________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
भेदकल्पनात् , 'गिरिरयं वह्निमान् , अहं तज्ज्ञानवान्' इत्यनुमिति-प्रत्यक्षयोरिव । अथ तत्र भिन्नविषयेऽनुमितिसामग्र्याः प्रतिबन्धकत्वादस्तु तयोर्युगपदनुत्पादः, न तु प्रकृते इति चेत् ? तर्हि प्रतिबन्धकं किश्चिदत्रापि कल्प्यताम् , अन्यथानुपपत्तबलीयस्त्वात् । अस्तु वा तत्रापेक्षाबुद्धावुभयजनकतावच्छेदको जातिविशेषः, आस्तां च द्वित्व-त्रित्वयोस्तज्जन्यतावच्छेदको जातिविशेषः । एतेन 'समवाय्यसमवायि-निमित्तकारणानामविशिष्टत्वे द्वित्व-त्रित्वाद्युत्पत्तिनियमे किं कारणम् ? द्वाभ्यामेकत्वाभ्यां द्वित्वम् , त्रिभित्रित्वमारभ्यत इति वक्तुमशक्यत्वाद्, एकत्वेषु द्वित्वादेरभावात्, न च शुद्धयाऽपेक्षाबुद्ध्या द्वित्वम् , द्वित्वसहितया च तया त्रित्वमुत्पाद्यत इत्यपि सुवचम् , द्वित्व-त्रित्वयोर्युगपदेवोक्तप्रत्ययविषयत्वात् , न चैकत्वेष्विव द्वित्वादिजनकतावच्छेदका जातिविशेषा अभ्युपेयाः, तत एव द्वित्वादिव्यवहारोपपत्तौ द्वित्वाधुच्छेदप्रसङ्गाद् , इत्यादिपर्यनुयोगो निरस्तः, अपेक्षाबुद्धिनिष्ठद्वित्व-त्रित्वादिजनकतावच्छेदकजातिभेदेनैव तयोः सामग्रीभेदात् , एकापेक्षाधीजघन्यद्वित्व-त्रित्वयोरन्यत्र परिदृष्टभेदवज्जातीयत्वेनैव भेदात् ।
तयोः अनुमिति-प्रत्यक्षयोः । समाधत्ते-तहाँति । प्रतिबन्धकं द्वित्वोत्पादकतत्पुरुषीयापेक्षाबुद्धि काले त्रित्वोत्पादकतत्पुरुषीयापेक्षाबुद्धयुत्पादप्रतिबन्धकम् । अत्रापि अपेक्षाबुद्धावपि । प्रमाणाभावात् तत्कल्पनं न न्याय्यमिति चेत् ? तत्राहअन्यथानुपपत्तेरिति- यदि प्रतिबन्धकं किञ्चिन्न कल्प्येत तर्हि द्वित्वोत्पादकापेक्षाबुद्धि-त्रित्वोत्पादकापेक्षाबुद्धिसामग्र्योः सत्वाज्ज्ञानद्वययुगपदुत्पत्तिनिषेधादेकैवापेक्षाबुद्धिर्द्वित्वोत्पादिका त्रित्वोत्पादिका च भवेदिति तत्र द्वित्वजनकतावच्छेदक-त्रित्वजनकतावच्छेदकजात्योः साङ्कर्य स्यात् , जातिसाङ्कयं च नेष्टमिति तत्परिहारान्यथानुपपत्तेर्बलीयस्याः सत्त्वात् किश्चित् प्रतिबन्धक कल्प्यत इत्यर्थः । अथवा तत्रैकैवापेक्षाबुद्धिर्द्वित्व-त्रित्वोभयजनिका, किन्तु या द्वित्वमात्रजनकतावच्छेदिका या च त्रित्वमात्रजनकतावच्छेदिका जातिः, तयोस्तत्र नाऽभ्युपगमः, द्वित्व-त्रित्वोभयजनकतावच्छेदिकाऽन्यव जातिस्तत्रोपेयते, तादृशापेक्षाबुद्धिजन्क्योत्वि-त्रित्वयोरपि जातिविशेषस्तादृशापेक्षाबुद्धिजन्यताऽवच्छेदकोऽन्य एव कल्प्यते, इत्थमपि न कश्चिद् दोष इत्याह- अस्तु वेति । जम्यतावच्छेदकः अपेक्षाबुद्धिजन्यतावच्छेदकः । 'एतेन' इत्यस्य 'निरस्तः' इत्यनेनान्वयः । द्वित्व-त्रित्वाद्यत्पत्तिनियमे कदाचिद् द्वित्वमुत्पद्यते, कदाचित् त्रित्वमुत्पद्यत इति नियमे । किं कारणम्' इत्यत्र किम आक्षेपे, न किश्चित् कारणमिति तदर्थः । द्वाभ्यामेकत्वाभ्यां द्वित्वमुत्पद्यत, त्रिभिरेकत्वैस्त्रित्वमुत्पद्यत इति नियमस्तु तदा वक्तुं शक्यो यद्येकत्वेषु द्वित्व-त्रित्वादिकं समवेयात् , न चैवम् , गुणे गुणानङ्गीकारादित्याह-द्वाभ्यामिति । 'न च' इत्यस्य 'सुवचम्' इत्यनेनान्वयः। 'द्वित्वम्' इत्यस्य 'उत्पाद्यते' इत्यनेनान्वयः । तया अपेक्षाबुद्धया । उत्तप्रत्ययविषयत्वात् 'इमौ द्वौ मधुपौ, इमे त्रयः कमल-कहार-कलहंसाः' इतिप्रत्ययविषयत्वात् । ननु द्वित्वजनक विजातीयमेकत्वम् , विजातीयं च त्रित्वजनकमेकत्वम् , तथा च तादृशकारणलक्षण्याद् द्वित्व-त्रित्वाद्युत्पत्तिनियमो भविष्यतीत्याशङ्कय प्रतिक्षिपति-न चेति । 'न चैकत्वेष्विव' इति स्थाने 'न चैकत्वेष्वेव' इति पाठो युक्तः, 'न च' इत्यस्य 'अभ्युपेयाः' इत्यनेनान्वयः । निषेधे हेतुमाह-तत एवेति- यदि द्वित्वकारणं विजातीयमेकत्वम्, विजातीयं च त्रित्वकारणमेकत्वम्, तर्हि द्वित्वादिकल्पना निरर्थिका, विजातीयैकत्वेन द्वित्वव्यवहारो विजातीयैकत्वेन त्रित्वव्यवहार इत्येवं विजातीयकत्वत एव द्वित्वादिव्यवहारोपपत्ती द्वित्वाद्यच्छेदप्रसङ्गादित्यर्थः । 'एतन' इत्यतिदिष्ट निरासहतमुपदर्शयतिअपेक्षाबुद्धिनिष्ठेति । तयोः द्वित्व-त्रित्वयोः । एकापेक्षाबुद्धिजन्ये द्वित्व-त्रित्वे चान्यद्वित्व-त्रित्वतो विजातीये, अन्यद्वित्वजनकविजातीयापेक्षाबुद्धितो विजातीयापेक्षाबुद्धिजन्य इति तयोरन्यद्वित्व-त्रित्वतो भेदादवेकदोत्पत्तिरपि युज्यत इत्याह एकापेक्षेति । 'एकापेक्षाधीजन्यद्वित्व-त्रित्वयोः' इत्यस्य 'भेदाद्' इत्यनेनान्वयः। अन्यत्र अन्ययोदित्व-त्रित्वयोः, परिदृष्टा या जातिस्तद्भेदवती- तद्भिन्ना, या जातिस्तद्वत्त्वेनैव, एकापेक्षाधीजन्यद्वित्व-त्रित्वयोः, भेदाद् अन्यद्वित्व-त्रित्वाभ्यां भिन्नत्वात् , तत एव चान्यद्वित्व-त्रित्वयोर्विभिन्नापेक्षाबुद्धिजन्यत्वाद् विभिन्नकालोत्पत्तिकत्वेऽप्यनयोरेकापेक्षाबुद्धिजन्यत्वादेककालिकोत्पत्तिकत्वमविरुद्धमित्याशयः ।