________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
66 पजणयतं वत्थं दग्बट्ठिअस्स वयणिज्जं । जाव दविओवओगो अपच्छिम विकल्प णिश्वयणो " ॥ न्ति [ सम्मतौ का० १, गाथा-८ ]
व्याख्या- न विद्यते पश्चिमे विकल्प निर्वचने - सविकल्पधीर्व्यवहारलक्षणो यत्र स तथा सङ्ग्रहा वसान इति यावत्, ततः परं विकल्प वचनाप्रवृत्तेः, ईदृशो यावद् द्रव्योपयोगो प्रर्वतते तावद् द्रव्यार्थिकस्य वचनीयं वस्तु, तच पर्यायनयेन वि- विशेषण, उत्- ऊर्ध्वम्, क्रान्तमेव विषयीकृतमेव, पर्यायानाक्रान्तसत्तायां मानाभावादित्ये कोऽर्थः यद्वा यद् वस्तु सूक्ष्मतर- सूक्ष्मतमादिबुद्धिना पर्यायनयेन स्थूलरूपं त्यजता ( उत्तरत्र सूक्ष्मरूपाश्रयणात् ) व्युत्क्रान्तं गृहीत्वेदमुक्तम्, यथा किमिदं मृत्सामान्यं यत् घटादिविशेषानुपरक्तता विषयीभवेद्' इत्येवमाकारेण यात्रच्छुकुरूपतमोऽन्त्यो विशेषस्तावत् तत् सर्व द्रव्यार्थिकस्य वचनीयता यावदपश्चिमविकल्प निर्वचनो योऽन्त्यः विशेषस्तावद् द्रव्योपयोगः प्रवर्तत इति द्वितीयोऽर्थः । अत एव द्रव्य - पर्यायविषयतया तदितरातिषयतया वा न शुद्धजातीय द्रव्यार्थिक व्यवस्था, किन्तूपसर्जनी कृतानर्थ- प्रधानीकृतस्वार्थविषयतया, तदुक्तम् —
" दव्वडिओ त्ति तम्हा णत्थि गयो नियमसुद्धजाईओ । णय पज्जवट्ठिओ णाम को इ भयणाय उ विसेसो " ॥त्ति [ सम्मतौ का० १, गाथा - ९]
१२४
'चचनीयम् । यावद्द्रव्योपयोगोऽपश्चिमविकल्प निर्वचनः " ॥ इति संस्कृतम् । उक्तसम्मतिगाथां विवृणोति न विद्यत इतिअत्र 'न विद्येते विकल्प-निर्वचने सविकल्पधी व्यवहारलक्षणे यत्र स तथ। ' इति पाठः सम्यक्, तथा अपश्चिमविकल्प- निर्वचनः । ततः परं सङ्ग्रहात् परम् । इदृशः सङ्ग्रहावसानः । तञ्च द्रव्यार्थिकवचनीयं वस्तु च । उक्तगाथायाः प्रकारान्तरेण व्याख्यानमुपदर्शयति- यद्वेति । 'स्थूलरूपं त्यज्यता' इत्यस्य समर्थकम् - 'उत्तरत्र सूक्ष्मरूपाश्रयणाद्' इति । 'गृहीत्वेदमुक्तम्' इत्यस्य स्थाने ‘गृहीत्वा त्यक्तम्' इति पाठो युक्तः, गृहीत्वा त्यक्तमित्येव भावयति - यथेति । 'उपरक्तता विषयीभवेद्' इत्यस्य स्थाने 'उपरकं सद् विषयीभवेद्' इति पाठो युक्तः । ' याचच्छुक्कुरूपतमः' इत्यस्य स्थाने 'यावत्सूक्ष्मरूपतमः' इति पाठो युक्तः । 'वचनीयता' इति स्थाने 'वचनीयम्' इति पाठः सम्यक् । निर्गलितार्थमाह- यावदपश्चिमेति । अत एवेति - यत एव सङ्ग्रहावसान यावद् द्रव्योपयोगः प्रवर्तते तत् सर्वं द्रव्यार्थिक वक्तव्यं पर्यायनयेन विषयीकृतमेव, तथाऽन्त्यविशेषं यावत् पर्यायनयेन गृहीत्वा मुक्तं तत् सर्वं द्रव्यार्थिकस्य वक्तव्यमित्येवमशेषस्य द्रव्यार्थिकनयविषयस्य पर्यायनयविषयत्वमशेषस्य पर्यायार्थिकनयविषयस्य द्रव्यार्थिकनयविषयत्वमेतस्मादेव कारणात् । द्रव्येति द्रव्यविषयको नयः शुद्ध जातीयद्रव्यार्थिकः, पर्यायविषयो नयः शुद्धजातीयपर्यायार्थिक इति द्रव्येतराविषयको नय शुद्धजातीय द्रव्यार्थिकः पर्यायेतराविषयको नयः शुद्धजातीय पर्यायार्थिक इति वा व्यवस्था न सम्भवति, पर्यायार्थिकस्यापि द्रव्यविषयकत्वाद् द्रव्यार्थिकस्यापि पर्यायविषयकत्वाद् द्रव्यार्थिकस्य द्रव्येतरपर्यायविषयकत्वेन द्रव्येतराविषयकत्वासम्भवात् पर्यायार्थिकस्यापि पर्यायेतरद्रव्यविषयकत्वेन पर्यायेतराविषयकत्वासम्भवादित्यर्थः । तर्हि शुद्ध जातीय द्रव्यार्थिक पर्यायार्थिकव्यवस्था कथमिति पृच्छति किन्त्विति । उत्तरयतिउपसर्जनीकृतेति - ' उपसर्जनीकृतानर्थ' इति स्थाने 'उपसर्जनीकृतान्यार्थ ' इति पाठो युक्तः, तथा चोपसर्जनीकृतपर्याय- प्रधानीकृतद्रव्यविषयको नयः शुद्धजातीयद्रव्यार्थिकः, उपसर्जनीकृत द्रव्य-प्रधानीकृतपर्याय विषयको नयः शुद्धजातीय पर्यायार्थिक इत्येव व्यवस्था युक्तेत्यर्थः । वस्तुतो द्रव्यार्थिकेऽप्युपसर्जननया पर्यायस्य, पर्यायार्थिकेऽप्युपसर्जनतया द्रव्यस्य नियमतो विषयत्वेन न शुद्ध जातीयो द्रव्यार्थिकः पर्यायार्थिको वा व्यवस्था तु द्रव्यार्थिकत्व पर्यायार्थिकत्वाभ्यामेव न तत्र शुद्ध जातीयत्वमेव प्रविशतीति बोध्यम् । उक्तार्थे सम्मतिसंवादमाह तदुक्तमिति । दव्वट्ठिओ० इति - " द्रव्यार्थिक इति तस्मान्नास्ति नयो नियमशुद्ध जातीयः । न च पर्यवार्थिको नाम कोऽपि भजनायास्तु विशेषः " ॥ इति संस्कृतम् । भजनया तु द्रव्यार्थिक-पर्याया