SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३०० नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । तथाहि- एकस्यैव मुखस्य दर्पणोपाधिसम्बन्धाद् बिम्बप्रतिबिम्बभावः, एवं चिन्मात्रस्योक्तोपाधिसम्बन्धाजीवेश्वरभावो न तत्त्वान्तरमस्ति । अज्ञानं त्वनाद्यनिर्वचनीयमायाऽविद्यादिशब्दाभिधेयम् , तञ्चैकेनैवोपपत्तावनेककल्पनानवकाशादेकमेवेत्येके । बद्धमुक्तव्यवस्थानिरूपणाय नानेत्यन्ये, तदवस्थानि मूलाज्ञानानि व्यवहारसौकर्याय निरूपयन्ति- तत्रैव माया-ऽविद्याशब्दद्वयनिमित्तं शक्तिद्वयं-विक्षेपशक्तिरावर्णशक्तिश्च, कार्यजननशक्तिर्विक्षेपशक्तिः, तिरोधानशक्तिरावर्णशक्तिः, यथा-अवस्थारूपस्य रज्वज्ञानस्य सर्पजनन. तथाहीत्यादिना । बिम्बप्रतिबिम्बमात्र इति-दर्पणरूपोपाधौ दर्पणगतमालिन्यादिदोषान्मलिनमिव तद्गतमुपलभ्यमानं मुखं प्रतिबिम्बत्वधर्माकान्तत्वादन्यत् तदन्यच्च ग्रीवास्थमेव स्वस्वरूपव्यवस्थितं बिम्बत्वधर्माकान्तम्, दर्पण लक्षणोपाधि. सम्बन्धाभावे च बिम्बप्रतिबिम्बभावानाक्रान्तमेव केवलं मुखमिति यथेत्यर्थः। एवं तथा । उकोपाधिसम्बन्धात् अज्ञानलक्षणोपाधिसम्बन्धात् । न तत्त्वान्तरम् औपाधिकस्य जीवेश्वरविभागस्योपाध्यभावेऽभाव एवेति वस्तुतस्तस्याभावान्न ब्रह्मतत्त्वातिरिकतत्त्वरूपतालक्षणं तत्त्वान्तरत्वमिति न ब्रह्मतत्त्वादन्यत् तत्त्वमस्ति । अज्ञानमिदं न ज्ञानप्रागभावज्ञानात्यन्ताभावरूपं किन्तु तेजोविरोधिभावस्वरूपवज्ज्ञानविरोधिभावस्वरूपमेवाविद्यादिशब्दाभिधेयमित्याह-अज्ञानं विति- अनाद्यनिर्वचनीयं यद् मायाऽविद्यादि तत्प्रतिपादको यो मायाऽविद्यादिशब्दस्तेनाभिधेयमज्ञानमित्यर्थः, अथवा अनादिशब्दोऽनिर्वचनीयशब्दो मायाशब्दोऽविद्याशब्द इत्यादिशब्दाभिधेयमज्ञानं पुनरित्यर्थः । तदज्ञानमेकमने वेति जिज्ञासायामके केचन वेदान्तिमतानुयायिन आचार्या लाघवादेकमेव तदिच्छन्तीति तन्मतमुपदर्शयति- तच्चेति- मायाऽविद्यादिशब्दाभिधेयमज्ञानं पुनरित्यर्थः । एकेनैवाशानेन उपपत्ती अज्ञानबिम्बत्वाकान्तं चैतन्यमीश्वरः, अज्ञानप्रतिबिम्बत्वाकान्तं चैतन्यं जीव इत्येवमीश्वरजीवभेदव्यवस्थित्युपपत्तौ। अनेककल्पनानवकाशात् मायोपाधिकं चैतन्यमीश्वरोऽविद्योपाधिकं चैतन्यं जीव इत्येवमनेकाज्ञानकल्पनायाः प्रयोजनस्य जीवेश्वरविभागस्यान्यथैवोपपत्तावनवकाशात् । एकमेवेत्यत्र तदित्यस्यान्वयः । इति एवम् । एके आचार्या अभ्युपगच्छन्ति । अविद्याशब्दाभिधेयस्य जीवोपाधेरज्ञानस्यैकत्वे तदुपाधिकचैतन्यरूपस्य जीवस्याप्येकत्वमित्येकस्य मुक्तौ तपस्य सर्वजीवस्य मुक्तिरेकस्य बन्धे सर्वस्यापि बन्ध इति एको जीवो बद्धस्तदानीमेवान्यो मुक्त इत्येवं बद्धमुक्तव्यवस्थैकाज्ञानोपाधिवादे दुर्घटेत्यनेकमेवाज्ञानमभ्युपेयमियेवमन्ये वेदान्तिमतानुयायिन आचार्या उररी कुर्वन्तीति तन्मतं दर्शयतिबद्धमुक्तेति । 'अन्ये' इत्यस्यैव निरूपयन्तीत्यनेनान्वयः, तथा च व्यवहारसौकर्याय तदवस्थानि मूलाज्ञानानि निरूपयन्त्यन्ये इत्यन्वयः फलितः। कथं तन्निरूपणमित्याकालायां निरूपणप्रकारमुपदर्शयति-तत्रैवेति-- मूलाज्ञान एवेत्यर्थः । मायेति-मायाशब्दनिमित्तमेकां शक्तिमपरामविद्याशब्दनिमित्तमित्येवं शक्तिद्वयं निरूपयन्तीत्यर्थः। शक्तिद्वयं नाममा दर्शयति-विक्षेपेति-रावणेत्यस्य स्थाने रावरणेति पाठो युक्तः, एवमग्रेऽपि, तथा च अज्ञाने विक्षेपशक्त्या मायाशब्दः प्रवर्तते, आवरणशक्त्या अविद्याशब्दः प्रवर्तते इति । क्रमेण तदुभयखरूपं लक्षयति- कार्येति- अज्ञानं यया शक्त्या - भिनवकार्य जनयति सा कार्यजननशक्तिर्विक्षेपशक्तिरित्यर्थः, यया शक्त्या यथावस्थितवस्तुस्वरूपप्रहणं ज्ञानस्य प्रतिबध्नाति सा तिरोधानशक्तिरावणशक्तिरित्यभिधीयते, आवरणशक्तेरपि असत्त्वापादका-ऽभानापादकशक्तिभ्यां वैविध्यं ग्रन्थान्तरे उपवर्णितम्, तत्र ययाऽज्ञानशक्त्या प्रतिबन्धाद् वस्तुनोऽस्तित्वमपि ग्रहीतुं न पार्यते साऽसत्त्वापादकावरणशक्तिः, वस्तुनः सत्त्वं गृह्णन्नपि पुरुषो ययाऽज्ञानशक्त्या प्रतिबन्धादिदमीग् वस्त्वित्येवं प्रहीतुं न शक्नोति प्रमाता साऽभानापादकावरणशक्तिः, अत्र असत्त्वापादकावरणशक्तिरज्ञानस्य परोक्षज्ञानात् प्रतिरुद्धा भवति विनश्यति वा, तेन वस्तुनः परोक्षज्ञाने जाते सोऽस्तीति सामान्यतोऽस्तित्वं प्रतीयते, स इत्थंस्त्ररूप इति विशेषतो ज्ञानाभावात् कीदृशः स इति जिज्ञासा ततो न निवर्तते, अभानापादकावरणशक्तिस्त्वज्ञानस्यापरोक्षज्ञानात् प्रतिरुद्धा भवति विनश्यति वा, तेन वस्तुनः प्रत्यक्षज्ञाने समुत्पन्ने सतीदं वस्त्वित्थमेवेति विशेषतो ग्रहणं भवति, न तदानीं कीदृगिदमिति जिज्ञासा समुल्लसति, तथा च परोक्षज्ञानतोऽसत्त्वापादकशक्तेरभिभवान्नाशाद् वा वस्त्वस्तीत्येव ज्ञायते, प्रत्यक्षज्ञानतोऽभानापादकशकेरभिभवान्नाशाद् वा वस्तु भातीति ज्ञायते इति विवेकः । निरुक्तशक्तिद्वयमेव दृष्टान्तदान्तिकभावसङ्गमनेन भावयति- यथेति । अवस्थारूपस्य मूलाज्ञानावस्थरूपस्य, तूलाज्ञानपदवाच्यस्येति यावत् , मूलाज्ञानं शुद्धचैतन्यं परमब्रह्मावृणोति, तत्रैव व्यावहारिकसत्त्वाद्याकान्तं भूजलादिकं सजति चेति रज्ज्वज्ञानादिकं च तस्यैवावस्थाविशेषरूपं तूलाज्ञानशब्दाभिधेयं रज्ज्वादिकमावृणोति रज्ज्वादावेव च
SR No.022473
Book TitleNayopdesh
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy