________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
mmmnnnnnnnnnnn
नादिकार्यता(कारणता)स्वाव्यवहितोचरानुमिति]त्व-मोक्षत्वादिना । किञ्च, धारावाहिस्थले कार्यैककल्पनिरासाय तत्तत्क्षणत्वेन कालस्य कारणताऽवश्यं वाच्या, पूर्वपूर्वघटज्ञानानां घटत्वरूपविशेषणज्ञानत्वेनोत्तरघटज्ञानहेतुतया तत्र कार्य कालस्य निराकर्तुमशक्यत्वात् , एकज्ञानकाले द्वितीयादिसकलोत्पत्ते१र्वारत्वात् । तथा कार्यैकदेश्यनिरासाय तत्तद्देशी[य]कारणताप्यवश्यं वाच्या, कथमन्यथा इह सामग्रीसमवधानादेतद्घटोत्पत्तिर्न स्यात्, इत्ययं कालधर्मानुप्रवेशेन ऋजुसूत्रनयेन स्वभाव-नियत्योापारोऽवश्य प्रतिपचव्यः, सामान्यतः कालहेतुतायाः प्रागभावसमवायिकारणविधया स्वभाव-नियतिहेतुतायाश्च तस्य चवं सङ्गमनं- यथैकघटादावेकदेवोत्पन्नानां पाकजरूप-रस-गन्ध-स्पर्शानां मध्ये यदेव घटाघेकस्य समवायिकारणं तदेवापरस्यापि, य एव च तेजस्संयोगविशेषलक्षणपाक एकस्यासमवायि कारणं स एवापरस्यापीत्येवं समवायिकारणा-ऽसमवायिकारणात्मककारणभेदाभावेऽपि रूपप्रागभावादीनां निमित्तकारणानां भेदाद् रूप-रस-गन्ध-स्पर्शात्मककार्याणां भेदः, तथा धारावाहिकस्थलेऽपि पूर्वोत्तरक्रमेणोत्पन्नानां ज्ञानानां प्रागभावलक्षणनिमित्तकारणभेदाद् भेदः सम्भवेदपि, किन्तु पाकजानां भिन्नप्रागभावलक्षणकारणप्रभवाणां युगपदेवोत्पत्तेर्भावाद् यथैककालत्वं तथा भिन्नप्रागभावलक्षणकारणप्रभवाणां धारावाहिकज्ञानानामपि युगपदुत्पत्तिप्रसङ्गत एक कालत्वमापाद्यतेत्यतस्तद्वारणायेत्यर्थः । तत्तत्क्षणत्वेनेति-तत्तज्ज्ञानं प्रति तत्तज्ज्ञानाव्यवहितपूर्वतत्तत्क्षणत्वेन कालस्य कारणत्वम्, तथा च कारणीभूतानां तत्तत्क्षणानामेकदाऽसतां कालैकत्वाभावात् तत्कार्याणामपि ज्ञानानां नैककालत्वमित्यर्थः । पूर्वपूर्वघटनानानामिति- पूर्वपूर्वघटज्ञानानामुत्तरोत्तरघटज्ञानानि प्रति यः कार्यकारणभावः स तत्तद्भटज्ञानं प्रति तत्तद्धटज्ञानाव्यवहितपूर्ववर्तितत्तद्घटज्ञानत्वेन तत्तद्धटज्ञानं कारणमित्येवं न किन्तु विशिष्टबुद्धि प्रति विशेषणज्ञानं कारणमिति सामान्यकार्यकारणभावस्य क्लप्तत्वेन तदनुरोधेन घटत्वप्रकारकत्वेन घटत्वविशिष्टबुद्धिरूपतयोत्तरोत्तरज्ञानं प्रति पूर्वपूर्वघट ज्ञानानां घटत्वात्मकविशेषणविषयकत्वेन विशेषणबुद्धिरूपतयेति घटज्ञानं प्रति घटत्वज्ञानत्वेन घटज्ञानमित्येव कार्यकारणभाव इति तादृशहेतुतया कार्यककालत्वस्य निराकर्तुमशक्यत्वादित्यर्थः । “कायें कालस्य" इत्यस्य स्थाने " कार्यककालत्वस्य" इति पाठो युक्तः। एवं च सति यदापद्यते तदुपदर्शयति- एकज्ञानकाल इतिपूर्वज्ञानोत्पत्त्यव्यवहितपूर्वकाले यथा पूर्वज्ञानस्य प्रागभावस्तथा द्वितीय-तृतीयादिक्षणभाविनां धारावाहिकज्ञानानामशेषाणामपि प्रागभावाः सन्ति, चक्षुर्घटसंयोगादिकं कारणान्तरमपि विद्यत इति सम्भृतसामग्रीवादे कज्ञानोत्पत्तिकाल एव द्वितीयादि. सकलज्ञानोत्पत्त्यापत्तेर्धारावाहिकत्वमेव भज्येतेत्यतस्तत्तत्क्षणत्वेन कालस्य तत्तज्ज्ञानं प्रति हेतुता कार्यककालत्वपरिहाराया. ऽऽवश्यकीत्यर्थः । एवं कार्यकदेशत्वपरिहाराय तत्तद्देशीयतत्तद्धटादिकं प्रति तत्तद्देशत्वेन देशस्यापि कारणत्वमावश्यकमित्याहतथेति । कार्यकदेश्यनिरासाय कार्यकदेशत्वपरिहाराय । तत्तद्देशीयेति-तत्तद्देशनिष्ठेत्यर्थः । कथमित्यस्य न स्यादित्यनेनान्वयः । अन्यथा तत्तद्देशीयघटं प्रति तत्तद्देशवेन देशस्य कारणत्वाभावे । इति एवंस्वरूपः । अयं प्रतिनियतकाल-देशयोः प्रतिनियतकार्ये व्यापारः । कालधर्मानुप्रवेशेन तत्तत्क्षणाव्यववहितोत्तरजायमानतत्तद्घटत्वरूपकार्य. तावच्छेदकशरीरे तत्तत्क्षणत्वरूपकालधर्मस्यानुप्रवेशेन । ऋजुसूत्रनयेन उत्तरोत्तरक्षणं प्रति पूर्वपूर्वक्षणस्य कारणत्वमित्यभ्युपगन्तृ ऋजुसूत्रनयन, स्वभाव-नियत्योापार इत्यत्रैवायभिति पूर्वोत्तोऽन्वेति । ऋजुसूत्रनयेन स्वभाव-नियतिहेतुताप्रवादसमर्थन कृत्वा सङ्कहनयेन तत्समर्थनमावेदयति- सामान्यत इति-कार्यत्वावच्छिन्नं प्रति कालत्वेन कालस्य हेतुताया इत्यर्थः, अस्य प्रवादस्यत्यनेनान्वयः । प्रागभावेति-प्रागभावविधया स्वभावहेतुतायाः समवायिकारणविषया नियतिहेतुताया इत्येवमन्वयोऽत्र, एतत्कालान्तरमेवानेनोत्पत्तव्यमिति स्वभावहेतुता प्रागभावकारणतावलम्बनेन प्रवृत्ता, कपाले एव घटेनोत्पत्तव्यं तन्तुष्वेव पटेनोत्पत्तव्यमिति नियतिहेतुता समवायिकारणहेतुतावलम्बनेन प्रवृत्ता, कार्यमानं प्रति प्रागभावस्य कारणत्वं भावकार्यसामान्य प्रति समवायिकारणस्य कारणत्वमिति पर्यवसितः स्वभाव-नियतिहेतुताप्रवाद इति बोध्यम् । सङ्घहनयाभिप्रायेणैवेति- कालत्वेन कालमात्रस्य प्रागभावत्वेन प्रागभावमात्रस्य समवायिकारणत्वेन समवायिकारणमात्रस्य कार्यत्वेन कार्यमात्रस्य सङ्ग्रहणं सङ्ग्रहणनयाभिप्रायेण सम्भवति नान्यनयाभिप्रायेणेत्यन्यनयाभिप्रायव्यवच्छेदायैव. कारोपादानम्, एवम्भूतनयाभिप्रायेण तथाभव्यत्वमेव तत्तत्कार्य जनकमिति निगमयति- तथा चेति- ऋजुसूत्रनयाभिप्रायेण तत्तत्क्षणत्वेन तत्तत्कार्य प्रति कारणत्वस्य सङ्ग्रहनयाभिप्रायेण सामान्यतः कालत्वादिना हेतुत्वस्य व्यवस्थितौ चेत्यर्थः ।