SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । उदयनाचार्यास्तु-" द्वित्वप्रागभावगभँव द्वित्वसामग्री, त्रित्वप्रागभावगर्भा च त्रित्वसामग्रीति तयोविशेषः, इतोऽपि हि प्रागभावसिद्धिः, अन्यथा तयोर्विशेषो न स्यात् , पर्याप्तिसंबन्धेन द्वित्वादिकं प्रति पर्याप्तिसंबन्धेन तत्प्रागभाव एव नियामकः, अत एवैकस्मिन् न पर्याप्तिसम्बन्धेन द्वित्वादि. प्रत्ययः, तत्प्रागभावस्यैकस्मिन् पर्यायभावेन तस्यापि तदभावाद्” इत्याहुः । अथापेक्षाबुद्धिजन्यत्वे द्वित्वस्य 'द्वे द्रव्ये' इति लौकिकप्रत्यक्षानुपपत्तिः, 'अपेक्षाबुद्धिः, अथ द्वित्वम्, अथ द्वित्वत्वनिर्विकल्पकम् , ततो द्वित्वत्वविशिष्टप्रत्यक्षम् , तदैव च द्वित्वनिर्विकल्पकेन स्वोत्तरवृत्तिविशेषगुणविधया जनितोऽपेक्षाबुद्धिविनाशः, ततश्च द्वे द्रव्ये' इति लौकिकप्रत्यक्षम्, तदैव चापेक्षाबुद्धिविनाशाद् 'द्वित्वविनाशः' इति हि त्वदभिमता व्यवस्था, साऽत्रानुपपन्ना, अपेक्षाबुद्धेः स्वजन्यसंस्कारेण द्वित्वनिर्विकल्पकोत्पत्तिक्षण एव नाशात् , योग्यविभुविशेषगुणनाशं प्रति स्वोत्तरवृत्तियोग्यजातीयविभुविशेषगुणत्वेन हेतुत्वात्,सुषुप्तिप्राक्कालवर्तिज्ञाननाशकतयैव तसिद्धेः,अन्यथाऽनुभवध्वंसेनैव संस्कारान्यथासिद्धे. ___ नैयायिकधुरन्धराणामुदयनाचार्याणां मतमुपदर्शयति- उदयनाचार्यास्त्विति- अस्य 'आहुः' इत्यनेनान्वयः । तयोविशेषः द्वित्व-त्रित्वसामग्योर्भेदः। इतोऽपि द्वित्व-त्रित्वसामग्रीभेदतोऽपि । अन्यथा प्रागभावानभ्युपगमे । तयोः द्वित्व-त्रित्वसामग्र्योः । पर्याप्तिसम्बन्धन द्वित्वमुभयस्मिन्नेव, न त्वेकस्मिन् , एवं पर्याप्तिसम्बन्धेन त्रित्वं त्रिष्वेव, न त्वेकस्मिन् द्वयोर्वेत्यत्रापि प्रागभाव एव नियामक इत्याह- पर्याप्तिसम्बन्धेनेति। तत्प्रागभाव एव द्वित्वादिप्रागभाव एव । अत एव पर्याप्तिसम्बन्धेन द्वित्वादिप्रागभावस्य नियामकत्वादेव । तत्प्रागभावम्य द्वित्वादिप्रागभावस्य । तस्यापि तदभावात द्वित्वादेरप्ये कस्मिन् पर्याप्त्यभावात् । शङ्कते - अथेति । कीदृशी अपेक्षाबुद्धितो द्वित्वोत्पत्त्यभ्युपगमे नैयायिकप्रक्रिया ? यस्यां द्वित्वस्य लौकिकप्रत्यक्षानुपपत्तिरित्याकाङ्क्षायामाह- अपेक्षाबुद्धिरिति-प्रथमक्षणे अपेक्षाबुद्धिरुत्पद्यते, ततो द्वितीयक्षणे द्वित्वमुत्पद्यते, ततस्तृतीरक्षणे द्वित्वत्वनिर्विकल्पकम्, ततश्चतुर्थक्षणे द्वित्वत्वविशिष्टप्रत्यक्षम् , तदानीमेव च च 'स्वोत्तरवर्तिविशेषगुणस्य योग्यविभुविशेषगुणनाशकत्वम्' इति नियमतोऽपेक्षाबुद्धयुत्तरवर्तिविशेषगुणेन द्वित्वत्वनिर्विकरुपकेनापेक्षाबुद्धिविनाशः, ततः पञ्चमक्षणे 'द्वे द्रव्ये' इत्याकारकं द्वित्वप्रकारकद्रव्यविशेष्यकप्रत्यक्षम् , तदानीमेव चापे. क्षाबुद्धिनाशाद् द्वित्वनाश इति नैयायिकाभिमता व्यवस्थेत्यर्थः । साऽत्राऽनुपपन्ना सा व्यवस्था क्रियमाणे विचारे नोपपद्यते। प्रथमक्षणेऽपेक्षाबुद्धिः, ततो द्वितीयक्षणे द्वित्वोत्पत्तिः, तदानीमेव चापेक्षाबुद्धितः स्वविषयैकत्वविषयक: संस्कारः, तेन चापेक्षाबुद्धिजनितेन संस्कारेणापेक्षाबुद्धयुत्तरवर्तिना द्वित्वत्वनिर्विकल्पकक्षण एवापेक्षाबुद्धेर्नाशः, ततश्च यदा द्वित्वत्वविशिष्टप्रत्यक्षमभिमतं तदानीपेक्षाबुद्धिनाशाद् द्वित्वनाशे कथं द्वित्वप्रत्यक्षमित्युक्तव्यवस्थानुपपत्तौ हेतुमुपदर्शयति-अपेक्षाबुद्धिरिति- अस्य 'नाशाद्' इत्यनेनान्वयः । ननु योग्यविभुविशेषगुणनाशं प्रति स्वोत्तरवृत्तियोग्यजातीयविभुविशेषगुणत्वेन कारणत्वम् , संस्कारश्च स्वोत्तरवर्त्यपि न योग्जातीय इति न ततोऽपेक्षाबुद्धिनाशः, निर्विकल्पके तु प्रकार ता-विशेष्यता-संसर्गताभिन्ना तुरीयविषयतोपेयते, तावतैव सविकल्पकज्ञानाद् भेदे सिद्धे न तत्र निर्विकल्पकत्वं जातिः, किन्तु ज्ञानत्वमेव, तच्च योग्यमिति स्वोत्तरतियोग्यजातीयविशेषगुणेन निर्विकल्पनापेक्षाबुद्धिनाशः सम्भवतीत्यत आह-योग्यविभुविशेषगुणनाशं प्रतीति-स्वोत्तरवृत्तियोग्यजातीयविभुविशेषगुणत्वेन' इति स्थाने 'स्वोत्तरवर्तियोग्यायोग्यजातीयसाधारणविभुविशेषगणत्वेन' इति पाठो युक्तः, तथा च कारणकोटौ योग्यजातीयत्वमयोग्यजातीयत्वं वा न निवेश्यते, किन्तु योग्यविभुविशेषगुणनाशं प्रति स्वोत्तरवृत्तिविभुविशेषगुणत्वेन हेतुत्वात् स्वजन्यसंस्कारेणापेक्षाबुद्धेर्नाशसम्भवान्नैयायिकव्यवस्थाऽनुपपन्नेत्यर्थः । अत एव सुषुप्तिप्राक्कालवर्तिनो ज्ञानस्य स्वजन्यसंस्कारेण नाश इति सुषुप्तिप्राकालवर्तिज्ञाननाशकतया संस्कारसिद्धिरित्याह-सुषुप्तीति । तत्सिद्धेः संस्कारसिद्धः। अन्यथा उक्तदिशा कार्य-कारणभावानभ्युपगमे सुषुप्तिप्राकालवर्तिज्ञाननाशकत या संस्कारसिद्धयभावे । स्मरणं प्रति यदनुभवस्य करणत्वं तश्यापारतया संस्कारः कल्प्यते, परं संस्कारस्य तथाऽकल्पनेऽप्यनुभवध्वंस एवानुभवव्यापारः,
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy