादनसम्भवात् , तथापि पर्यायनयः पर्यायमभ्युपगच्छति तत्र पर्यायत्वमपि स्वीकरोति, स द्रव्यमपि पर्यायदृष्ट्यव पश्यति, तथा च घटादिरपि तन्मते पर्याय एव तत्र पर्यायत्वज्ञानं प्रमैवेति न तस्यापादनं किन्तु द्रव्यनयस्तत्र तज्ज्ञानं भ्रान्तमेवाभिमन्यत इति तदृष्ट्या पर्यायत्वापादने' इत्युक्तिः, यदा चापादितपर्यायत्वको घटादिस्तदा पर्यायविशिष्टतया घटादेव्यस्य द्रव्यार्थिकेन ग्रहणम् । 'अन्त्यविशेषम्' इत्यत्र विषयेण विषयिणोऽन्त्यविशेषज्ञानस्याप्युपलक्षणम् । 'यावद' इति मर्यादायाम् , तेनान्त्यविशेषविकल्पं विहाय शुद्धसङ्ग्रहादारभ्योपान्त्यविशेषविकल्पपर्यन्तं द्रव्योपयोगोऽव्यवस्थितोऽव्युपरत इत्यर्थः । कारणामावादेव सामान्यावगाहित्वादेवोपयोगस्य द्रव्योपयोगतेति द्रव्योपयोगे विषयविधया द्रव्यं कारणं तदभावादेव । ननु विशेषाणामानन्त्यात् तेष्वन्त्यविशेषं परित्यज्य द्रव्योपयोगप्रवृत्त्युपगमे तत्तद्विशेषाणां स्वस्वोत्तरविशेषापेक्षया सामान्यरूपत्वाद् द्रव्योपयोगपरम्पराप्रवृत्तितो न कोऽपि द्रव्योपयोगो विश्रान्तः स्यात् , तथा तस्यैव विषयावान्तरवैलक्षण्यनिबन्धनद्रव्योपयोगावान्तराशुद्धा-ऽशुद्धतरा-ऽशुद्धतमतत्तत्पर्यायविशिष्टद्रव्यग्रहणाविच्छिन्नधारायां विषयान्तरसञ्चारोऽपि न स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । अनया व्यवस्थयेतिशुद्धसङ्ग्रहादारभ्योपान्त्यविशेषपर्यन्तं द्रव्योपयोगोऽव्युपरतोऽन्त्यविशेषविकल्पे द्रव्योपयोगो व्युपरत इति व्यवस्थयेत्यर्थः । अनापत्तिः अपर्याप्तिः, पर्याप्तस्तु बोधस्तदैव यदि तद्विषयेऽनन्तरमेव ज्ञानान्तरापेक्षा न भवति, प्रकृते यदस्य बोधस्य विषयो यदपेक्षया सामान्यं सोऽपि विशेषस्तदुत्तरविशेषापेक्षया किं सामान्य स्यादिति जिज्ञासायां तज्ज्ञानस्यैवं तद्विषयापेक्ष्यविशेषस्योत्तरविशेषापेक्षया किं सामान्यं स्यादिति जिज्ञासायां तज्ज्ञानस्यैवं ज्ञानान्तरापेक्षाया अवश्यंभावादेकस्यापि बोधस्यापर्याप्तेरित्याशयः । जिज्ञासाऽवश्यं भवत्येवेति नियमाभावेन यज्ज्ञानविषयस्य पर्यायजिज्ञासा न भवति तद्वोध एव विश्रान्तिसम्भवान्नानवस्था नवा विषयान्तरसञ्चारानुपपत्तिरिति निषेधहेतुमुपदर्शयति-पर्यायान्तरेति । उत्काथें सम्मतिसम्मतिमुपदर्शयति-तदिदमुकं सम्मताविति । पजव० इति- "पर्यायनयव्युत्कान्तं वस्तु द्रव्यार्थिकस्य
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy